________________
[द्वादशे नियमनियमारे
८२७
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् त्वानतिक्रमाद् रूपादिसमुदायमात्रवादिनोऽपि सैद्धार्थीयत्वापत्तिर्वस्तुवादित्वात् । एवं शेषवादेष्वपि । इत्यलं प्रसंगिन्या संकथया। विरम वस्तुवादात्।
एवं तु गह्यताम्-निःस्वभावमिदं सर्व सुप्तोन्मत्तादिवत् । तदतदाकारप्रकल्पनानपातिविज्ञानत्वात् परमार्थतस्तत्तदाकारशून्यमिदं शून्यमेवेति कल्पयितुं न्याय्यं शून्यगृहवत् 5 प्रवेष्ट्रस्थातृनिर्गन्तृकल्पोत्पादादिरहितम्।
स च स्वभावो न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । अथ कथं स्वपरोभया
शक्त्यन्तरोद्ग्राहपुरस्कृतसामान्यवि[शेषात्मकत्वानतिक्रमाद् रूपादिसमुदायमात्रवादिनोऽपि सैद्धार्थीयत्वापत्तिर्वस्तुवादित्वादिति साधूक्तम् ।
एवं शेषवादेष्वपीति अतिदेशः। एवं शेषेषु पुरुषादिवादेष्वपि स्याद्वाद एवा[प]द्यते बलात्, 10 तत्र तत्र तथैव योजितम् । इत्यलं प्रसङ्गिन्या सङ्कथया, कियदुच्यते ? विरम वस्तुवादात्, एकान्तनिश्चयपुरस्क्रिया-वस्तुवादाभ्युपगमयोः सम्बन्धाभावात् ।
___ किं तर्हि ? एवं तु गृह्यताम्-निःस्वभावमिदं सर्वं सुप्तोन्मत्तादिवत् । यथा सुप्तस्य संवृते
ऽप्यवकाशे हस्तियूथादिदर्शनं निःस्वभावविषयं तदतत्स्वभावशून्यं तथा जाग्रतोऽपि, यथा वा मत्तस्य ५३२-२ मंद्याद्याकुलस्य । सुप्त-मत्तस्थानीया एव हि रक्त-द्विष्ट-मूढाः पाखण्डिनः । तदतदाकारप्रकल्पनानुपाति
15 विज्ञानत्वात् तदतत्स्वाभाव्येन विज्ञानकल्पिताकारं सुप्त-मत्तादिविज्ञानविषयवत् 'किमपि किमपि' १०इत्याभावा (सा)त् परमार्थतो नास्ति कश्चिदाकारः, शून्यं तैस्तैराकारैरिदं गृह्यमाणमपि बुद्धया ग्राहकाकारपरिप्लवाद् ग्राह्याकारभ्रौन्तेश्च, तस्मान्न ग्राहकम्, शून्यमेवेति कल्पयितुं न्याय्यम्, किमिव ? शून्यगृहवत् प्रवेष्ट-स्थातृ-निर्गन्तृकल्पोत्पादादिरहितम्, यथा शून्यगृहे न प्रवेष्टा न' स्थाता न निर्गन्ता उत्पत्ति-स्थिति-विनाशसम्बन्धी तथोत्पाद-स्थिति-भङ्गरहितमिदं ज्ञानविज्ञेयाभिमतमित्युद्देशः । 20 स च स्वभावश्चिन्त्यमानो हेतुतोऽहेतुतो] वा स्यात् । यदि हेतुतः स्वतः परतः उभयतो वा स्यात् । स च स्वभावो ''न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः, अत्रोपपत्तिप्रश्नः-अथ कथं
१ पृ० ८२४ पं० ८॥ २ एवएवान्यते य० ॥ ३ तेमित्यलं य० ॥ ४ संकषाया प्र०॥ ५ विरम स्तुवादात् य० ॥ ६ पुरस्कृया य० ।। ७ वका हस्ति य० ॥ ८ मयाद्या य० ॥ ९ कारे सुमत्तादि य० । तुलना -पृ० ५५३-१ ।। १० (इत्यभावात् ? ) ॥ ११ भ्रान्ते तस्मा य० ।। १२ तुलना-पृ० ५५३-१ ।। १३ स्थाता निर्गन्ता य० ॥ १४ सम्बन्धा य० ॥ १५ सटीके विशेषावश्यकभाष्य उपन्यस्तोऽयं शून्यवादपूर्वपक्षः शून्यवादविचारणायामत्र यथायोगं तेषु तेषु स्थलेष्वनुसन्धेय :- "युक्ति चात्र व्यक्तचेतोगतां भगवान् व्यक्तीकुर्वन्नाह-- जह किर न सओ परओ नोभयओ नावि अन्नओ सिद्धी। भावाणमवेकखाओ वियत्त? जह दीह-हस्साणं ।। १६९२ ॥
व्यक्त ! भवतोऽयमभिप्राय:-यथा किल न स्वतः, न परतः, न चोभयतः, नाप्यन्यतो भावानां सिद्धिः संभाव्यते । कुतः? इत्याह-अपेक्षात:-कार्यकारणादिभावस्यापेक्षिकत्वादित्यर्थः, ह्रस्व-दीर्घव्यपदेशात् । तथाहि-यत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम्, कारणेन वा । तत्र कार्य कारणेन क्रियत इति कारणायत्त एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org