________________
८११
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे ब्रह्मचारित्वपितृत्ववत् । ततस्तस्यामसत्यतायां द्रव्यार्थसत्यत्वापत्तिरेव। उत्पादानान्तरत्वाच्च सर्वस्य मतुपर्थाभाव एव सर्वत्र रूपादावपि । न चातदात्वेऽप्यस्य प्रयोगो दृष्टः, अतीतानागतकालापेक्षदण्डदण्डिसहभावपरिग्रहादेव 'आसीद् भविता च दण्डी' इति प्रयोगात् । 5. अतो यदुच्यते 'आत्मलाभ एव विनाशः' इति, एषाऽयुक्ता कल्पना ।
किञ्चान्यत्, उत्पाद-विनाशयोश्चेत्यादि साधनं यावत् पितृवत् स्ववचनविरोधदोषोद्भावनम्, तद्यथा-उत्पादविनाशावेकार्थनिपातिना[व]सदरों, परस्परनिराकृतार्थत्वात्, कुमारब्रह्मचारित्व५२२-१ पितृत्ववत्, यथा कश्चिद् ब्रूयात् 'पिता मे कुमारब्रह्मचारी' इति, तत्र कुमारब्रह्मचारित्वं पितृत्वेन
निराकृतं पितृत्वं कुमारब्रह्मचारित्वेन, अतस्तौ जन्म-क्षयधर्मावपि तथा विरुद्धौ क्षण एकस्मिन् 10 वृत्तावित्यसैत्यार्थी।
ततः किम् ? ततः सत्यां तस्यामसत्यतायां द्रव्यार्थसत्यत्वापत्तिरेव, यदि वस्तुन उत्पादविनाशौ न स्तः सच्च तद्वस्त्विष्यते ततोऽवस्थितं तदिति प्राप्तमर्थादेव । तच्चानिष्टं ते ।
किञ्चान्यत्- उत्पादानर्थान्तरत्वाच्च सर्वस्य मतुपर्थाभाव एव सर्वत्र रूपादावपीति प्राप्त इति वाक्यशेषः। यथा त्वयोक्तम्-'आत्मलाभ एव विनाशः, मतुपर्थोऽपि स एव, उत्पाद15 वदङकुरत्ववदुत्पादातिरिक्तार्थासम्भवात् सर्वमत्पादमात्रम्' इति, तथा च कतमोऽन्योऽर्थ उत्पादाद्
यतस्तेनोत्पादेन तद्वानङ्कुरादिरुत्पादवानिति व्यपदिश्येत तद्वयतिरिक्तासम्भवात् ? एवं रूपादेरप्युत्पादमात्रत्वात् 'उत्पादवद् रूपं, रसो गन्धः शब्दः स्पर्शी वा उत्पादवान्' इति नैव कश्चिदर्थः स्यात्, तदभावात् 'उत्पादवत्' इति व्यर्थको निर्देशो मतुपर्थप्रत्ययान्तः स्यात् ।
स्यान्मतम्-असहमाने (भावे)ऽपि अतदात्वे मंतुपर्थप्रत्ययदर्शनाद् व्यभिचारिणो दूषणहेतव20 स्त्वदीयाः, तद्यथा-'दण्डी आसीत्, दण्डी भविता' इत्यादि । अत्रोच्यते-न चातदात्वेऽप्यस्येत्यादि । न चैवं मन्तव्यम्-असहभूतयोस्तत्तद्वतोरतदात्वे मतुपर्थप्रत्ययान्तनिर्देश इति, किं तर्हि ? अतीताऽनागतकालापेक्षदण्ड-दण्डिसहभावपरिग्रहादेव 'आसीद् भविता च दण्डी' इति प्रयुज्यते धातुसम्बन्धे
प्रत्ययाः [पा० ३।४।१] इति लक्षणात् प्रयोगसाधुता च । अतस्तदवस्थत्वादनुत्तरम् । ५२२-२ अत उपसंहरति-अतो यदुच्यते इत्यादिर्गतार्थ उपसंहारः । एवमुक्तदोषत्वात् आत्मलाभ एव
25 विनाश इत्ययुक्ता कल्पना ।
१ (पातेनासद ? ) ॥ २ सद्यार्था भा०। (सद ? )॥३मनुपथाभाव भा०॥ ४ मतपर्वेपि भा० ॥ ५ मतपर्वप्रत्य भा० ॥ ६ “धातुसम्बन्धे प्रत्ययाः ।३।४।१। “धात्वर्थानां सम्बन्धे काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङन्तवाच्यक्रियायाः प्राधान्यात् तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकं दर्शनमर्थः। सोमयाज्यस्य पुत्रो भविता सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृक भवनम् ।" इति पा० सिद्धान्तकौमुद्याम् ।। “धात्वोः सम्बन्धो धातुसम्बन्धः। धात्वर्थश्चात्रोपचाराद्धातुशब्देनोच्यते। ....तत्र धातुसम्बन्धे कालान्तरविहितानां प्रत्ययानामन्यस्मिन् काले साधुत्वाभ्यनुज्ञानार्थमिदं सूत्रम्।" -इति कयटविरचिते प्रदीपे।। ७ इत्यादिनिर्गतार्थ भा०॥ ८ दृश्यतां पृ०८०९ पं०६, पृ०८१० पं० १२, पृ०८११ पं०१४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org