________________
८२३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशे नियमनियमारे तस्मिन् सति पश्चादग्रहणात्। इदमसंज्ञापकम्, स्वयं विनाशेऽपि हि भावेऽकृतके क्रमनियमप्राप्तवृत्तौ प्राग् दृष्टस्तथा न गृह्यतेऽन्यथा गृह्यते । ततस्तेषां तथाऽनुपलब्धिविनाशः।
कथं कृत्वा? यथासंख्यनिर्देशा हि मद्रूपादयः शिवकाख्यां लभन्ते स्वेन रूपेण 5 चाविनष्टाः तत्तत्स्वभावभूतेरेव लीनाः पिण्डत्वेन उत्पन्नाः स्तूपकत्वेन स्तूपक इत्युच्यन्ते अभिघातप्रत्ययवशाद्वा कपालानि। अतस्तदानीं शिवकादेरग्रहणं न स्वयमभावाद् विनाशनाद्वा।
अन्यतरासिद्धिव्युदासार्थमाहतुः-तस्मिन् सति पश्चादग्रहणादिति पूर्वनयव्याख्यावदनुगन्तव्यम् । तत्रोत्तरं द्वयोरपि-इंदमसंज्ञापकम्, यस्मात् स्वयंविनाशेऽपि भावे स्वयंविनाशो हि 10 भावस्याविर्भाव-तिरोभावात्मकः प्रतिलयो भाव उक्तः, स च उक्तवद् भावत्वादेवाकृतकः, तस्मिश्चा५३०-१ कृतके भावे क्रमनियमप्राप्तवृत्तौ, क्रमेण नियमः क्रमनियमः, क्रमनियमेन प्राप्ता वृत्तिर्यस्य स
क्रमनियमप्राप्तवृत्तिर्भावोऽकृतकः, मृत्पिण्ड-शिवक-स्थासकादिक्रमेण नियतैव वृत्तिः प्राप्यते, पिण्डाच्छिवकः शिवकात् स्तूपक इत्यादि स्वयमेव, कादिकारकान्तराण्यपि नियतमृत्पिण्ड-चक्र-सूत्रोदक
कुलालादिरूपाणि क्रमेण भवन्त्येव भवन्ति । तस्मिश्च क्रमनियमप्राप्तवृत्तौ भावे प्राग् दृष्टो घटत्वा15 भावकपालत्वेनाऽऽविर्भवंस्तिरोभवंश्च घटत्वेनाश्माभिघातादिनिमित्तभवनप्रकारेण न गृह्यते घटत्वेन,
कपालत्वेन गृह्यते, ततस्तेषां सिध्यत्येवास्मन्मतेन तिरोभूतावग्रहणं घटपार्थिवरूपाद्युदकानां तेन रूपेणानुपलब्धिविनाशो विशेषेणादर्शनमन्यथोपलब्धिरेवानुपलब्धिरिति ।।
तस्य भावनाप्रश्नः-कथं कृत्वा ? इति । व्याकरणम्-यथासङ्ख्यनिर्देशा होत्यादि, 'मत्' इति द्रव्यार्थभवनैक्यादेकसङ्ख्ययोच्यते, 'रूपादयः' इत्याविर्भाव-तिरोभावपर्यायार्थभवन20 भेदाद् बहुत्वसङ्ख्ययोच्यन्ते, उभयेऽपि शिवकाख्यां लभन्ते स्वेन रूपेण चाविनष्टाः । कस्मादविनष्टा आत्मना ? इति चेत्, तत्तत्स्वभावभूतेरेव तेन पिण्डाश्माभिघातादिस्वपरापेक्षेण स्वभावेन भवनाद् लीनाः-तिरोभूताः पिण्डत्वेन कर्तृप्रत्ययवशाच्च उत्पन्नाः स्तूपकत्वेन स्तूपक इत्युच्यन्ते मृद्रूपादयः, अभिघातप्रत्ययवशाद्वा कपालानीति । सर्वज्ञो हि
जं जं जे जे भावे परिणमति पयोग-वीससादव्वं । 25
तं तह जाणाति जिणो अपज्जवे जाणणा णस्थि ॥ [आव० नि० ७९४] इति वचनात् तथा तथा पश्यति । तदुपसंहरति-अतस्तदानीं शिवकादेरग्रहणं न स्वयमभावाद् विनाशनाद्वेत्युभयोरपि उत्तरोक्तिः।
१ पृ०७९६ पं०६॥ *इदमदसं° प्र०॥२ शिवकाद्रूपक प्र०॥ ३ गतेतस्तेषां य० ॥ * भूतोचन य० । भूतेचन भा०॥ ४ न्यत्वा य० ।। ५ संख्यानिर्देशा हीत्यादि भा० । संख्यनिर्देशनीत्यादि य० । तुलना-पृ० ७९६ पं०७॥ ६ पर्यार्थभव य० ॥ ७ पिश्माभिधाता प्र०॥ ८ भवन्नाल्लीनाः भा०। भवन्नालीनाः य० ॥ ९ दृश्यतां पृ० ४७८ टि० १। पृ० १८२ पं० १३, पृ० २१२ पं० १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org