________________
क्षणिककान्तवादनिरासः] द्वादशारं नयचक्रम्
८१८ अपि च तन्दुलानामोदन इत्यत्र स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरं गच्छेयुस्तन्दुलाः। त्वन्मते तु तस्या अपि स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेरसम्भवात् तदासावसन्निहित एव भावः कथं 'व्येति' इत्युच्यते? यदि यदा सन्निहितस्तदैव व्येति नैव तर्युत्पद्यते, न सन्निहितः, न भवति । अथोत्पद्यते भवति सन्निहितः, न तर्हि व्येति उत्पादव्यययोविप्रतिषेधात्, कुत एव तत्त्वद्वचनं तस्यैव भावस्य व्यय इति ।
एवं चोत्तरोऽप्यस्य विनाशक्षणो नैव भवति यतस्तदपेक्षः क्षणिक इत्युच्येत, अनुत्पनत्वात्, खपुष्पवत् आकाशवद्वा ।
द्वयाभावे तु यदि सदेव चेद् वस्त्विष्यते तत आर्हताभिमतद्रव्यार्थसद्भावे क्षणे क्षणे
तस्मात् स एव न भवत्युत्पाद इति मध्येऽप्यभावः । तस्मात् प्राक् पश्चाद् मध्ये चाभावाद् 'भावस्य व्ययः' इति वचनात् क्षणिकशब्दो नार्थवान् स्यात् ।
10 अपि च 'तन्दुलानामोदनः' इत्यत्र ओदनस्य विकारस्यात्मलाभकाले द्रव्यार्थतस्तन्दुलानां समवस्थायित्वादोदनेन सह स्थास्नुत्वाद् विकारान्तरमोदनत्वं तत्र द्रव्ये वृत्तं गच्छेयुः आपद्येरंस्तन्दुलाः, सम्भवेदियं गतिरिदृशी । त्वन्मते तु तस्या अपि स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेरसम्भवात् तद्वैधात् तदासावसन्निहित एव भाव उत्पादस्त्वदिष्टोऽसन्नेव कथं 'व्येति' इत्युच्यते? खपुष्पवदसन्निहितः केन न्यायेन 'व्येति' इति शक्यते वक्तुम् ?
15 स्यान्मतम्-यदा सन्निहितस्तदा 'व्येति' इत्युच्यते इति ननूक्तम् । अत्रोच्यते, सम्प्रधारः स एव ५२७-१ वर्तते-तदेवायुक्तमिति, यदि यदा सन्निहितस्तदैव व्यति नैव तर्हि उत्पद्यते, न सन्निहितः, न भवति, नास्तीत्यर्थः । अथोत्पद्यते भवति सन्निहितः, न तहि व्येति । कस्मात् ? उत्पादव्यययोविप्रतिषेधात, विरुद्धः प्रतिषेधो विप्रतिषेधः, उत्पादो व्ययेन विरुध्यते व्ययश्चोत्पादेन, अतो विरुद्धत्वात् परस्परनिवारितत्वाद् विप्रतिषेधात् कुत एव तत्त (त्त्व) द्वचनं तस्यैव भावस्य व्ययः' 20 इति ? दूरत एव न घटते भावाभावादिति ।
एवं तावदुत्पादक्षण एव विनाशक्षण इति वक्तुमयुक्तम्, विप्रतिषेधात् न केवलमयमेव न घटते, किं तर्हि ? एवं चोत्तरोऽप्यस्य विनाशक्षणो नैव भवति यतस्तदपेक्षः क्षणोऽस्यास्तीति क्षणिक इत्युच्येत, तस्याभावादेव न घटत इत्यर्थः। कस्मात् ? अनुत्पन्नत्वात् खपुष्पवदिति गतार्थम्, सौत्रान्तिकं प्रति आकाशवदिति वा । एवं तावदुत्पाद-विनाशौ न युक्तावेकक्षणे क्षणान्तरे 25 वा क्षणिकशब्दाभिधेयो यतः स्यात् ।
तथा च द्वयाभावे तु उत्पाद-विनाशक्षणाभावेऽपि यदि सदेव चेद् वस्त्विष्यते तत इदमापन्नम्१ व्यापि भा० ॥ २ पृ० ८२० पं० ११॥ ३ एव त्तद्वचनं भा ० ॥ ४ उच्यते य ० ॥ ५ एव ताव प्र० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org