SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ द्वादशारं नयचक्रम् सर्वस्य निःस्वभावत्वसाधनम् ८३२ चाकुर्वाणं दीर्घस्य तदात्मतां तद्बुद्धि च न कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घत्वप्रत्ययवत्। ___ दीर्घ एव वर्तमाने दीर्घत्वे दीर्घ भवति ततो दीर्घ एव दीर्घतां करोति तत्प्रत्ययं चाधत्ते, किन्तु ह्रस्वेन तत्प्रत्ययेन च नार्थः । ___अथ तत्र दीर्घतां न करोति न वा तत्प्रत्ययमादधाति ततो ह्रस्वे कथं दीर्घत्वं 5 कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घप्रत्ययवत् । अथोच्येत-ह्रस्वे दीर्घतां नैव करोति तत्प्रत्ययमपि नादधाति । एतदपि न, ह्रस्वदीर्घयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात् तत्प्रत्ययस्य च । तद्यथा-सिद्धार्थक . . . . . . । करोति न च दीर्घप्रत्ययमाधत्ते, तत् स्वाधारस्य तदात्मतां तत्प्रत्ययं चाकुर्वाणं ह्रस्वस्य दीर्घस्यानाधारस्य दीर्घतां* 'दीर्घः' इति बुद्धिं च कथं कुर्यात् ? न कुर्याद् नादध्यात् तद्बुद्धि च, ततोऽन्यत्र 10 वृत्तत्वात्, यद् यतोऽन्यत्र वर्तते तत् तस्य तत्तां न करोति न च तद्बुद्धिमादधाति, हस्वादीर्घत्वप्रत्ययवत्, यथा ह्रस्वे दीर्घत्वं न करोति नादधाति तत्प्रत्ययं तथा दीर्घत्वं 'दीर्घे दीर्घप्रत्ययं च न कुर्याद् नादध्यादिति। ___ अथ मा भूदेष दोष इति दीर्घ एव दीर्घत्ववृत्तिरिष्यते, अत्र ब्रूमः-दीर्घ एव वर्तमान इत्यादि । ५३४-२ तत इदमापन्नम्-दीर्घ एव वर्तमानं दीर्घत्वं दीर्घतां करोति तत्प्रत्ययं चाधत्ते तत्रेति, इष्यत एतत्, 15 किन्तु ह्रस्वेन दीर्घतरेण इतरेतरयोगार्थं कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारवलादेव तत्सिद्धेः। ___इतरेतरयोगप्रस्तुतेश्चायमपि दोषः-अथ तत्रेत्यादि। ह्रस्व-हस्वप्रत्ययवैयर्थ्यदोषपरिहारार्थमितरेतरयोगे सत्यपि तत्र दीर्घे दीर्घतां न करोति न दीर्घप्रत्ययं वाऽऽदधातीति मन्यसे तत इदमन्यघोषजातं प्राप्तम्- ह्रस्वेऽपिदीर्घत्वं न करोति न च दीर्घप्रत्ययमाधास्यतीति प्राप्तम् । एतदर्थप्रदर्शनम्ह्रस्वे कथमित्यादि गतार्थं पूर्ववत् साधनं यावद्धृस्वादीर्घप्रत्ययवदिति। , 20 अथोच्यतैतद्दोषपरिहारार्थं त्वया-ह्रस्वे दीर्घतां नैव करोतीति दीर्घप्रत्ययमपि नादधातीति । एतदपि नोपपद्यते, ह्रस्व-दीर्घयोः परस्परांपेक्षसिद्धेर्लोके दृष्टत्वात् तत्प्रत्ययस्य च, तस्यैव चैकस्य वस्तुनोऽर्थान्तरापेक्षस्य ह्रस्वत्व-दीर्घत्वदर्शनात् । तद्यथा-सिद्धार्थकेत्यादि दण्डकोक्तानां सिद्धार्थकादारभ्य मेरुपर्यन्तानामितरेतरापेक्षह्रस्वादीनां दीर्घाणां च दृष्टानां ह्रस्वे वृत्तस्य दीर्घत्वस्य दीर्घाकरण-दीर्घप्रत्ययानाधानाभ्युपगमेऽत्यन्तं दीर्घाभाव 25 १ दीर्घदीर्घ प्रत्ययं प्र० ॥ २ दीर्घत्वं दीर्घतां न करोति य० । दीर्घतां न करोति भा० ॥ ३ ह्रस्वेति य० ॥ ४ मादधास्यतीति प्र० । “मादधातीति' इत्यपि पाठोऽत्र स्यात् ?।। ५ पूर्वसाधनं य० ॥ ६ पं० १, २० ॥ ७ पेक्ष्यसि भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy