________________
क्षणिककान्तनिरासः]
द्वादशारं नयचक्रम्
८०८
क्षणानन्तरो विनाशक्षणः स एव तस्यास्ति पर्यायस्य पर्यायः ।
एवमपि न युक्तोऽपदेश इतराभाव इतरस्यापि तथाऽभावात् । यदा दण्डो विद्यते चैत्रोऽपि विद्यते तदास्य तेन तद्वत्ता न्याय्या स्यात् । इह तु यदोत्पत्तिक्षणो न तदा विनाशक्षणः यदा च विनाशक्षणो न तदोत्पत्तिक्षण इति उत्तरेण प्राच्यापदेशो न युक्तः। यदपि च निदर्शनमुक्तं तदपि युगपत् सतोस्तुलान्तयोयुज्येत, न तु विद्यमानाविद्यमानयोः । क्षणयोयागपद्यं घटखपुष्पयोरिव । नत्युन्नत्योश्च सत्त्वाद् योगपद्यं स्यात् । अतोऽसमञ्जसता दृष्टान्तदाष्र्टान्तिकयोः । नश्यतः सत्त्वे सहावस्थानमुत्पद्यमानेन, असत्त्वे तदवस्थमसमञ्जसत्वम् ।
लावस्थानव्युदासार्थम्, 'नान्तराले किञ्चिदस्ति' इत्यस्यार्थस्य दर्शनार्थम्, तस्य ज्ञापकं प्रागुक्तम्-- नाशोत्पादौ समं यद्वन्नामोन्नामो तुलान्तयोः' [ ] इति।
10 एवं निरन्तरयोः क्षणयोर्योऽयमुत्पत्तिक्षणानन्तरो विनाशक्षणः स चापकर्षकालपर्यन्तकालच्छेदेन बुद्धया विभज्यमानो यो विभागं न प्रयच्छति स एव तस्यास्ति पर्यायस्य पर्यायः, तस्मात् क्षणिकशब्दः क्षणस्य क्षणान्तरापेक्षत्वादर्थवान्, अतो न दोषो द्रव्यार्थपरिग्रहोऽवस्थितार्थोऽन्वेष्य इति ।
___ अत्रोच्यते-एवमपि न युक्तोऽपदेशः 'क्षणोऽस्यास्तीति क्षणिकः' इति पर्यायान्तरापेक्षयापि। कस्मात् ? इतराभाव इतरस्यापि तथा[s]भावात, यथा दण्डाभावे दण्डिकत्वेन 15 चैत्रस्याप्यभावाच्चैत्रो दण्डिक इति नोच्यते एवमुत्पत्तिक्षणस्य विनाशक्षणस्य वा परस्परमितरकाल इतरस्यात्यन्तमसत्त्वाद् विनाशक्षण उत्पत्तिक्षणवान भवति उत्पत्तिक्षणोऽपि विनाशक्षणवान्न भवति खरविषाणवत्त्वेन चैत्राभाववत् । यदा दण्डो विद्यते चैत्रोऽपि विद्यते तदास्य चैत्रस्य तेन दण्डेन तद्वत्ता दण्डवत्ता दण्डिकता न्यायादनपेता स्यादिति वैधhण निदर्शनम् । इह तु यदोत्पत्तिक्षण इत्यादिना उत्पत्ति-विनाशक्षणयोरसाधर्म्य दर्शयति यावत् प्राच्यापदेशो न युक्त इति गतार्थम् । 20 यदपि च
'नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः' [ ] इति हेतुहेतुमत्त्वनिदर्शनमुक्तं तदपि अर्थान्तरभूतयोयुगपत्सतोस्तुलान्तयोयुज्येत, न तु विद्य-५२०-२ मानाविद्यमानयोः क्षणयोर्योगपद्यं घट-खपुष्पयोरिव, तथा नेत्युन्नत्योश्च सत्त्वाद् यौगपद्यं स्यात्, अतोऽसमञ्जसता दृष्टान्त-दार्टान्तिकयोः। स्यान्मतम्-नाशोत्पत्त्योयॊगपद्ये सति सामञ्जस्याददोष 52 इति । इत्येतच्चायुक्तम्, नश्यतः सत्त्वे सहावस्थानमुत्पद्यमानेन, असत्त्वे तदवस्थमसमञ्जसत्वम् । तस्मादयुक्त उत्तरेण प्राच्यस्यापदेशः क्षणोऽस्यास्तीति क्षणिक इति ।
१ दृश्यतां पृ० ८०१ पं० ४॥ २ द्यापादपेता प्र०॥ ३ दृश्यतां पृ० ८१३ पं० ४ ॥ ४ पृ० ८०१ पं०४ ॥५ नेत्युन्नत्योश्च य० । नेत्युत्पन्नत्योस्य भा०। ६ दयुक्तं भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org