SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ क्षणिककान्तवादनिरासः] द्वादशारं नयचक्रम् ८२२ स भविता चेत् पुनरस्य तथा, भवने को विघ्नः ? यदि हि भावो भूतः कोऽस्योत्तरकालमपि भवतो भवने विघ्नः? सदा हि तेन भवता भावेन भवितव्यम्। ___न चेन्नैव तथा भवेत् । अथ पुनरेवं नेष्यते ततोऽभवनधर्मत्वादधुनापि नैव भवेत्, नैव कदाचिदपि भवेत् तथा। अस्ति भवने विघ्नः-स्वयंविनाशो विनाशहेतुसान्निध्यं वा । कः कस्य विनाशहेतुर्वा? 5 यथा घटादीनामश्माद्यभिघातोऽग्निसम्बन्धः पार्थिवरूपादीनामपां च विनाशहेतुः । जन्मैव विनाश इति वा। साध्ये विनाशतत्त्वे ते, स्वयमेव प्रतिलयः। ततः कथमिदं निर्धार्यते ? संस्पृश्य प्रतिपक्षं भवत्येव भवति इति निर्धार्यः। कथं 'निर्धार्यः ? उच्यते-यथा हि भाव उत्पन्नः स 10 भविता भूतोऽस्ति चेत् पुनरस्य तथा भवने को विघ्नः ? नास्त्येवेत्यभिप्रायः। तद्विवृणोतियदि हि भावो भूतः कोऽस्य उत्तरकालमपि भवतो भवने विघ्नः ? सदा हि पूर्वं पश्चात् तदानीं च त्रिष्वपि कालेषु तेन भवता भावेन भवितव्यम्, न न भवितव्यं कदाचित् । 'न चेन्नैव तथा भवेत् । तद्व्याख्या-अथ पुनरित्यादि, अथैवं नेष्यते-अधुना भवितृत्वात् त्रिष्वपि कालेषु भवत्येवेति, अतोऽसावभवनधर्मा, ततश्च अभवनधर्मत्वादधुनापि नैव भवेत्, इदानीं 15 भवितृष्वेव न दृष्टः सन् नैव कदाचिदपि भवेत् तथाऽधनात्वेन खपुष्पवदित्यापन्नम् । अनिष्टं चैतत् । इतरावाहतुः 'अस्ति भवने विघ्नः' बौद्ध-वैशेषिको यथासङ्घयम्-स्वयंविनाशो विनाशहेतुसान्निध्यमिति च, वाशब्दात् । वयमत्र पृच्छामः यथा-कैः कस्य विनाशहेतुर्वा ? इति निदाविति, अशक्यमित्यभिप्रायः। वैशेषिको ब्रूयात्-यथा घटादीनामश्माद्यभिघात इत्यादि ५२९-२ पूर्वनयवद् निदर्शना[नि] गतार्थानि । बौद्धोऽपि जंहुक्खित्तंमि लेटुंमि [ ] इत्यादि जन्मैव 20 विनाश इति ब्रूयात् । तयोर्युगपदुत्तरम्-साध्यौ (ध्ये) विनाशतत्त्वे त्त (ते) इत्यादि । क्षणिकवादि[न्] ब्रूयास्त्वम्-जातस्य स्वयं विनाशः "प्रागभावप्रध्वंसाभावलक्षण इति, वयं तु ब्रमः-प्रतिलय इति उक्तन्यायेन। वैशेषिक त्वं ब्रूया:-तेनाश्माभिघाताग्निसंयोगादिना घटपार्थिवरूपोदकानां विनाश इति, वयं ब्रूमः-स्वयमेव प्रतिलय इति । ततः कथमिदन्यतरासिद्धान्निर्धार्यते ? १ निर्धार्यते यथा हि य ० ॥ २ तुलना-पृ० ७९६ पं० २॥ ३ त्यादिपन्नम् य० ॥ ४ मवपृच्छामः य० ॥ ५ तुलना पृ० ७९६ पं० ३ ॥ ६ गतार्थोनि य० ॥ ७१० ७९८५०७ ।। ८ जन्मतिव भा० । जन्मेतिव य० । (जन्मेति च? ) ॥ ९ साध्यौ विनाशतत्वेत्त य०। साध्य । विनाशतत्वेत्त? भा०। (साध्यौ विनाशतत्त्वेन?) (साध्यं विनाशतत्त्वं ते? ) ॥ १० प्राग्भाव य॥ ११ सभावश्चक्षण भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy