________________
सर्वस्य नि:स्वभावत्वसाधनम् ]
द्वादशारं नयचक्रम्
८३०
असिद्धे (द्धि) स्तावद् न दीर्घे दीर्घत्वं परायत्तत्वाद् दीर्घत्वस्य । यदि हि स्वविषयमेवैतत् स्यात् अनामिकाह्रस्वत्वं न स्यात्, अपरापेक्षत्वात् । तस्याश्चाहस्वत्वे मध्यमादीर्घत्वाभावः । तस्माच्चानामिकाह्रस्वत्वाभावः, तयोः परस्परायत्तत्वात् । कदा मध्यमा दीर्घा सेत्स्यति यदानामिका ह्रस्वा भवेत् अनामिका च कदा ह्रस्वा भवति यदा मध्यमा दीर्घा सेत्स्यतीतीतरेतराश्रयत्वादसिद्धिः ।
5
न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्वित्वात् । तस्य वा दीर्घत्वे दीर्घत्वाभावाद् दीर्घत्वं
सामग्र्यां दर्शनेऽपि न स्वो भावः । अदर्शने पुननैव स्वभाव इत्युपसंहारो भविष्यति ।
क्रमेणैते हेतवः प्रतिपाद्या इत्यत आह-३ इ - अंसिद्धे (द्धि) स्ताव दित्यादि । अङ्गुलिर्मध्यमा दीर्घा, अनामिका ह्रस्वा, तयोर्दीर्घाया मध्यमाया 'दीर्घा' इति यः स्वभावो दीर्घत्वं तन्न तावद् दीर्घे स्वात्मनि अस्ति । कस्मात् ? परायत्तत्वात् तस्या मध्यमायास्तस्य दीर्घत्वस्य तद्धितस्या दीर्घत्व - 10 मनामिकाह्रस्वत्वायत्तम्, तां ह्यनामिकां ह्रस्वामपेक्ष्य मध्यमा 'दीर्घा' इत्युच्यते, यत् स्वात्मन्यसिद्धं ५३३-१ खरविषाणादिवत् तत् कथं परतः सिध्येत् ।
स्यान्मतम्–स्वायत्तमेवेति । तन्न, अनामिका ह्रस्वत्वाभावप्रसङ्गात्, यदि हि स्वविषयमेवैतत् स्यात् • यद्यात्मायत्तमेव मध्यमाया दीर्घत्वम् तथानामिकाह्रस्वत्वं न स्यात्, अपरापेक्षत्वात्, सापि दीर्घ स्यात्, यथा हि मध्यमाऽनामिकानिरपेक्षा दीर्घेष्यते तथानामिकाऽपि मध्यमानिरपेक्षा स्वत एव 15 दीर्घेष्यतां मध्यमावत्, न तु भवति तस्या ह्रस्वत्वेष्टेः ।
अथाह्रस्वैवेष्यते ततस्तस्याश्चाह्रस्वत्वे मध्यमादीर्घत्वाभावः, तस्या अनामिकायाः स्वात्मनि ह्रस्वत्वाभावे मध्यमाया दीर्घत्वं न स्यात्, तामेवापेक्ष्य ह्रस्वामनामिकां 'दीर्घा' इति व्यपदेशात् सा. वेदनामिका ह्रस्वा न भवति कामन्यामपेक्ष्य दीर्घा स्याद् मध्यमा ? इति तस्या दीर्घत्वाभावः । तस्माच्च मध्यमादीर्घत्वाभावाद् दीर्घत्वप्रतिपक्षस्यानामिकाह्रस्वत्वस्याभावः, तयोः परस्परायत्तत्वात् । 20 तद् भावयति-कदा मध्यमेत्यादि यावत् सेत्स्यतीति गतार्थमितरेतराश्रयत्वभावनम् । इतीतरेतराश्रयत्वादसिद्धिः, इत्थमुक्तेतरेतराश्रयत्वान्न सिद्धिः परस्परप्रतिबंद्धाम्बुस्थ वाताहत नौद्वयवद् विशीर्यते ह्रस्व-दीर्घत्वकल्पना । एवं तावद् दोर्घे दीर्घत्ववृत्तिमिच्छतः प्रसङ्गादुभयोरप्यभाव आपादितः ।
2
स्यान्मतम् - ह्रस्वे तर्हि दीर्घता भविष्यति त्वदुक्तविधिना हस्वापेक्षत्वाद् दीर्घत्वस्यानामिकाह्रस्वत्वायत्ता भि (हि) मध्यमादीर्घता भवितुमर्हति, अतः सिध्यति दीर्घत्वं तथा ह्रस्वत्वमितरापेक्षत्वा- 25 दिति । अत्रोच्यते-नं ह्रस्वेऽपि दीर्घत्वम्, तत्प्रतिद्वन्द्वित्वात् "दीर्घस्य ह्रस्वत्वेन विरोधात्
५३३-२
१ तुलना - पृ० ५४४ - १ ।। २ पुनर्भेद स्वभाव य० ।। ३ तुलना - पृ० ५५३ - १ ।। ४ तुलना - पृ० ८३१ पं० १६, पृ० ८३३ पं० ३, ५५३ - १ ।। ५ तुलना - पृ० ८३३ पं० २२ ।। ६ यथाद्यात्मा य० ॥ ७ तुलना - पृ० ८३३ पं० २३, ५५४-२ ॥ ८ तुलना - पृ० ८३१ पं० १७, पृ० ८३४ पं० १५ ।। ९ बर्द्धास्य य० । तुलनापृ० ३४ पं० ९ ।। १० तुलना - पृ० ८३४ पं० १७ ॥। ११ दीर्घेन ह्रस्वत्वेन य० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org