________________
८३४
द्वादशारं नयचक्रम्
सर्वस्य निःस्वभावत्वसाधनम् ]
कदा घटः सेत्स्यति प्रत्येक व्यक्त्यात्मा यदासौ घटोऽघटो भवति, कदाऽघटो सेत्स्यति यदासौ घटो भवतीतीतरेतराश्रयत्वादसिद्धिः ।
एवं तर्हि दर्शितदिगघट एव घटत्वं तथादृष्टत्वादिति चेत्, अघटेऽपि न घटत्वं प्रत्यक्षत एवाघटे घटत्वाभावात् प्रतिद्वन्द्वित्वाच्च ह्रस्वदीर्घत्ववत् । अघटस्य वा घटत्वे घट एव सोऽघटः संवृत्तः को घटो नामाघटादन्यः, घटत्वाभावात्मकत्वादघटत्वस्य
1
5
नद्वये, यथा घटे घटत्वं न वर्तते परायत्तत्वाद् घटत्वस्य तथाऽघटेऽपि न वर्तते । द्वयोरन्यतरत्राप्यसिद्धेः कुत उभयत्र वर्तते प्रतिद्वन्द्वित्वात् स्वपरयोरपि ।
अयमपि चेतरेतरयोग श्चिन्त्यः [ किमघटे वर्तमाने घटत्वे घटो भवति उत घट एव वर्तमाने ? यदि अघटे वर्तमानं घटत्वमुभयत्र भावं लभते ततोऽघटे घटत्वमघटस्य तदात्मतां तत्प्रत्ययं चाकुर्वाणं घटस्य तदात्मतां तत्प्रत्ययं च न कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, 10 पटाघटत्वप्रत्ययवत् । घट एव वर्तमाने घटत्वे घटो भवति ततो घट एव घटतां करोति तत्प्रत्ययं चाधत्ते, किन्तु अघटेन तत्प्रत्ययेन च नार्थः । अथ तत्र घटतां न करोति
यत्तत्वाद् घटत्वस्य, परस्परायत्तवृत्तित्वाद् घटत्वाघटत्वयोः । तद्दर्शयति--कदा घटः सेत्स्यति प्रत्येक व्यक्त्यात्मा घटान्तरव्यावृत्तविविक्तं व्यक्तस्वरूपः । यदासौ घट इत्यादि पूर्ववद् ग्रन्थो नेयो दीर्घ-ह्रस्वयोरिव घटाघटयोर्यावदितरेतराश्रयत्वादसिद्धिः । एवं तावद् घटे नास्ति घटत्वम् । 15
स्यान्मतम् - एवं तहि दर्शितदिगघट इत्यादि, अधुना व्याख्यातदिशा अघट एव घटत्वं वर्तते तथादृष्टत्वादिति मन्यसे चेत्, अत्रापि ब्रूमः - अघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे पादौ घटत्वस्याभावात् प्रतिद्वन्द्वित्वाच्च विरोधिन्यघटे घटत्वं विरोधि कथं स्यात् ? विरोधिनोः सहाभावे दृष्टान्तः - ह्रस्व-दीर्घत्ववत् । अघटस्य वा घटत्वे [s]घटे चेद् वर्तते घटत्वं घट एव सोऽघटः संवृत्तः, तस्मात् को घटो नामाघटादन्यः ? इति घटाभावः कस्मात् ? घटत्वाभावा- 20 त्मकत्वादघटत्वस्येत्यादि पूर्वोक्तदीर्घ ह्रस्वैत्वव दिहापि नेयम् । ५३६:१
स्यान्मतम् - उभयत्रेति । तन्न द्वये, यथा घट इत्यादि हस्व-दीर्घयोरिव घटाघटयोः प्रत्येकमसिद्धेर्भावितमेवमिहापि स एव न्यायो यावत् परयोरपीति ।
अयमपि चेत्यादि, एषोऽपि स एव न्यायः, किन्तु अघटे घटत्वमिति पूर्वोपक्रमः अघटे घटाकरण-प्रत्ययानाधानप्रदर्शनस्य सुकरत्वात् शेषं पूर्ववत्, स्ववचनविरोधोद्भावनं च कथं त्वयोच्यते 25 मन्यते च घटः ? इति शेषं तथैव नेयं घटाघटार्थविशेषेण यावत् पंटप्रत्ययवदिति स एव गमः । .
१ पृ० ८३० पं० ३ ।। २ 'क्तस्वरूपः य० ।। ३ पृ० ८३० पं० २४ ।। ४ पृ० ८३१ पं० ७ ।। ५ ह्रस्ववदि भा० ।। ६ पृ० ८३१ पं० ४ ।। ७ तुलना पृ० ८३१ पं० २२ ।। ८ टार्थविशेषणं य० ।। ९ पृ० ८३३ पं० १ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org