________________
८२५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशे नियमनियमारे प्रत्येकं तान्येव हि नराद्यङ्गानि सेनेति तेनैव तयोरेकत्वनानात्वाङ्गीकरणाद् द्रव्यार्थपर्यायार्थानुपातः कृतो भवति ।
नरादिसामान्यतादात्म्येऽपि च रूपान्तरनिरूपितरूपत्वात् सेनाऽन्यापि तेभ्यः रूपरसार्थान्तरत्ववत्।
नरथाश्वद्विपवती....................: ... ।
तथा शिखरादिभ्योऽन्योऽनन्यश्च शिखरी। तथा मरिचक्षोदादिभ्योऽन्यदनन्यच्च पानकम् । तथात्मापि सुखादिभ्योऽन्योऽनन्यश्च । तथा माधुर्याम्लादिरपि। तद्वत्सिद्धेषु कटुत्वादिषु संहतेषु पानकद्रव्यं स्वतत्वमपि तद्वत्सिद्धत्वात् मधुररसवत् । न हि तद्वत् . . . . . . . . ।
५३१-१ तान्येव हि नराद्यङ्गानि सेनेति तेनैव तयोः नरादिसेनाख्यवस्तुनोः समुदायि-समुदाययोरङ्गा-ऽङ्गिनो10 रेकत्व-नानात्वे वादिना उद्ग्राहयताऽङ्गीकृते, तदङ्गीकरणाद् द्रव्यार्थ-पर्यायार्थानुपात उभयनयात्मकस्याद्वानुपातः कृतो भवति ।
___ उभयनयात्मकत्वे साधनमाह-नरादिसामान्यतादात्म्येऽपि चेत्यादि यावद् रूप-रसार्थान्तरत्ववदिति । यथा हि भवनसामान्येन भवदपि रूपं रसादर्थान्तरम्, रसोऽपि रूपाद् रूपान्तरेण
निरूपितरूपत्वात्, तथा गन्धादे[:], गन्धादिरपि ताभ्याम्, तच्च रूपं शक्त्यन्तरं तयोः, तत्र वृतौ 15 रूप-रसौ ततोऽन्यौं परस्परतः, एवं 'नरादय एव सेने'ति तत्सामान्यतादात्म्ये सत्यपि सेनाऽन्यापि
तेभ्यः, अपिशब्दादनन्यापि तत्समुदायमात्रत्वात् तदात्मत्वात् । तस्मादेष प्रागेव न्यायः, तद्यथान-रथा-ऽश्वेत्यादि श्लोकः, शक्त्यन्त रादन्या तादात्म्यादनन्येति । तथा शिखरादिभ्य इति । शिखरसान्वादिषु प्रत्येकमसत्त्वादन्यः समुदितेषु तेष्वेव सत्त्वादनन्यः शिखरी तेभ्यः । तथा मरिचेत्यादि । 'युक्तितो मिश्रितेषु' इति वचनात् पानकस्य मरिचादिभ्योऽन्यता षड्रसत्वाच्च पृथगत20 दात्मत्वादनन्यता वातादिरोगकोपोपशमादिशक्त्यन्तरसत्त्वाऽसत्त्वाभ्यां पृथक् समुदाये चेति ।
तथा आत्मापि सुख-दुःखेच्छा-द्वेषादिसहक्रमभाविपर्यायात्मकत्वादनन्यः तेषां सुखादीनामात्मपरिणाम
मात्रत्वात् तदभेदाच्च, अन्यस्तु, प्रत्येकं तेषां विरोध्यविरोधिभेदात् तावत्परिसमाप्तेश्च शक्त्यन्तर५३१-२ तदात्मत्वाभ्यामन्या-ऽनन्यत्वप्रकल्पनात्। तथा माधुर्याम्लादिरपि, ते मधुरादयो धर्मा येषां सन्ति ते 25 तद्वन्तः, तेभ्यस्तद्वद्भयः सिद्धानि कटुत्वादीनि, तेषु संहतेषु पानकद्रव्यमा (म्,अ)त्र प्रतिज्ञा स्वतत्त्वमपीति, अपिशब्दात् परतत्त्वमपि, तद्वत्सिद्धत्वात्, मधुररसवत्, यथा रसः पृथिव्याद्यनभ्युपगमेऽपि
१ रूपा प्र०॥२ रम् सोऽपि भा०॥ ३ परस्परः य० ।। ४ सतान्यापि य० ।। ५ देव य० ॥ ६ पृ० ७८७ पं०५ ॥ ७ १०७८७५०८॥ ८५०७८८५०२॥ ९न्यत्वा प्र०। (न्यत्वात् ?) ॥ १० षडुसत्वाच्च भा०। षमुसत्वाच्च य० ॥ ११ नन्य वातादि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org