________________
८१७ न्यायागमानुसारिणीवृत्यलङ्कृतम्
द्विादशे नियमनियमारे ___ भवन्ती हि मृद् द्रव्यार्थेन भवति, तद्यथा शिवकस्य स्तूपकीभाव उत्पादात् स्तूपकः, संव च स्तूपकत्वेनोत्पद्यमाना व्येति । भवनाद्धि भावः।
एवं तु भाव एव न सः, पूर्वमभावात् पश्चादभावात् पूर्व पश्चाच्चाभावात्, बन्ध्यापुत्रवत् । यथा तु त्वदुद्ग्राह एवं प्राक् पश्चाद् मध्ये चाभावात्। तद्यथा-त्वया ह्युच्यते तस्यैव 5 चासौ भावस्य व्यय इति । 'भावस्य' इति कर्तृलक्षणा षष्ठी स्यात् कर्मलक्षणा वा ? यदि कर्तृलक्षणा स एव भावो व्येति, न भवत्युत्पाद एव । यदि कर्मलक्षणा ततो विनाशकर्तृकः केनोत्पादो निव]त? तस्मात् स एव न भवत्युत्पाद इति मध्येऽप्यभावः।
तद्वैधhण द्रव्यार्थवादिन एवोत्पाद-विनाशोपपत्तिप्रदर्शनार्थमाह-भवन्ती हि मद द्रव्यार्थेन भवन्त्येव भवन्ती स्वरूपमत्यजन्ती भवति उत्पद्यते, तद्यथा-शिवकस्य स्तूपकोभाव उत्पादात् 10 स्तूपक इति निदर्शनम् । सैव च मृद् भवन्ती व्यति, तन्निदर्शनम्-स्तूपकत्वेनोत्पद्यमाना शिवकत्वाद् व्यतीति । भवनाद्धि भावः, 'भावस्य व्ययः' इत्यत्र योऽयं भावशब्दः सोऽप्येवमस्मदुक्तद्रव्यार्थविषय एव घटते यदर्थस्य व्यय उच्यते, नान्यथा, यत्त्वभवत् खपुष्पादि अद्रव्यं तन्नोत्पद्यते न व्येति वा।
एवं त्वित्यादि। इत्थमुक्तन्यायेन त्वयोक्तो भावः स भाव एव न भवति । कस्मात् ? 15 पूर्वमभावात्, भवनाभावादित्यर्थः । [तथा पश्चादभावादिति] 'भाव एव सन' इति वर्तते । एवमेतो प्रत्येकं हेतू, समुदितावपि, तद्यथा-पूर्व पश्चाच्चाभावादिति । त्रयाणामपि हेतूनां 'वन्ध्यापुत्रवत् इत्येक एव दृष्टान्तः । त्वन्मतेनैव चैते हेतवः सिद्धाः, उत्पादक्षणस्यैव सत्त्वाभ्युपगमात् । अतो भाव एव न स इति साधूक्तम् ।।
__ स्यात् प्रत्याशा-वर्तमानक्षणे भावो भवितुमर्हतीति । सापि न कार्या प्रत्याशा, कस्यामप्य20 वस्थायामसत्त्वात्, तत आह-यथा तु त्वदुद्ग्राह एवं प्राक् पश्चाद् मध्ये चाभावात् 'भाव एव न ५२६-२ स:' इति वर्तते। प्राक् पश्चाच्चाभावत्वमद्रव्यत्वादस्मन्मतेनोक्तम् । अधुना त्वन्मते वर्तमानक्षणेऽ
प्यसत्त्वे साधिते प्राक् पश्चाच्चाभावत्वं सिद्धमेव भवतीति तत् साधयितुमाह त्वद्वचनादेव, तद्यथात्वया हयुच्यते 'तस्यैव चासौ भावस्य व्ययः' इति व्यपदेशप्रसिद्धिसाधनार्थेन वचनेन । तस्य चायमों 'भावस्य' इति कर्तृलक्षणा षष्ठी स्यात् कर्मलक्षणा वा ? यदि कर्तृलक्षणा स एव भाव उत्पादो व्येति विनश्यति न भवति, तेनैव वीयते न भूयते विनश्यतीत्युक्तं भवति, कोऽसौ न भवति? उत्पाद एव । यदि कर्मलक्षणा ततो विनाशकर्तृकः केनोत्पादो निव]त ? इत्ययुक्त एव भावः ।
१ 'उत्पद्यते' इत्यपि पाठोऽत्र सम्भाव्यते ॥ २ ( यद्यर्थस्य? )॥ ३ 'पूर्वमभावात् पश्चादभावात् भवना. भावादित्यर्थः' 'भाव एव न सः' इत्यपि पाठोऽत्र भवेत् ।। ४ कस्माम प्र०॥ ५ साध्येते प्र०॥ ६५०८१३ पं०५, २६ ।। ७ तेचैव धीयते भा० । तेचैव विधीयते य० ॥ ८'विनाशकर्ता कः? केनोत्पादो निव]त?' इत्यपि पाठोत्र स्यात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org