________________
क्षणिक व्यपदेशनिरासः ]
८१२
अथापि एतान् दोषानुपेक्ष्य यद्युत्पादादनर्थान्तरमुत्पद्यमानमङ्कुरादि ततो घटाद्युत्पद्यतेऽकुरोऽपि । अत उत्पादमात्रत्वाद् घटाद्यङकुरादीनां घटादयोऽङकुर एव अङकुरस्वरूपानर्थान्तरत्वात् अङकुरस्वात्मवत् । यथा च स एवं घटाद्यपि । ततश्च स[र्वसा]र्वात्म्यम् उत्पादानर्थान्तरत्वात् । ततश्च सर्वजगद्रव्यार्थापत्तिरपि । ततो मूलद्रव्यार्थः कारणद्रव्यार्थोऽप्यापद्यते । यदेव कारणं कार्यमपि तदेव तदासादितरूप-5 वत्त्वात्, उत्पादासादिताङ कुरोत्पादानर्थान्तरत्ववत् ।
1
ननु कार्येणैव कारणरूपमासाद्यते, न तुल्यपरिप्रश्नार्थत्वात् ।
द्वादशारं नयचक्रम्
अथापीत्यादि एतानुक्तान् दोषानुपेक्ष्या [s] वैमत्य दोषाः प्रत्यक्षविरोधादय उच्यन्ते । तद्यथायद्युत्पादादनर्थान्तरमुत्पद्यमानमङ्कुरादीति तदुक्तमेव स्मारयति दूषयितुम्, ततः किम् ? ततो घटादि उत्पद्यतेऽङ्कुरोऽपि, अत उत्पादमात्नत्वाद् घटाद्यङ्कुरादीनामभे [द], घटादयोऽङ्कुर एव ते 10 प्राप्ताः, कस्मात् ? अङ्कुरस्वरूपानर्थान्तरत्वात्, अङ्कुरस्वात्मवत् । प्रत्यक्षतश्च घटादयोऽङ्कुराद् भिन्ना इति प्रत्यक्षविरोधः । लोके तथा प्रसिद्धत्वाल्लोकविरोधः । कार्य-कारणादिभेदादनुमानविरोधः । तथा शब्दार्थव्यवहाराभ्युपगमादभ्युपगमविरोधः । यथा च स एवं घटाद्यपि, यथाङ्कुर एव घटादयोऽपि अङ्कुरस्वरूपोत्पादानर्थान्तरत्वादङ्कुङ्करस्वात्मवत् एवं घटादिरेवाङ्कुरोऽपि घटादिस्वरूपोत्पादानर्थान्तरत्वात् तत्स्वात्मवत् । ततश्चेति सर्वसा]र्वात्म्यमिति सर्वं सर्वात्मकं घटोऽपि 15 पटोsपि अङ्कुरोऽपि अङ्कुरो घटो रथः पुरुषो महिषोऽपि महिषः पुरुषः महिषो मेषोऽश्वो हस्त्यपीत्यादि सर्वसर्वात्मकत्वमुत्पादानर्थान्तरत्वात् पुरुषाद्येककारणानर्थान्तरचेतन पुरुषत्वादिवत् ।
ततश्च सर्वजगद्रव्यार्थापत्तिरपि, सर्वमेव न विशेषो नाम कश्चिदिति प्राप्तम् । अनिष्टं चैतत् 'क्षणिकम्' इत्यत्यन्तविशेषमात्र वस्तुवादिनस्ते ।
किञ्चान्यत्, न केवलं सर्वजगद्रव्यार्थापत्तिरेव ततो मूलद्रव्यार्थः कारणद्रव्यार्थोऽप्यापद्यते । 20 तत् कथम् ? इति भावयति - यदेव कारणं कार्यमपि तदेवेति पक्षोऽनिष्टापादनार्थः । तदासादित- ५२३-१ रूपवत्त्वादिति हेतु:, तेन कारणेन आसादितं रूपमस्य कार्यस्य यथा तन्तुरूपमासादितः पटः कारणरूपासादितकार्यरूपत्वात् कारणमेव कार्यम्, किमिव ? त्वदभिमतोत्पादासादिताङ्कुरोल्पादानर्थान्तरत्ववत् यथा उत्पादनाऽऽत्मरूपमासादितोऽङ्कुरः तदनर्थान्तरत्वादुत्पाद एव तथा तन्त्वादिकारणरूपासादितं पटादि कार्य कारणमेवेति ।
25
आह-- ननु कार्येणैव कारणरूपमासाद्यते, पटेनैव तन्तवः पटरूपमासाद्यन्ते तस्मादन्यतरासिद्धो हेतुर्विपर्ययाभ्युपगमाद् दृष्टान्तो वा साधनधर्मविकल इति । एतच्च न, तुल्यपरि
१ वमत्या भा० ।। २त्पादनार्थी भा० ।। ३ सार्वात्म्य इत्यपि पाठोऽत्र स्यात् ।। ४ सर्वात्मं घटोपि य० ॥ ५ पक्षोपनिष्टा भा० ।। ६ 'त्पादनार्था भा० ।। ७ दृश्यतां पृ० ८१० टि० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org