________________
८३३
न्यायागमानुसारिणीवृत्यलङ्कृतम्
[द्वादशे नियमनियमारे नैव दीर्घम् ...... ह्रस्वत्ववत् । तत्प्रत्ययोऽपि न ..... ह्रस्वप्रत्ययवत् ।
एवं ह्रस्वत्वेऽपि । उभयोभयपक्षस्तु प्रत्येकाभिहितदोषैनं विमुच्यते प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेविप्रतिषेधाच्च । यद्यहेतुतः खपुष्पमपि स्यात् ।
एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति । न घटे घटत्वं परायत्तत्वाद् घटत्वस्य । 5 यदि हि स्वविषयमेवैतत् स्याद् घटो नाघटोऽपि स्यात् । भवति वितरेतरः। तस्य चाघटत्वेऽन्येऽपि घटा अघटा एवेति घटाभावः। तदभावेऽघटाभावः, घटापेक्षत्वादघटत्वस्य ।
५३५-१ एव प्रसक्तः। अत्रानिष्टापादनसाधनम्-नैव दीर्घमित्यादि गतार्थं यावद् ह्रस्वत्ववदिति। तथा तत्प्रत्ययोऽपि नेति गतार्थं यावद् ह्रस्वप्रत्ययवदिति ।
एवं ह्रस्वत्वेऽपीत्यतिदेशः । यदि ह्रस्वे ह्रस्वत्वम् इत्युपक्रम्य दीर्घशब्दस्थाने ह्रस्वशब्दं कृत्वा 10 स एव ग्रन्थो वाच्यो यावदयमवधिरिति । उभयोभयपक्षस्तु 'ह्रस्वमपि दीर्घ ह्रस्वं च, दीर्घमपि दीर्घ
ह्रस्वं च' इत्ययमपि उभयोभयपक्षः प्रत्येकमभिहितैर्दोषेर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः पृथक्सिद्धिमूलत्वादपेक्षायाः। किञ्चान्यत्, विप्रतिषेधाच्च ह्रस्वत्व-दीर्घत्वयोविरोधादप्रवृत्तिरित्युक्तत्वात् । एवं तावन्न स्वतो न परतो नोभयतश्च ह्रस्व-दीर्घ सिध्यत इति ।
स्यान्मतम्-अहेतुतः सिध्यत इति । अत्रोच्यते--यद्यहेतुतः खपुष्पमपि स्यात्, अहेतुतश्च न 15 सिध्यति दीर्घत्वम्, अहेतुकत्वात् खपुष्पवत्। यदि सिध्येत् खपुष्पमपि सिध्येत्, अहेतुकत्वात्, दीर्घत्ववत् ।
स्यान्मतम्-आपेक्षिकेषु ह्रस्व-दीर्घादिषु स्यादयं न्यायः, न तु घटादिष्वपि । नैवं मन्तव्यम्, यस्मात्, एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति । तद् व्याचष्टे-न घटे घटत्वं परायत्त
त्वाद् घटत्वस्येत्यादि यो दीर्घत्वप्रतिषेधे न्यायः स एवात्रापि दीर्घस्थाने घटं कृत्वा ह्रस्वस्थाने ५३५-२ पटाद्यघटं घटान्तरं च कृत्वा। घट एवाघटो दृष्ट इतरस्य घटस्येतरघटत्वाभावात् देश-कालाकारादि20 भेदाच्च परस्परतः । तस्मात् परायत्तं घटान्तरे पटादौ चायत्तम् ।
यदि हि स्वविषयमेवैतत स्यात घटोनाघटोऽपि स्यात। कथं पुनरघटोऽपि भवति? इत्यत आह-भवंति त्वितरेतरः । तस्य चाघटत्वे एवं तस्य घटस्यैवाघटत्वे यथाऽसावघटस्तथान्येऽपि घटा अघटा एवेति घटाभावः। पटादयस्त्वघटा एव सिद्धाः । तस्य घटस्याभावेऽघटाभावः, कस्मात् ? घटापेक्षत्वादघटत्वस्य, सोऽप्येवमघटो न भवतीति, अघट: तस्मादन्यो घटः पटो वा, एतद्घटत्वा
१ प्रसक्तमात्रा प्र०॥॥२ ह्रस्वत्वेत्यतिदेशः य० । दृश्यतां पृ० ८३१ पं० २१, पृ० ८३५ पं० १३।। ३ तुलना पृ० ८३० पं० १॥ ४ तुलना-पृ० ८३५ पं० ७॥ ५ तुलना-पृ० ८३५ पं० ८॥ ६ ष्वति भा० ।। ७ पृ० ८३० पं० १॥ ८ पृ० ८३० पं०१॥ ९ न घटों भा०॥ १० भवत्वितरें य० ॥ ११ तुलना-पृ० ८३० पं० २॥ १२ घटस्य भा०। १३ भावोऽघटाय० ॥ भावो घटा भा०॥ १४ ऽस्माद भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org