________________
क्षणिकव्यपदेशनिरासः] द्वादशारं नयचक्रम्
८१० उत्पादातिरिक्तासम्भवात् । न च स यस्य क्षणः, न च योऽसौ क्षणः, । अतः सा क्षणिकता नास्त्येव । तस्मात् प्रस्तुतविरोधित्वादयुक्तेयं व्याख्या। अपि चेहापि इनिप्रत्ययान्तविनाशशब्दनिर्देशोऽयुक्तः, तदर्थासम्भवात् । तस्मादिन उपादानादयुक्ता कल्पना, बहुव्रीहेर्वा, मेदव्यवहारमभ्युपगम्य शब्दार्थविचाराङ्गीकरणात् ।
अनन्तरविनाशक्षणे क्षणद्वैविध्यादसम्बन्धः। उत्पादार्थेन विरोधिनो विनाश-5 स्यानवकाशात् तदा क्षणिकार्थासत्त्वमेव । इतराभावे इतरस्यापि तथाऽभावाद् व्यपदेशाभावः । उत्पादविनाशयोश्चैकार्थनिपातिनोः परस्परनिराकृतार्थत्वादसत्यार्थत्वम्, कुमार
इति तद्दर्शयति- न च स यस्य क्षण इति, न च सोऽर्थो यस्तेन क्षणेन तद्वत्क्षणिक उच्यते स्वामी दण्डेनेव दण्डिकश्चैत्रः, त्वयैव 'उत्पादक्षणातिरिक्तार्थासम्भवात्' इत्युक्तत्वात् । न च योऽसौ क्षण इति, सोऽपि क्षणो नास्ति यश्चैत्रदण्डित्वव्यपदेशकारणदण्डस्थानीयस्वत्वभौक् येन सम्बन्धात् क्षणोऽ-10 स्यास्तीति क्षणिक उच्यते ततोऽन्यः। अतः सा क्षणिकतात्व (ऽत्र) नास्त्येव शब्दार्थ इत्यर्थः । तस्मात् प्रस्तुतविरोधित्वात्]ि शब्दार्थविरोधित्वादयुक्तेयम् 'आत्म[लाम] एवानन्तरविनाशी' इति व्याख्या।
किञ्चान्यत्- अपि चेहापीत्यादि। क्षणिकशब्दार्थसमीक्रियार्थम् 'अनन्तरविनाशी' इत्यत्र इनिप्रत्ययान्तविनाशशब्दनिर्देशोऽप्ययुक्तस्तस्याप्यर्थासम्भवात्, न केवलं क्षणिकशब्द एव उक्तन्यायेन । 15 तस्मादिन उपादानादयुक्ता कल्पना। इतश्चायुक्ता बहुव्रीहेर्वा, 'अनन्तरं विनाशोऽस्येत्यनन्तर-५२१-२ विनाशः' इत्येवोच्यमानेऽपि अयुक्तमेवाभिहितन्यायाद् बहुव्रीहेरपि चित्रगुवद् भिन्नार्थविषयत्वात् तदर्थासम्भवाच्चेति । स्यान्मतम्- 'आत्मवान् देवदत्तः, उत्पादवानङ्कुरः' इत्यभिन्नार्थे मतुपादिप्रत्ययदर्शनात् 'पदमेकाक्ष[र]म्' इत्याद्यभिन्नार्थबहुव्रीहिदर्शि]नाच्चादोष इति। एतच्चायुक्तम्, भेदव्यवहारमभ्युपग[म्य]शब्दार्थविचाराङ्गीकरणाद् वस्तुनस्तथात्वे तद्विरोधाच्च।।
किञ्चान्यत्, अनन्तरविनाशक्षणे क्षणद्वैविध्यादसम्बन्धः, 'आत्मलाभ एवानन्तरविनाशी' इति ब्रुवतः स एवोत्पादो विनाशश्चेत्येकार्थद्विधावृत्तिप्रसङ्गो[5]सम्बन्धश्च सः, तयोश्चोत्पाद-विनाशयोः परस्परविरोधात् पूर्वदोषानतिवृत्तेश्च । उत्पादार्थनेत्यादि, आत्मलाभस्य उत्पादपर्यायत्वात् विरोधिनो विनाशस्यानवकाशात् तदा क्षणिकार्थासत्त्वमेव । अनन्तरवंचनेऽपान्तरालव्युदासार्थव्याख्यापत्तेः प्रागुक्तदोषसम्बन्धादयुक्तम्, तद्दर्शयति-"इतराभाव इत्यादि गतार्थ साधनं यावद् व्यपदेशा- 25 भाव इति ।
१ ( तद्वान् क्षणिक: ? ) ॥ २ भाका प्र० ॥ ३ इत आरभ्य एतच्चिह्नान्तर्गतो दृष्टान्तो वा इत्यन्तः [पृ० ८१२ पं० २७] पाठो य० प्रतौ नास्ति ॥ ४ दृश्यतां पृ० ८०९, पृ० ८११ ॥ ५ समीपक्रियार्थसमनन्तर भा० । पृ० ८०९ पं० २४ ।। ६ मनुषादि भा० ॥ ७ पृ० ८०९५० ६ ।। ८°मृत्ति भा. ॥ ९ उत्पादविपर्या भा० ॥ १० वचनोपान्त° भा० ॥ ११ व्यास्या भा० ॥ १२ तुलना पृ०८०८ पं०२॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org