________________
८२१
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे ___ अभ्युपगतमपि चैतद् भूतिर्येषां भावानां स एव व्यापार इति, नाभूतिः उत्पन्नस्यात्यन्तविनाशो वा । उत्पादविनाशावाविर्भावतिरोभावाबस्थितस्यैव । तस्माद् निर्व्यापारक्षणिका न भवन्ति भावा नाप्यस्थितक्षणिकाः । सैव च भूतिः कारकम्, भव्यभवनद्रव्या
र्थत्वात्। 5 एवं च तदप्यकस्मात् खिन्नं नंष्टा चेत् [ ] इत्यादि। स्थितस्यैवार्थस्योत्पदानमुत्पादो विशेषेणादर्शनं विनाशः। तत्र को नंष्टा? को नाशो यस्य विघ्नश्चिन्त्यते? को विनंक्ष्यति? विनाश एव नास्ति कुतोऽस्य हेतुर्यत उच्यते-'साध्यं विनाशहेतुत्वम्' [ ] इति। अपि च वयमित्थं पठाम :
भवितुर्भावविघ्नः को न चेन्नैव तथा भवेत् । 10
विघ्नः स्वयं विनाशो वा कः कस्य विनाशहेतुः।। प्रतिपक्षसंस्पर्शविनिर्मुक्तो भाव एव भाव इति निर्धार्य ः। यथा हि भाव उत्पन्नः
न भवति जन्मेति, तद् दर्शयति-अभ्युपगतमपि चैतदित्यादि । मयाभ्युपगतमेव प्रागुक्ता भूतिर्येषां भावानां स एव व्यापार इति नाभूतिरभावः प्रागसदुत्पादो नाप्युत्पन्नस्यात्यन्तविनाशः प्रध्वंसा
भावः, कौ तहि तावुत्पादविनाशौ ? आविर्भाव-तिरोभावाववस्थितस्यैवेति विस्तरशश्चरितार्थम् । 15 तस्मादेवंविधक्रियायुक्तत्वाद् निर्व्यापारक्षणिका न भवन्ति भावा नाप्यस्थितक्षणिकाः। ... अत एव कारकं सैव च भूतिः कारकमाविर्भाव-तिरोभावात्मिका स्थितस्यैव, कस्मात् ? भव्यभवनद्रव्यार्थत्वात्, 'भवति' इति भव्यं कर्तरि, भूयते यत् तेन तद् भवनं भावे, कर्तृ-भावसाधनलभ्यात्मनोऽगुलिवक्रर्जुत्ववदात्मनैवात्मनः साध्यसाधनत्वात् ।
__एवं च तदपि अकस्मात् खिन्नम् । एवं स्थितार्थाविर्भावतिरोभावमात्रोत्पादविनाशत्वे यत् 20 पठ्यते नंष्टा चेत् । [ ] इत्यादिः श्लोकः सोऽप्यकस्मात् खेदः । स्थितस्यैवार्थस्योत्पादनमुत्पादः, विशेषेणादर्शनं विनाशोऽन्यथा दर्शनं प्राग्वददर्शनम् । तत्र को नंष्टाऽत्यन्तादृश्यात्मना
त्वन्मतः ? को नाशः प्रध्वंसाभावात्मको यस्यैवलक्षणस्य विघ्नश्चिन्त्यते ? को विनक्ष्यति ? न ५२९-१ कश्चिदपि भावो विनथ्यतीत्यर्थः। कस्मात् ? विनाशाभावादेवैतत् सर्वमन्मत्तकप्रलपितस्थानीयम
विचारक्षमम्, अत आह-विनाश एव नास्ति कुतोऽस्य हेतुर्यत उच्यते-साध्यं विनाशहेतुत्वमिति । 25 अपि च वयमित्थं पठामः, भ्रष्टाम्नायस्तु त्वदीयः पाठः, मदीयस्त्वभ्रष्टः, श्रूयताम्,
तद्यथा-भवितुरित्यादि श्लोकः। अस्य व्याख्या-प्रतिपक्षसंस्पर्शविनिर्मुक्त इत्यादि। द्रव्यार्थनित्यत्वाद् भाव एव भाव इति निर्धार्यो न प्रतिपक्षः क्षणिकः, तं प्रागभावप्रध्वंसाभावात्मकम
१ तस्येवेति य० ॥ २ स्मात्त्विन्वं भा० । 'स्माद्वित्वं य० ॥ ३ पृ० ७९५ पं० ५॥ ४ म्यदन प्र० ।। ५ नम् को नंष्टा य० ॥ ६ पृ० ७९६ पं० ५। ७ तुलना-पृ० ७९५ पं० २० ॥ ८ 'त्मकसंस्पृश्य य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org