SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ८१९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे पर्यायनयसद्भावाच्चोत्पादविनाशाभ्युपगमात् क्षणिकाः सर्वभावा इति क्षणिकशब्दार्थवत्तोपपद्यते। एवमेव च 'जातिरेव हि' [ ] इति श्लोक इत्थं पठितव्यः-- जातिरेव हि भावानामनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो नश्येत् पश्चात् स केन च ॥ स्थितश्च जायते च न च ध्वंसते घटद्रव्यार्थात्मा। न तावदस्थितः, अनुत्पादविनाशात्मकत्वात्, असंस्कृतत्रयवत्। उत्पादविनाशमात्रात्मकतायां तु निर्बीजायां तयोरभावः प्राप्तः, भावितवत् स्थितमेवोत्पद्यते विनश्यति च.........। 10 आर्हताभिमतस्थितद्रव्यार्थसद्भावे क्षणे क्षणे पर्यायनयसद्भावाच्चोत्पाद-विनाशाभ्युपगमात् क्षणिकाः सर्वभावा इति क्षणिकशब्दार्थवत्तोपपद्यते, नान्यथेति । ५२७-२ एवमेव च यथा व्याख्यातं तथा जोतिरेव हि [ ] इति श्लोक इत्थं पठितव्यः, तद्यथा--जातिरेव हि भावानामनाशे हेतुरिष्यते, पश्चाद्धं तदेव। त्वया तु 'भावानामनाशे' इत्यत्र संहितापाठजो मकारो विकारसहितपाठाद् विनाशितः केनचिदजानता दुलिखितत्वाद्वाऽन्येन 15 दुरुपदेशाद्वा, यस्मादुक्तविधिना स्थित एवार्थ उत्पद्यते नास्थित इति प्रतिपादितं तस्मादुत्पत्तिरेवावस्थाने कारणम्, अवस्थितस्यैवोत्पत्तेजतिं च स्थितं चेत्यतो न ध्वस्तं तस्योत्पत्तिकाल एवाविनष्टस्य सततावस्थानात्मकस्य पश्चात् को विनाशहेतुः ? इति न कदाचिदपि विनाशः। ___ मा मंस्थाः-साहसमिदं स्थितं जायते जातं च न ध्वंसत इति, तदर्थं प्रतिज्ञायते--स्थितश्च जायते च न च ध्वंसते घटद्रव्यार्थात्मेति । तस्य युगपत् प्रतिपादयितुमशक्यत्वात् क्रमेण प्रति20 पाद्यते, स्थितत्वं तावत् न तावदस्थित इति प्रतिज्ञायते, अस्थितत्वप्रतिषेधे स्थितत्वं सिध्यतीति । कस्मात् ? अनुत्पादविनाशात्मकत्वात्, यदुत्पादात्मकं विनाशात्मकं च न भवति तन्नास्थितम्, स्थितमेव । असंस्कृतत्रयवत् यथा 'प्रतिसङ्ख्यानिरोधः, अप्रतिसङ्खयानिरोधः, आकाशम्' इत्येतत् त्रयं बुद्धिय बोध्यत्वाद् रूपादिवत् सत् प्रत्ययेनाजनितत्वादसंस्कृतं 'वयम्' इति सङ्ख्याशब्दवाच्यत्वाच्च सच्च नास्थितं च तथा घंटोऽपीति । 25 त्वन्मतेन चोत्पाद-विनाशमात्रात्मकतायां तु निर्बीजायां स्थितार्थशून्यायां तयोरुत्पादविनाशयोरभावः प्राप्तः। यदप्युक्तं 'तस्यैव चासौ भावस्य व्ययः' इति एतदपि न किञ्चित्' १ दृश्यतां पृ० ८२४ पं० १५ ।। २ पृ० ७९७ पं० ७ ।। ३ दृश्यतां पृ० ८२० पं० २५ ।। ४ दृश्यतां पृ० १०४ पं०५-७ टि० १, टिपृ० ४९ पं० २६॥ ५ दृश्यतां पृ० १०४ पं० ५। ६ घटापीति प्र०। (घटाद्यपीति ? )॥ ७ पृ० ८१५ पं० ११; पृ० ८१८ पं० ४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy