________________
८३१
न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वादशे नियमनियमारे ह्रस्वमेव संवृत्तम्, तस्य दीर्घत्वाभावात्मकत्वात् कुतो दीर्घत्वमागतमन्यत् ? ह्रस्वत्वाभावाच्च नास्ति दीर्घत्वम् । तथापि पुनर्दीर्घत्वह्रस्वत्वयोर्भावाभ्युपगमे ह्रस्वत्वप्रतियोगिनो दीर्घत्वस्याभावान्न दीर्घत्वम् ।
न द्वये, उक्तन्यायात स्वपरयोः प्रतिद्वन्द्वित्वाद्वा । एषोऽपीतरेतरयोगश्चिन्त्यः-कि 5 ह्रस्वे वर्तमाने दीर्घत्वे दीर्घ भवति उत दीर्घ एव वर्तमाने ? यदि ह्रस्वे वर्तमानं दीर्घत्वमुभयत्र भावं लभते ततो ह्रस्वे वर्तमानं दीर्घत्वं ह्रस्वस्य तदात्मतां तत्प्रत्ययं
ह्रस्वत्व-दीर्घत्वयोः परस्परविरोधात् तमःप्रकाशवत् जीवित-मरणवच्चैकत्र कुतो भावः ? तस्य वा दीर्घत्वे दीर्घत्वाभावात् * 'ह्रस्वस्य तस्य दीर्घत्वाभ्युपगमे दीर्घादपसृत्य ह्रस्वे स्थितं दीर्घत्वं ह्रस्वमेव संवृत्तमिति प्रसक्तमतो दीर्घत्वाभावः * । कस्मात् ? तस्य ह्रस्वत्वस्य दीर्घत्वाभावात्मकत्वात् । 10 यद्धि लोके दीघं न भवति तदुच्यते ह्रस्वमिति । तस्मात्तस्य दीर्घत्वाभावात्मकत्वात् कुतो दीर्घत्व
मागतमन्यत् ? ह्रस्वत्वाभावाच्च नास्ति दीर्घत्वम्, दीर्घत्वस्य ह्रस्वे वृत्तेर्दीर्घत्वावष्टब्धस्यानवकाशाद्धस्वत्वस्य ह्रस्वाभावे क्व दीर्घत्वं वर्तेत ? अतोऽपि दीर्घत्वाभावः।
तथापि पुनरित्यादि । पुनरपि च दीर्घत्व-ह्रस्वत्वयोर्भावाभ्युपगमेऽपि ह्रस्वत्वप्रतियोगिनो दीर्घत्वस्याभावान्न सिध्यति दीर्घत्वम्, स्वात्मनि परत्र वा वृत्त्यसम्भवात् । 15 स्यान्मतम्-उभयत्र वर्ततेऽन्यापेक्षत्वादुभयोः ह्रस्वमपेक्ष्य [दीर्घ सिध्यति दीर्घमपेक्ष्य] ह्रस्वं सिध्य
तीति । एतच्च न द्वये, कस्मात् ? उक्तन्यायात्, यथा ' दीर्घे दीर्घत्वं न परायत्तत्वात् इत्युपक्रम्य ५३४-१ यावत् इतरेतराश्रयत्वादसिद्धिः इत्युक्ता[द्] न्यायान्न सिध्यति दीर्घता, तथा ह्रस्वेऽपि न वर्तत
इत्यधुनोक्ता[द्] न्यायान्न सिध्यति, द्वयोरन्यतरत्नाप्यसिद्धस्य कुत उभयत्र सिद्धिः? स्व-परयोः
प्रतिद्वन्द्वित्वाद्वा, यथा दीर्घत्वं दीर्घ ह्रस्वे च वर्तते तथा ह्रस्वत्वमपि दीर्घ ह्रस्वे च वर्तते, अत 20 उभयोरुभयत्र भावो विरोधी, तयोः सहवृत्तिरयुक्ता विरोधित्वादेव परस्पर[म्] इत्युक्तम् । तस्मान्न स्वतो न परतो नोभयतश्च दीर्घत्वं सिध्यति ह्रस्वत्वं वा, एवं ह्रस्वत्वेऽपि इत्यतिदेक्ष्यमाणत्वात् ।
किञ्चान्यत्, उभयत्र दीर्घत्ववृत्तिरेषा, सा वितरेतरयोगः, एषोऽपि चिन्त्यः-किं ह्रस्वे स्वाश्रयाद्दीर्घादन्यत्र वर्तमाने दीर्घत्वे दीर्घ भवति? उत स्वाश्रये दीर्घ एव वर्तमाने दीर्घत्वं भवति? इति निर्धार्यम् । किञ्चातः? यदि ह्रस्वे इत्यादि, यदि ह्रस्वे वर्तमानं दीर्घत्वमुभयत्र भावमितरेतरयोगं लभत इतीष्यते प्रथमविकल्प इति, ततः किम् ? ततो ह्रस्वे वर्तमानं दीर्घत्वं ह्रस्वस्य दोघेतां 'नं
१ * *एतदन्तर्गत: पाठो य० प्रतौ नास्ति ।। २ उच्यते य०॥ ३ (न्योन्यापेक्ष ?) ।। ४ एतच्च द्वये य० । १०८३४ पं० २२॥ ५ पृ०८३० पं०१-५॥ ६ पृ०८३३ पं० २॥ ७ °तिदेश्यमाण य० ॥ ८ तुलनापृ० ८३३ पं० २॥ ९ भवत्यतः स्वा य० ॥ १० दीत्वे भवति भा०॥ ११ * * एतदन्तर्गतो न इत्यत आरभ्य दीर्घताम इत्यन्त: पाठो य० प्रतौ नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org