________________
८२९
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वादशे नियमनियमारे
तत्र चोक्तो दोषः । अथ नास्ति, तथापि नोभयं तत्, किन्त्वजातमेव, तत्रापि चाभिहितमेव दूषणम् । नापि जायमानं जायते, पूर्वोक्तविकल्पद्वयानतिवृत्तेः, तथाहि - तदपि जायमानमस्ति, न वा? यद्यस्ति, तहिं जातमेव तत् । नास्ति चेत्, तर्यजातमेव । पक्षद्वयेऽपि चास्मिन्नभिहित एव दोषः । उक्तं च
“गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मक्तं गम्यमानं न गम्यते ॥ १॥ इत्यादि । यस्मादेवम्, तस्मादनवस्थादिदोषप्रसङ्गेन, वस्तूनामुत्पादायोगाज्जगतः शून्यतैव युक्तेति ।। १६९४ ।। प्रकारान्तरेणापि वस्तूत्पत्त्ययोगतः शून्यतासाधनार्थमाह
हेऊपच्चयसामग्गिवीसुभावेसू नो व जं कज्ज ।
दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ।। १६९५ ।। हेतवः- उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतु-प्रत्ययानां या सामग्री तस्या विष्वग् भावेषु पृथगवस्थासु यत् कार्यं न दृश्यते, दृश्यते च सामग्रीमयम् संपूर्णसामग्र्यवस्थायां पुनर्दृश्यत इत्यर्थः। एवं च सति कार्यस्य सर्वाभाव एव युक्त इति शेषः। सर्वाभावे च न सामग्री - नैव सामग्रीसद्भावः प्राप्नोतीत्यर्थः । ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम्-हेतवश्च प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा? न तावदेकैकशः, तथाऽनपलब्धेः । तत एकैकस्मात् कार्यस्याभावात् सामग्र्यामपि तदभाव एव स्यात्, सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पत्त्यभावे सामग्रीसद्भावोन प्राप्नोति, अनुत्पन्नाया : सामण्या अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं च
" हेतु-प्रत्ययसामग्रीपृथग्भावेष्वदर्शनात् । तेन ते नाभिलाप्या हि भावाः सर्वेस्वभावतः ॥१॥ लोके यावत् संज्ञा सामयामेव दृश्यते यस्मात् ।
तस्माद् न सन्ति भावा भावे सति नास्ति सामग्री ॥२॥" इत्यादि । अस्य च व्याख्या -पृथग्भावेष्वदर्शनात् 'कार्यस्य' इति शेषः । तेन ते घटादयो भावाः सर्वेऽपि स्वभावतः स्वरूपतो नाभिलाप्याः, पृथगेकैकावस्थायां कार्यस्यानुत्पादात्, उत्पत्तिमन्तरेण च घटादिसंज्ञाप्रवृत्तेः, संज्ञाऽभावे चाभिलप्तुमशक्यत्वादिति । कुतः पुनः पृथगवस्थायां संज्ञाप्रवृत्तिः? इत्याह-लोके यावदित्यादि, लोके यावत् संज्ञा 'घटोऽयम्' इत्यादिसंज्ञाप्रवृत्तिः, तावत् संपूर्ण कार्य संपूर्णसामग्र्यामेव यस्माद् दृश्यते, पृथग्भावे च सामग्र्यामप्यभावात् सिकतातैलवद् न सन्त्येव भावाः, भावासत्त्वे च कुतः सामग्रीसद्भावः? इति ।। १६९५ ।। प्रकारान्तरेणापि शून्यतासिद्धयर्थमाह
परभागादरिसणओ सव्वाराभागसुहुमयाओ य।
उभयाणुवलंभाओ सव्वाणुवलद्धिओ सुण्णं ॥ १६९६ ।। इह यत् तावद् दृश्यं तदसदेव, अनुपलम्भात्, खरविषाणवदिति निवृत्ता तद्वार्ता । दृश्यस्यापि च स्तम्भ-कुम्भ-कुड्यादेः पर-मध्यभागयोरसत्त्वमेव, अर्वाग्भागान्तरितत्वेन तयोरप्यदर्शनात्, आराद्भागस्यापि च सावयवत्वात् पुनरन्यः खल्वारा
द्भागः, तस्याप्यन्यः पुनस्तस्याप्यन्य इत्येवं तावत् यावत् सर्वारातीयभागस्य, परमाणुप्रतरमात्रत्वेनातिसौक्ष्म्यता, पूर्वेषां चाराभागानामन्यस्यान्येनान्तरितत्वेनानपलब्धेः। ततश्चोक्तन्यायेन परभागसरातीयभागलक्षणोभयभागानपलम्भात् सर्वस्यापि वस्तुजातस्यानुपलब्धेः शून्यं जगदिति । उक्तं च
यावदृश्यं परस्तावद् भागः स च न दृश्यते ।
तेन ते नाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ १॥" तदेवमुक्तयुक्त्या सर्वस्यापि भूतादेरभावः प्राप्नोति, श्रूयते च श्रुतौ भूतादिसद्भावोऽपीति संशयः । इति पूर्वपक्षः।।१६९६।।
-इति मलधारिहेमचन्द्रसूरिविरचितायां विशेषावश्यकभाष्यटोकायाम् पृ० ७२२-७२५ ।। १६ तुलना-पृ० ५५३-१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org