________________
८२४
क्षणिककान्तवादनिरासः]
द्वादशारं नयचक्रम् पार्थिवा अपि रूपादयोऽग्निसम्बन्धसामर्थ्यात् पूर्वरूपतिरोभावे पुनरन्यथोत्पन्नाः। एवमपामग्निनाऽल्पतराविर्भूतः अन्त्यानामपामतिसूक्ष्मत्वादभिव्यक्तावसामर्थ्यमिति अग्रहणम्, न तेन विनाशनात् ।
मा चाधुति कार्षीः । सर्वेऽन्येऽपि वस्तुवाद्युद्ग्राहाः त्वदुद्ग्राहवदार्हततामेवानुपतन्ति । येऽप्याहुःराशिवत् सार्थवत् .. . .
.............॥ एष स्याद्वाद एव, अनेकान्तार्थत्वात्।
शक्त्यन्तरत्वतादात्म्यान्यानन्यत्वप्रकल्पनात्। शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां दृष्टं प्रबलरिपुविजयनम् । तदात्मना तु
पाथिवा अपीत्यादि तद्ग्रन्थवदेवात्रापि ग्रन्थः, विशेषस्तु पूर्वरूपतिरोभावे पुनरन्यथो- 10 त्पन्ना इति व्याख्यातार्थानुसारेण विशेषश्चाग्निसम्बन्धा (न्ध) सामर्थ्यम्। एवमपामित्यादि, विशेषस्तु ५३०-२ अग्निनाऽपामल्पतराविर्भूतेरर्थान्तरापेक्षानपेक्षस्थितार्थभवनव्याप्तेरेवाऽपामल्पतराविर्भूतिरग्निसम्बन्धसामर्थ्यात्, अतोऽन्त्यानामपामतिसूक्ष्मत्वादभिव्यक्तावसामर्थ्य[म], न स्फुटं ग्रहीतुं शक्यते प्रत्यक्षतः, अनुमीयन्ते तु तिरोभूता इति अनेन प्रकारेणाऽग्रहणं न तेनाग्निसंयोगेन विनाशनादिति । तस्मात् साधु अँवोचाम-आर्हतं द्रव्यार्थवादमेव पर्यायार्थाकाक्षं क्षणिकवस्तुवादः समर्थयतीति। 15
मा चौधति कार्षीरित्यादि। 'ममैव क्षणिकवादिन आईतत्वमापतितमनिच्छतोऽपि' इत्यनुतापं मा कार्षीः, किं तर्हि ? विध्यादिभङ्गान्तपातिनः सर्वेऽन्येऽपि वस्तुवाद्युद्ग्राहास्त्व,ग्राहेण तुल्या आर्हततामेवानुपतन्ति वस्तूद्ग्राहस्याऽनेकान्तत्वापत्तेः, स च तेषां पूर्वाभ्युपगमैविरोधो व्यसनम्, परव्यसनमाश्वासकरमिति तद्व्यसनदर्शनादात्माश्वासनं कुरु धृति भावय ।
अनन्तरातीतनयदर्शनं तावद् भावयामः-तद्यथा-येऽप्याहू राशिवदित्यादि एष श्लोकः 20 स्याद्वाद एव अनेकान्तार्थत्वात् । तद्वयाख्याश्लोकमाह-शक्त्यन्तरत्वतादात्म्येत्यादि, सेनायां भांविते सर्वदृष्टान्तेष राशि-सार्थादिष्वपि भावितमेव भविष्यतीति लाघवार्थम् । शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां समुदितनरादिचतुरङ्गायां दृष्टं प्रबलरिपुविजयनम्, तदात्मना सेनात्मना तु प्रत्येक
१ तुलना-पृ० ७९७ पं० ४॥ २ तानुसा' य० ॥ ३ विशेश्चा य० ॥ ४ अविनामल्पतरा प्र०॥ ५ अनुमीयते य० ॥ ६ प्रकारेण य० ।। ७ अवोचामाहतद्र य० । अवोचमाहतद्र भा० ॥ ८१०८१९५० १०॥ ९ चावृत्ति प्र०॥ १० दुद्ग्रहेण प्र०॥ ११ मेविरोधा य० ॥ १२ प्याहुः य० । पृ० ७८७ पं० २॥ १३ पृ० ८२५ पं० २४ ॥ १४ भावितेषु प्र० ।। १५ सेना तु य० । तदात्मता सेनात्मता तु' इत्यपि भवेदन पाठः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org