________________
८१५
[द्वादशे नियमनियमारे
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् आयुष्कजननमरणपरिणतो विद्यमान एवात्मा जायते म्रियते च, असति च, क्रियानुपपत्तेः, तथा चाभियुक्ताः पठन्ति-मृङ प्राणत्यागे [पा. धा. १४०४] इति, व्यवस्थितो जीवः प्राणांस्त्यजत्युपादत्ते च, तत्र तद्भूतत्वात् कि सन्धानेन?
यदप्युक्तं तस्यैव चासौ भावस्य व्यय इति न्याय्य एव व्यपदेश इति तदपि न किञ्चित्,
5 आयुष्कजननेत्यादि । आयुःकर्मणा व्यवस्थितेन जीवस्य जनन-मरणे नासता खपुष्पादिना नार्थान्तरेणात्मापरिगृहीतपरमाण्वाकाशादिना वा । यथोक्तम्
आयुगवसेन जीवो जायति जीवति य आउगस्सुदए।
अण्णायुगोदए वा मरति तु सव्वायुणासे वा ॥ [ ] 'तस्मात् तयोर्जन्म-मरणयोर्द्वयोरपि तत्रायुःकर्मणि स्थिते विद्यमानत्वा[द्] विद्यमान एवात्मा स्वयम10 दीर्णायुःकर्मपरिणतो जायते स एव म्रियते भुक्तायुःकर्मत्वात् । असति च क्रियानुपपत्तेः, नात्यन्ता
सति [ख]पुष्पे जन्म-मरणादिक्रियोपपद्यते नाप्यर्थान्तरे तत्परिणामशून्ये गगनादौ । तथा चाभियुक्ताः पठन्तीति ज्ञापकमाह । के पुनरभियुक्ताः ? अर्थप्रवृत्तितत्त्वनिबन्धनशब्दस्वरूपपरिज्ञानलक्षणे व्याकरणेऽभियुक्ताः वैयाकरणाः । यथाह
अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । 15 तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ [वाक्यप. १/१३] ५२५-१ तस्मादर्थतत्त्वस्य व्यवस्थापनार्थायाः प्रवृत्तेरर्थतत्त्वं व्यवस्थापयितुं प्रवृत्तत्वाद् वैयाकरणाः
पठन्ति-मङ प्राणत्यागे [पा. धा. १४.४] इति, व्यवस्थितो जीवो म्रियते प्राणानुपात्तानिन्द्रियाऽऽयुर्बलोच्छ्वासलक्षणांस्त्यजति उपादत्ते च तानेव जायत इति । तत्र तद्भूतत्वात् तत्रैवम्प्रकारेऽ
वस्थितप्राणोपादानत्यागलक्षणजन्म-मरणात्मकायुष्कर्मसाद्भूतात्मस्वरूपत्वात् किं सन्धानेन? कि 20 प्रयोजनं कल्पितेन सैन्धानेन ? नास्तीत्यर्थः ।
किञ्चान्यत्--यदप्यक्तमित्यादि । तस्यैव भावस्य व्ययत्वाद् विनाशेनोत्पादस्य 'क्षणोऽस्यास्तीति क्षणिकः' इति व्यपदेशो न्यायादनपेत इति त्वया यदुक्तं तदपि न किञ्चित्, नार्थोऽनेनायुक्तत्वात् । तद्दर्शयति-उत्पद्यमान-विनश्यतोरपि तावदित्यादि, यावेतावुत्पत्तृ-विनंष्टारौ भावौ
१ आयुष्कवशेन जीवो जायते जीवति चायुष्कस्योदये। अन्यायुष्कोदये वा म्रियते तु सर्वायुर्नाशे वा ॥ २ जायते य० ।। ३ ( विद्यमाने एव विद्यमान एवात्मा? ) ।। ४ पपत्तो भा०। (पपत्तिः? ) ॥ ५ णादिक्रिययोपप्र०॥ ६ दृश्यतां पृ० ५७९ टि० २॥ ७ नार्थयोः य० ।। ८ पञ्चेन्द्रियाणि आयुः मनोवाक्कायबलानि उच्छ्वासश्चेति दशविधाः प्राणाः, तेषामपादानं जन्म, उपात्तानां तेषां त्यागो मरणमिति भावः ।। ९ कारे अनवस्थित प्र०॥ १० त्यायलक्षणाज भा० । त्यात्मलक्षणाज य०॥ ११ संबंधानेन प्र०॥ १२ साधनेन भा० । पृ० ८१३ पं० २२, २८॥ १३ पृ० ८१७ पं० २३, पृ० ८१३ पं० २६ ॥ १४ नार्थोनना प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org