________________
सर्वस्य निःस्वभावत्वसाधनम्] द्वादशारं नयचक्रम्
८२८ भावः ? असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः । स्वपरोभयाभावः ? ब्रूमः-एभ्यो हेतुभ्यः असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः । असिद्धावयुक्तौ च कः स्वभावः ? उत्पादे सति स्वः परो वा भावः स्यात्, अनुत्पादे कुतः सः ? तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं स्वत: सिद्ध किञ्चिदस्ति । तदेवं कार्यादिभावः स्वतो न सिध्यति । यच्च स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न स्वतः कार्यादिभावः,नापि परतः। स्व-परोभयतस्तहि तस्य सिद्धिरिति चेत् । तदयुक्तम्, व्यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात् । न हि सिकताकणेषु प्रत्येकमसत् तैलं तत्समुदाये प्रादुर्भवति । ___ अपिच, उभयतःसिद्धिपक्ष इतरेतराश्रयदोषः प्राप्नोति । यावद्धि कार्यं न सिध्यति न तावत्कारणसिद्धिरस्ति, यावच्च कारणं नसिध्यति न तावत् कार्य सिद्धिमासादयति । अत इतरेतराश्रयदोषः। तस्माद् नोभयतोऽपि कार्यादिभावसिद्धिः । नाप्यन्यतः अनुभयत इत्यर्थः, स्वपरोभयव्यतिरेकेणान्यस्य वस्तुनोऽसत्त्वेन निर्हेतुकत्वप्रसङ्गात् । एवं ह्रस्व-दीर्घलक्षणे दृष्टान्तेऽपि 'अपेक्षातः' इत्यस्य ह्रस्व-दीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः । तथाहि-प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते, मध्यमां त्वपेक्ष्य ह्रस्वत्वम्, परमार्थेन त्वियं स्वतो न ह्रस्वा, नापि दीर्घा । तदेवं न स्वतो ह्रस्व-दीर्घत्वयोः सिद्धिः। ततः परत: उभयतः अनुभयतश्च तत्सिद्धयभावो यथोक्तवद् भावनीयः, तदुक्तम्
"न दीर्धेऽस्तीह दीर्घत्वं न ह्रस्वे नापि च द्वये । तस्मादसिद्धं शून्यत्वात् सदित्याख्यायते क्व हि? ॥१॥ हस्वं प्रतीत्य सिद्धं दीर्घ, दीर्घ प्रतीत्य ह्रस्वमपि ।
न किंचिदस्ति सिद्धं व्यवहारवशाद् वदन्त्येवम् ॥ २॥" इतश्च सर्वजगच्छून्यता । कुत : ? इत्याह
अत्थित्त-घडेगाणेगया व सव्वेगयाइदोसाओ।
__ सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥ १६९३ ॥ नन्वस्तित्व-घटयोरेकत्वम्, अनेकत्वं वा? यद्येकत्वम् तहि सर्वकता प्राप्नोति-योयोऽस्ति स स घट इत्यस्तित्वे घटस्य प्रवेशात् सर्वस्य घटत्वप्रसङ्गः स्यात्, न पटादि पदार्थान्तरम् । घटोवा सर्वसत्त्वाव्यतिरेकात् सर्वात्मक: स्यात् । अथवा, यो घट: स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्टम्, ततोऽन्यत्र सत्त्वाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैक: स्यात् । सोऽपि वा न भवेत्, अघटव्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्षभूतोऽ घट एव नास्ति, तदा किमपेक्षोऽसौ घट: स्यात् ? इति सर्वशन्यत्वमिति । अथ घट- सत्त्वयोरन्यत्वमिति द्वितीयो विकल्पः तहि सत्त्वरहितत्वादसन घटः, खरविषाणवदिति । अपिच, सतो भावः सत्त्वमच्यते, तस्य च स्वाधारभतेभ्यो घटादिभ्यः सदभयोऽन्यत्वेऽसत्त्वमेव स्यात, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः। तदेवमस्तित्वेन सह घटादीनामेकत्वा-ऽन्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वेकतादिदोषप्रसङ्गात् सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः सर्वथैव तेषामभावो वा भवेदित्यर्थः । अपिच, यद् नोत्पद्यते तत्तावद् निर्विवादं खरविषाणवदसदेव, इति निवृत्ता तत्कथा। यदप्युत्पत्तिमल्लोकेऽभ्युपगम्यते तस्यापि जाता-जातादिविकल्पयुक्तिभिरुत्पादोन घटते इति शून्यतैव युक्तेति ।। १६९३ ।। एतदेवाह
जाया-जायो-भयो न जायमाणं च जायए जम्हा । अणवत्था-ऽभावो - भयदोसाओ सुण्णया तम्हा ॥ ॥१६९४ ।। इह तावद् न जातं जायते, जातत्वादेव, निष्पन्नघटवत् । अथ जातमपि जायते, तहयनवस्था, जातत्वाविशेषेण पुनः पुनर्जन्मप्रसङ्गात् । अथाजातं जायते, तत्रोत्तरमाह-'अभाव' ति सूचकत्वात् सूत्रस्य, तहर्यभावोऽपि खरविषाणलक्षणो जायताम् अजातत्वाविशेषात् । अथ जाताजातरूपं जायते, तदप्ययुक्तम्, कुतः? इत्याह-उभयदोषात् प्रत्येकोभयपक्षोक्तदोषापत्तेरित्यर्थः। किञ्च, एतज्जाताजातलक्षणमभयमस्ति वा न वा? । यद्यस्ति, तहि जातमेव तत्, न पुनरुभयम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org