________________
८०७
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
कुतः क्रिया, क्षणिकत्वात् ? उक्तं हि - क्षणिकाः सर्व संस्कारा अस्थितानां कुतः क्रिया । भूतियेषां क्रिया सैव कारकं सैव चोच्यते । [ ]
तिष्ठतु तावत् क्रियाभ्युपगमादि । क्षणिकशब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य 5 भङ्गः शक्यते कर्तुम् । न हि क्षणिकशब्दार्थः क्षणेन स्वेन तद्वता चार्थेन स्वामिना विना घटते इति तस्य क्षणस्य स्वामी तत्समवस्थायी द्रव्यार्थोऽर्थो भवितुमर्हति ।
[ द्वादशे नियमनियमारे
न पर्यायविषय एव तत्स्वामित्वोपपत्तेः । द्विविधो हि क्षणः उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरम् । अनन्तरवचनमन्तरालावस्थानव्युदासार्थम् । योऽयमुत्पत्ति
इतर आह- कुतः क्रिया, क्षणिकत्वात् ? अन्तेऽपि च क्रियात्वं नाभ्युपगम्यते मया क्षणि10 कत्वादभावत्वात् प्रागुक्तविधिना, किमङ्ग पुनरारम्भकरणाद्यवस्थासु अवस्थित वस्त्वनभ्युपगमात् ? ५१९-२ उक्तं हीत्यादि ज्ञापकम् । क्षणिकाः सर्वसंस्कारा इत्यादिश्लोकः प्रत्या ( प्राग्व्या ? ) ख्यातार्थ इति
न पुनर्व्याख्यायते ।
अत्नोच्यते - तिष्ठतु तावदित्यादि । यदन्यद्रव्यार्थ नयदर्शनस्योक्तक्षयोत्पादादिक्रियाभ्युपगमादि वस्तुव्यवस्थासिद्धिकारणं वा क्षणभङ्गाभावप्रतिपादनसमर्थं तत् तावदास्ताम्, किं तर्हि ? क्षणिक15 शब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य भङ्गः शक्यते कर्तुम्, कस्मात् ? क्षणिकशब्दस्य स्व-स्वामिलक्षणास्त्यस्तिमत्सम्बन्धवाचिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्गात् । तद्दर्शयति- न हि क्षणिकशब्देत्यादि, क्षणोऽस्यास्तीति क्षणिको यथा दण्डोऽस्यास्तीति दण्डिकः, यथा चैत्रेण दण्डसम्बन्धिना स्वामिना दण्डेन स्वेन च [विना ] 'दण्डिकः' इति शब्दो नार्थवान् भवत्येवं क्षणिकशब्दोऽपि क्षणेन स्वेन तद्वता चार्थेन स्वामिना विना नार्थवान् । भा भूत् सोऽनर्थक इति तस्य क्षणस्य स्वस्य 20 दण्डस्येव चैत्रष्ठन्प्रत्ययान्तः स्वामी तेन सह समवस्थातुं शीलं यस्य स द्रव्यार्थ लक्षणोऽर्थो जैनेन्द्रव्युत्पादितोत्पाद - विनाशर्यायार्थसहचारिस्थितद्रव्यार्थवद् भवितुमर्हति इतरथा 'क्षणोऽस्यास्तीति क्षणिक:' इति न शब्दो (ब्दा) र्थो घटते सोऽवैस्थातृद्रव्याभिधायित्वे तु घटते ।
अताह-न पर्यायविषय एव तत्स्वामित्वोंपपत्तेः, पर्यायान्तरस्य स्वपर्यायान्तरं स्वामीत्यैस्त्यस्तिमत्सम्बन्ध उपपद्यते, तदर्थवाची च तत्प्रत्ययः । तद् व्याचष्टे - द्विविधो हि क्षण इत्यादि, द्वैवि25 ध्यम् उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरमिति । तस्य स्फुटीकरणम् - अनन्तरवचनमन्तरा
Jain Education International
१ अस्थित भा० ।। २ दर्शनं स्योक्त' भा० ॥। ३ वाचिउत्प्रत्य प्र० । “ अत इनिठनी " - पा० ५।२।११५ ।। ४ तुलना - "यश्चायं मत्वर्थीयः क्षणिका इति स कथम् ? यदि निरुक्तन्यायेन क्षयः क्षण इति क्षणोऽस्यास्तीति क्षणिक इति तन्न युक्तं कालभेदात् । यदा क्षयो न तदा क्षयीति भिन्नकालयोर्न मत्वर्थीयो दृष्टः । अथ पुनर्भाव एवानन्तरेण विनाशेन विशिष्यमाणः क्षणिक इत्युच्यते तथापि तेनैव तदेव तद्वन्न भवतीति न युक्तो मत्वर्थीयः ॥ न्यायवा० ३।२।१४ ।। ५ वस्थास्तु त्यस्यास्तिमत्स प्र० ॥
,"
प्र० ।। ६ °धायित्वे घटते य० । ७
For Private & Personal Use Only
www.jainelibrary.org