________________
क्षणिकव्यपदेशनिरासः]
द्वावशारं नयचक्रम्
८१४
क्षणिक इति तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थ यद्वत् क्षणिक आस्ते क्षणिकं निकेतनमिति। ___एतदपि परिकृशमेव । युक्तं यद् मरणमिणि स्थित एवार्थे आत्माख्येऽभावविलक्षणे भावान्तरविलक्षणे च मरणमिव्यपदेशः। कृतकत्वानित्यत्वधर्मसम्बन्धिस्थितघटाद्यनित्यत्वस्य कृतकत्वेन व्यपदेशवदवस्थितपुरुषमरणव्यपदेशः । घटाद्यनित्यमिव्यपदेशवद् 5 मरणमिव्यपदेशः। चेत्यादि, मैवं मंस्था:- प्रतिबध्यमानेन इदानीं हेत्वन्तरमुपात्तमिति, किं तहि ? भाविक्षणसन्धानं च प्रथममेवोपात्तं मया 'आत्मलाभानन्तरम्' इति विशेष्योक्तत्वात्।।
अतोऽनन्तरशब्दलोपं कृत्वा 'अनन्तरक्षणोऽस्यास्ति' इति विगृह्य अनन्तरशब्दलोपं कृत्वा ठेन्प्रत्यय उत्पाद्यते क्षणिक इति, यथा देवदत्तो [देविकः] देविल इति वा ठोजादावूवं द्वितीयावचः 10 [पा० ५।३१८३] इति। किमर्थं पुनरेवमुच्यते ? ब्रूमः- तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थम, उत्पन्नं क्रियाविरहितं स्थितिविरहितं चेति ज्ञापयितुम् । तदुदाहरणे यथासंख्यम्- यद्वत् क्षणिक आस्ते निःकर्मेत्यर्थः, क्षणिकं निकेतनं स्थितपुरुषादिरहितं गृहमित्यर्थः ।
अत्रोच्यते-एतदपि परिकृशमेव, युक्तं यद मरणमिणीत्यादि । व्यार्थने (र्थेन) स्थितस्य जनन-मरणे युज्यते बालाद्यवस्थानियमपरम्पराक्रियानुभाविनः सव्यापारस्य स्थितस्यैवार्थस्य (स्या)-15 क्षणिकस्यात्माख्यस्याभावविलक्षणस्य भावान्तरविलक्षणस्येति दृष्टान्तस्य वैधर्म्य दर्शयति, विपर्ययसाधनाद् विरुद्धो हेतुरिति। एवं स्थितमेव जायते जातं च म्रियते स्थित्यविनाभाविनी जन्म-मरणे मरणाविनाभावि च जन्मेति एवं लोके दृष्टत्वात् । उपदृष्टान्तश्च- कृतकत्वानित्यत्वेत्यादि, ५२४-२ कृतकत्वधर्मा अनित्यत्वधर्मा चा[व]स्थित एव घटादि: शब्दानित्यत्वप्रतिज्ञायां दृष्टान्त उच्यते 'यत् कृतकं तदनित्यं दृष्टं यथा घटादि:' इति नास्थितो नात्यन्ताभावो नापि ततोऽर्थान्तरभूतो वा तद्धर्मा- 20 सम्बन्धी आकाशादिरिति तद्वदवस्थितघटाद्यनित्यत्वस्य कृतकत्वेन व्यपदेशवदवस्थितपुरुषमरणव्यपदेशो जन्मना तदविनाभावादिति दृष्टान्तस्य स्वपक्षसाधनतामापाद्य दार्टान्तिकत्वोपसंहारं करोतिघटाद्यनित्यमिव्यपदेशंवद् मरणमिव्यपदेशः।
१ ठप्रत्यय भा०। प्रत्यय य० ॥ २ "ठाजावं द्वितीयादचः। ५-३-८३। अस्मिन् प्रकरणे यष्ठोऽजादि-प्रत्ययश्च तस्मिन् प्रत्यये परे प्रकृतेद्वितीया च ऊर्ध्व सर्व लुप्यते। अनुकम्पितो देवदत्तो देविकः, देवियः देविल:, देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम्, वायुकः। पितृकः । चतुर्थादच ऊर्ध्वस्य लोपो वाच्यः, अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । अनजादौ च विभाषा लोपो वक्तव्यः, देवदत्तकः, देवकः। लोप: पूर्वपदस्य च, दत्तिकः, दत्तियः, दत्तिलः, दत्तकः। विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः, देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, सत्या । उवर्णाल्ल इलस्य च, भानुदत्त:, भानुल:, ऋवर्णादपि सवित्रियः, सवितुलः। 'चतुर्थादनजादी च लोपः पूर्वपदस्य च। अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥१॥"-इति पाणिनीयसिद्धान्तकौमुद्याम् ।। ३ कृतमेवायुक्तं य०॥ ४ 'द्रव्यार्थतः' इत्यपि पाठोऽत्र भवेत् ॥ ५ * * एतच्चिह्नान्तर्गतः 'न स्थितस्य इत्यत आरभ्य स्थितस्यैवार्थ इत्यन्तः पाठो य० प्रतौ नास्ति।। ६ वा स्थितः' इति 'च स्थितः' इति वा पाठोऽप्यत्र भवेत् ।। ७ वर्मा प्र०॥ ८ साधकता य०॥ ९ 'शिवद् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org