SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ क्षणिककान्तवादनिरास:] द्वादशारं नयचक्रम् इति 'क्षणिकाः सर्वसंस्काराः' [ ] इति श्लोकोऽप्येवं पठितव्यः-- सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया। भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥ भावा वस्तूनि। ते सर्वेऽप्यक्षणिकाः स्थितिक्रियाभ्याम् । एवं ते स्थितिक्रियाभ्यामक्षणिकाः । यदि क्षणिकाः स्युस्तत एषामुत्पादविनाशौ नैव स्याताम्, व्यापारस्थितिरिक्त-5 त्वात्, खपुष्पवत्। यद्यक्षणिका भावास्तत उत्पादविनाशव्यतिरिक्तव्यापारासम्भवात् तदतिरिक्तत्वाद् नन्वस्थिता एव खपुष्पवत् । पुनापाररिक्ता क्षणिकतैवैषा संवृत्ता। एतदपि नैव, 'भूतिर्येषां क्रिया सैव भवति' इत्यभ्युपगमात्, व्यापारारिक्तता हि द्रव्यार्थवस्तुनो भूतेरेव। इत्युपक्रम्य शब्दतोऽर्थतश्च यावद् विप्रतिषेधात् इति भावितेन तुल्यं भावितवदित्यतिदिशति स्थित-५२८-१ मेवोत्पद्यते विनश्यति चेत्यादि। योऽपि श्लोक: क्षणिकाः सर्वसंस्काराः [ ] इत्यादि सोऽप्येवं पठितव्यः एतस्मात् कारणात् 'इति'शब्दस्य हेत्वर्थत्वात् । तद्यथा--सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया? पश्चार्द्ध त्वत्पाठवत् । उत्पन्नस्याविनाशप्रतिपादनार्थः श्लोकः। तद्व्याख्या-भावा वस्तूनीति पर्यायः, 15 ते सर्वेऽप्यक्षणिकाः स्थित्या क्रियया च उत्पत्ति-विनाशात्मिकया सततभवनक्रियात्मका इत्युक्ताः एव ते स्थिति-क्रियाभ्यामक्षणिका इत्युपसंहृतार्थव्याख्यैव । त्वन्मतवद् यदि क्षणिकाः स्युः तत एषामुत्पाद-विनाशौ नैव स्याताम्, व्यापार-स्थितिरिक्तत्वात्, खपुष्पवदित्यनिष्टापादनसाधनमिदं गतार्थम् । तस्मात् स्थितस्यैवोत्पाद-विनाशसिद्धे रक्षणिका भावाः ।। अत्राह-यद्यक्षणिका इत्यादि। यदि स्थिता (तोऽ)क्षणिकश्च भावस्तस्योत्पाद-विनाशौ न स्तः, 20 उत्पाद-विनाशव्यतिरिक्तश्च नान्यः कश्चिद् व्यापारः सम्भवति, तदसम्भवात् तदतिरिक्तत्वम्उत्पाद-विनाशातिरिक्तत्वम्, उत्पाद-विनाशातिरिक्तत्वादनुत्पन्न-विनष्टत्वादपि नन्वस्थिता एव युष्मदुक्तविधिना खपुष्पवत् 'अस्थितानां कुतः क्रिया?' इत्युक्तम् । पुनापाररिक्ता निर्व्यापारक्षणिकतैव संवृत्तषेति। अत्रोच्यते-एतदपि नैव, भूतिर्येषां क्रिया सैव भवति इत्यभ्युपगतमस्माभिः प्रागेव स्थितश्च 25 जायते च न ध्वंसते च' इति व्यापारारिक्तता व्यापारयुक्ततैव हि द्रव्यार्थवस्तुनः । कस्मात् ? ५२८-२ भूतेरेव, एवं हि भवद् वस्तु भवेत् यदि भवत्येव भवति तत् पुनर्भवनं त्वदिष्टं निर्बीजमन[व]स्थितं १ पृ० ८०१ पं० ६ ॥ २ इत्युक्ता एवांत प्र० ॥ ३ नन्नस्थिता प्र० ॥ ४ पृ० ८०१ पं०६॥ ५ संवृत्त्यवेति य० । संवत्त्यवति भा०॥६१० ८१९ पं०६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy