SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ८०९ [द्वादशे नियमनियमारे न्यायागमानुसारिणीवृत्त्यलङ्कृतम् स्यादियमाशङ्का तयोरन्यतरस्तिष्ठत्यतो व्यपदेशसिद्धिरिति । अथ स्थाता कश्चिद् द्वयोरपि ततो योकस्मिन् क्षणे जातम्............... एवं द्वयोः क्षणयोरसम्बन्धात् क्षणिकशब्दार्थो नास्ति यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तर5 शब्दस्य। अथात्मलाभ एवानन्तरविनाशी । अनन्तरश्च विनाशश्चानन्तरविनाशः, सोऽस्यास्तीति क्षणिकशब्दोऽर्थवान् । न हि रूपादिविनाशव्यतिरिक्त उत्पादः, य उत्पादः स एव विनाशः, सोऽस्यास्तीति ] क्षणिकः। यथोत्पादवानङकुर इत्युच्यते । स चोत्पादादनान्तरमजकुरः, उत्पादातिरिक्ताङकुरासम्भवात् । 10 एवं ते य उत्पादः स एव विनाशः, न विनाशातिरिक्त उत्पादक्षणः, स्यादियमाशङ्का-तयोः पूर्वोत्तरक्षण]योरन्यतरस्तिष्ठत्यतो व्यपदेशसिद्धिरिति, तत्प्रत्युच्चारणम्-अथ स्थाता कश्चिद् द्वयोरपि क्षणयोरिति, यद्युत्तरो यदि पूर्वो यथेच्छसि तथास्तु, तिष्ठतु नाम, तथाभ्युपगतेऽपि दोषः-ततो 'योकस्मिन्' इत्यादिश्लोकः त्वयोक्तो विनाशकारणा भावादनन्तकालावस्थानमिति दोष एव । एवं तावद् द्वयोः क्षणयोः सम्बन्धाभावात् क्षणिकशब्दार्थोऽसन् 15 यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तरशब्दस्य 'व्यपदेशसिद्धिः' इति वर्तते। अथात्मलाभ इत्यादि । अथ मा भूदेष दोष इति 'उत्पत्त्यनन्तरविनाशक्षणः' इति अनन्तरशब्द उत्पत्तिक्षणमेवाह, स एवोत्पत्तिक्षणोऽनन्तरविनाशी समानाधिकरणसमासत्वात् । तदर्शयति अनन्तरश्च विनाशश्चेत्यादिना । तस्यैवात्मलाभस्य विनाशधर्मः सम्बन्धिनः सम्बन्ध्यस्तीति क्षणिक५२१-१ शब्दोऽर्थवान् । तद्वयाख्या- न हि रूपादिविनाशेत्यादि यावत् क्षणिकः। क्वास्य सम्बन्धिवाचि20 प्रत्ययता दृष्टेति चेत्, दर्श्यते- यथोत्पादवानङकर इत्युच्यते नात्राङ्कुरव्यतिरिक्त उत्पादों न चोत्पादव्यतिरिक्तो मतुपर्थो य उत्पादवानङ्कुर इत्युच्यते, दृष्टश्चायं व्यपदेशस्तेनैव तस्य । तद्दर्शयन्नाह-स चोत्पादादनान्तरमङकुरः, कस्मात् ? उत्पादीतिरिक्ताङकुरासम्भवादिति । अन ब्रूमः- एवं ते य उत्पाद इत्यादि तन्मतप्रत्युच्चारणं यावदुत्पादातिरिक्तासम्भवादिति, तच्चानिष्टं तवैव, क्षणिकशब्दार्थसमीकरणव्याख्याप्रवृत्तेन त्वया तस्यैव विनाशितत्वात् । कथम् ? १त्तरपक्षयोर भा० ।। २ प्रत्युच्चारणम् य० ॥ ३ दृश्यतां पृ० ८०२ पं० ५ ।। ४ तुलना तत्त्वसं० पृ० १४२ पं०२०॥ ५ दृश्यतां पृ० ८१० पं० १२, २१, पृ० ८११५० २४॥ ६ पृ०८०८ पं० ११॥ ७क्यस्य प्र०॥ ८ मनुपर्वो प्र०॥ ९ दर्शयन्नाह य० ॥ १० 'दारनर्थातुर प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy