________________
८१३
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशे नियमनियमारे ननूक्तवस्तुवादवद् भवदेव भवति, तस्मात् तेनैव भवता द्रव्येण कारणेन कार्यरूपमासाद्येत । अन्यथा खपुष्परूपमप्यासाद्यतैव, निर्बोजमप्युत्पादादेव भवेत्, तस्योत्पादादर्थान्तरत्वेनाभूतत्वात्, अङकुरवत्।
यत्तूत्तरेण प्राच्यस्य न युक्तो व्यपदेश इत्यस्योत्तरमुच्यते 'न, भाविधर्मव्यपदेशात् 5 इति । भाविनं क्षणं सन्धायोच्यते क्षणोऽस्यास्तीति क्षणिक इति, मरणमिवत् । तस्यैव चासौ भावस्य व्ययः प्राच्यस्येति न्याय्य एव व्यपदेशः भाविक्षणसन्धानं च प्रथममेवोपात्तं मया 'आत्मलाभानन्तरम्' इत्युक्तत्वात् । अतोऽनन्तरशब्दलोपं कृत्वा ठन्प्रत्यय उत्पाद्यते
प्रश्नार्थत्वात्, वयं ब्रूमः कारणेन कार्यमात्मसात् कृतं तन्त्वादिना पटादीति, त्वं ब्रूयाः कार्येण
पटादिना आत्मसात् कृतास्तन्त्वादय इति, कतरस्य वचसा विशेषनिर्णयोऽस्त्वावयोः ? 10. विशेषमपि चात्र ब्रूमः- ननक्तवस्तुवादवदित्यादि यावदासाद्येत इति। ननु पूर्वमुत्पततेव
मयोक्तम् 'आईतवादवदुत्पाद-विनाशवता वस्तुना स्थितिमतापि भवितव्यं भूतत्वात्' इत्यादि, तच्च
भवदेव भवति नाभवत्, भवच्च कारणं द्रव्यमेव उत्पादं विनाशं कार्यं वात्मसात् करोति आसादयति । ५२३-२ तस्मात् तेनैव भवता द्रव्येण कारणेन आसाद्येते कार्योत्पादाविति । नाभवत् कार्यमासादयितुमर्हति
कञ्चिदर्थम्, असत्त्वात्, खपुष्पवत् । यद्येवं नेष्यते, अंतस्त्वन्यथा खपुष्परूपमप्यासाद्येतैव, निर्बीजमपि 15 उत्पादादेव भवेत्, उत्पादो हि भवता निर्बीजोऽभ्युपगतः, स चोत्पादो निर्बीजः कारणानि आत्मसात् करोतीतीष्टः, तस्मात् तेनोत्पादेन आत्मसाक्रियेत खपुष्प-वन्ध्यासुताद्यपि। किं कारणम् ? तस्य खपुष्पादेरुत्पादादर्थान्तरत्वेनाऽभूतत्वात्, यद् यदुत्पादादर्थान्तरत्वेनाभूतं तत् तेनाऽऽसाद्यमानमात्मसाक्रियमाणं दृष्टम्, यथा अङ्कुर उत्पादेनेत्यापन्नम्, अनिष्टं चैतत्। अङ्कुरं वोत्पादो नासादयेत्, अर्थान्तरत्वेनाभूतत्वात्, खपुष्प-वन्ध्यासुतादिवत् ।। 20 यत्तूत्तरेणेत्यादि । यदस्माभिर्दूषण[मुक्त]म्-'उत्तरेण विनाशेन प्राच्यस्यासतस्तत्काले तेन वा विनाशेन सम्प्रति असता न युक्तो व्यपदेशः' इति, अस्योत्तरं परिहारान्तरं यदुच्यते त्वयान भाविधर्मव्यपदेशादिति । तद्व्याख्या- भाविनं क्षणं सन्धाय उच्यते 'क्षणोऽस्यास्तीति क्षणिकः' इति असहभाविनापि भाविना तद्वत्ता भवति। किमिव ? मरणमिवत्, यथा भाविना मरणधर्मेण तद्वान् मनुष्यादिः प्राणी व्यपदिश्यते तथा प्रथमक्षणो द्वितीयक्षणेनाऽसहभाविनापि भाविना 25 क्षणिक इत्यपदोषो व्यपदेशः।
तस्यैव चासौ भावस्य व्ययः प्राच्यस्यति न्याय्य एव व्यपदेशः, यदि तावत् कालान्तर५२४-१ भाविना मरणधर्मेणापि व्ययात्मकेन 'तस्यैव धर्मः' इति व्यपदिश्यते भावः किमिति पुनरात्म
लाभानन्तरभाविना विनाशेनाऽऽत्मीयेन प्रथमक्षण एव क्षणिक इति नोच्यते ? भाविक्षणसन्धानं
१ कारणेन भा०॥ २ मुतातवैव य० ॥ ३ असतस्त्व भा०॥ ४ पृ० ८०८ पं० २॥ ५ विनाशे सम्प्रति य० ॥ ६ दृश्यतां पृ० ८१५ पं० २१, पृ० ८१७ पं० २३ ।। ७ यदि भावकाला प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org