________________
क्षणिकव्यपदेशनिरासः] द्वादशारं मयचक्रम्
८१६ उत्पद्यमानविनश्यतोरपि तावदभूतत्वात् खपुष्पयोरिव सम्बन्धाभावः, किमङ्ग पुनरुत्पादविनाशयोरसत्त्वभूतत्वादवस्तुत्वाच्चासम्भाव्यप्रवृत्त्योरेव? अपि चात्रापि षष्ठ्यर्थानुपपत्तिः असम्बन्धादसहभावात् । नन्वसहभवनेऽपि षष्ठी विकारविषया, तद्यथा-धानानां सक्तवः, तन्दुलानामोदनः । एतदपि न, द्रव्यपर्यायसहवृत्तः, घटस्य विनाश इति यथा मृद्रव्यस्यैव । अतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी भावस्य व्यय इति । अन्यथा हि 5 अद्रव्ययोस्तूत्पादविनाशयोनिर्बीजयोर्वस्त्ववक्तव्यम् ।
तावेतावपि त्वन्मते न स्तः, 'उत्पाद एवाङकुरः' इति वचनात् । तयोश्चाभूतत्वादभावत्वं खपुष्पयोरिव सम्बन्धाभावः। तस्मात् 'उत्पत्तैव 'विनंष्टा' इत्ययुक्तं वक्तुम्, किमङ्ग पुनरित्यादि दूरत एव उत्पद्यमान-विनश्यदर्थाभावे तत्प्रभावलभ्ययोरुत्पाद-विनाशयोः सम्बन्धकथा, कुतः ? तयोरसत्त्वभूतत्वात् ? असत्त्वभूतत्वमवस्तुत्वाच्च, न वस्तुनी स्तो ययोस्तावुत्पाद-विनाशाववस्तु, तद्भावाद-10 वस्तुत्वात्, तौ चासम्भाव्यप्रवृत्ती खपुष्पवदसम्भाव्यप्रवृत्त्योरेव 'सम्बन्धाभावः' इति वर्तते ।
किञ्चान्यत्-अपि चात्रापीत्यादि। यथैव अस्त्यस्तिमत्सम्बन्धाभावादसहभाविनोरुत्पाद-५२५-२ विनाशयोः 'क्षणिकः' इति ठन्प्रत्ययाभावः तथा 'तस्यैव भावस्य व्ययः' इति षष्ठयर्थानुपपत्तिरपि असम्बन्धात्, सम्बन्धलक्षणा हि विभक्तयः, कारकाविवक्षायां शेषे सम्बन्धे प्रातिपदिकार्थव्यतिरेके षष्ठीविधानात्, सम्बन्धाभावश्चासहभावादिति ।
15 आह-नन्वसहभवनेऽपि षष्ठी विकारविषया विकारलक्षणा। प्रकृत्युपमर्दश्च विकारः, तद्यथा-धानानां सक्तवः तन्दुलानामोदन इति, न ह्यत्र प्रकृतिविकृत्यवस्थायामस्ति, अथ च प्रकृतौ षष्ठी श्रूयते 'धानानां तन्दुलानाम्' इति ।
अत्र ब्रूमः-एतदपि न, कस्मात् ? द्रव्य-पर्यायसहवृत्तः, द्रव्यं प्रकृतिर्धानातन्दुलादिः पर्यायेण विशेषेण विकारेण सह वर्तते, धानातन्दुलादिप्रकृतेरेव सक्त्वोदनत्वादिविकारपरिणामात् तथा तथा 20 व्यवस्थानात् । किमिव ? घटस्य विनाश इति यथा मृद्रव्यस्यैव पिण्ड-शिवकादिक्रमभाविधर्मणो रूपादिसहभाविधर्मणश्च घटस्यैव कपालत्वेन मृदात्मन: परमाण्वादिसङघातपरिणाम्यवयवसंस्थानान्तरेण वर्तनं विनाशो घटस्ये (स्यै)व इत्युच्यते । तस्मात् स्वजात्यपरित्यागवृत्तेराविर्भाव-तिरोभावौ सर्वभावानाम् । अतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी 'भावस्य व्ययः' इति भावो वीयते, भवन्नेव वर्तते व्येति उदेति वेत्युक्तं भवति द्रव्यार्थापरित्यागेनैवोत्पाद-व्ययवृत्तेः। अतोऽन्यथा 25 ह्यद्रव्ययोस्तूत्पाद-विनाशयोनिर्बोजयोर्वक्र (स्त्व)वक्तव्यमिति वक्तुमेवाशक्यमेतत्, भाव ५२६-१ एवासौ वस्तुत्वाभिमतो नास्ति, कुतोऽस्योत्पादो विनाशो वा धर्मो द्रव्यार्थस्य (स्या) भावे खपुष्पस्येव ?
१ विनष्टा प्र० ।। २ र्थोनु' प्र० ।। ३ पर्ययेण प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org