________________
स्याद्वादापादनम् ]
द्वादशारं नयचक्रम्
८२६
तथैव पुरुषद्रव्यं स्कन्धा अपि । अरूपमपि स्याद् रूपम् · विज्ञानात्मत्वात् । एवं पञ्चापि । आत्मापि त एवेत्यात्मानात्मा च । तस्मात् त एवाप्राज्ञा य आत्मानं 'स्कन्धा एव' इत्याहुः । भेदवादे'. “। औदासीन्याच्च तत्त्वेषु मिथ्याभिनिवेशात् ज्ञानसुखाद्यन्यानन्यात्मकस्याद्वादनिरूपितमात्मानं न पश्यसि । तस्मात् सामान्य विशेषात्मक
रूपादिसहभाविधर्मान्तरसङ्गतिमन्तरेणानुपलब्धेः स्वतत्त्वः परतत्त्वश्च तथा पानकमपि । न हि तद्व- 5 दित्यादि दृष्टान्तव्याख्या गतार्था ।
तथैव पुरुषद्रव्यमित्यादि, स्कन्धमात्रे नात्मप्रकारः समानीयते । कथं न समाप्यते ? यस्मात् 'स्कन्धा अपि ' इत्युद्देशः । निर्देशो [[ ]रूपमपि स्याद् रूपमित्यादि, रूपादिचक्षुरादिविषयेन्द्रियाविज्ञप्त्याख्यं रूपं विज्ञानात्मसात्कृतं रूप्यते तस्मात् तदरूपमपि विज्ञानात्मत्वात् । एवं पञ्चापीत्यतिदिशति, वेदनादीनामपि रूपादिस्वाभाव्यौदारिकानौदारिकादिभेदलक्षणसम्बन्धाविनाभावात् 10 परस्पराविनिर्भागवृत्त्यभ्युपगमात् । यथोक्तम्
यथाseeकलापौ द्वौ तिष्ठतोऽन्योन्यसंश्रितौ । एवं नाम च रूपं च तिष्ठतोऽन्योन्यसंश्रिते ॥ [
1
इति । आत्मापीति सोऽपि विज्ञानात्मकस्त एव रूपादयः स्कन्धा इत्यात्मानात्मा च शक्त्यन्तरतदात्मत्वाभ्यामेव । तस्मात् सैद्धार्थीय स्थित्यनतिक्रमादुद्ग्राहित वस्तूनामयुक्तं तैरपि पठितमेकान्तेन - 15 राशि [ ] इत्यादि ।
तस्मात्त एवाप्राज्ञा ये स्कन्धव्यतिरिक्ताव्यतिरिक्तात्मानमात्मानं 'स्कन्धा एव' इत्याहुरित्युद्घटना । इतश्चाप्राज्ञता तेषामेव भेदवाद इत्यादि, यथातीतनये 'रूपादिसमुदायमात्रं तत्त्वम्' ५३२-१ इति समुदायो रूपादीनां विशेषाणां सामान्यमभ्युपगतं ततो न विशेषवाद्यसाविति निराकृतस्तथेहापि पञ्चानां स्कन्धानां समुदायः सामान्यमेवेति निराकार्यो जायसे सैद्धार्थीयैस्तदुभयमिच्छद्भिः, अतो मा 20 ग्रहस्त्विति । किञ्चान्यत् - औदासीन्याच्चेत्यादि । तत्त्वपरिज्ञाना[ना] दराद् मिथ्याभिनिवेशात् ‘अहमस्मि तत्त्वदर्शी' इत्यात्माभिमानाच्च भवतस्त्वदुद्ग्राहप्रापितं ज्ञान - सुख्या (खा) द्यन्यानन्यात्मकस्याद्वादनिरूपितम् 'अहं सुखी दुःखी रक्तो द्विष्टो वास्मि' इत्यात्मानं [न] पश्यसि । तस्मात् तादात्म्य
७.
१ प्रकारैः य० ।। २ " रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च ।" इति अभिधर्मकोशे १।९। पञ्च चक्षुरादीनीन्द्रियाणि पञ्च रूपादयो विषयाः अविज्ञप्तिश्चेति त्रिविधो रूपस्कन्धः ॥ ३ तदरूपरूपमपि भा० ।। ४ पृ० ७८७ पं० २ पृ० ८२४ पं० २४ ।। ५ प्राज्ञाता प्र० ।। ६ इत्यादिति प्र० ।। ७ ग्रहोर्थस्त्विति प्र० ।। ८ ' तत्त्वपरिज्ञायामनादरात्' इति विवक्षायां ' तत्त्वपरिज्ञानादरात् ' इत्यपि पाठः साधुः ।। ९ ज्ञानमुख्याद्यन्यानत्यात्म. भा० । ज्ञानमुख्याद्यन्यात्म य० 'न सुखाद्यन्या-ननन्यात्मकस्याद्वादनिरूपितम् ' अहं सुखी दुःखी रक्तो द्विष्टो वास्मि ' इत्यात्मानं पश्यसि ' इत्यपि पाठः स्यात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org