________________
'भेदप्रधानस्य भावस्य निराकरणम् ]
द्वादशारं नयचक्रम्
७४०
पचारिकत्वं वक्रतायाः, नाङ्गुलेः, न हि वक्रत्वमङ्गुलिर्भवति अनुत्पन्नत्वात् खपुष्पवत् । भेदत्वाच्च रूपवत् ।
अत उक्तन्यायात् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव द्रव्याश्रितत्वाद् भेदानाम् । पर्यायप्रवृत्तेः सर्वथैव भवनविध्यनुपपत्तिः।
विशेषस्वरूपप्रत्यवेक्षायां भवनं स्वेनैव महिम्ना पृथग वर्तते। तद् यदि पूर्व 5 भवनमस्वतन्त्रं पृथक् चावृत्ति ततो निर्मूलत्वादसन् घटः खपुष्पवत् । नापि स स्वयमेव भावः, विशेषप्रधानपक्षहानेः। नाप्यस्य भावः, ततश्च असत्त्वाविशेषात् रित्यादि, यथा 'अंगुलिर्वका भवति' इत्युक्तेऽङ्गुलेरवस्था वक्रताऽङ्गुलेः सामान्यस्य भेदोवस्थामात्रमित्यौपचारिकत्वं वक्रतायाः, नाङ्गुलेः। यस्माद् न वक्रत्वमङ्गुलिर्भवति, वक्रत्वस्याऽनवस्थात्वादङ्गुलेः। अङ्गुलिरेव वक्रीभवति, न वक्रतैवाङ्गुलीभवति । कस्मात् पुनर्न वक्रत्वमङ्गुलीभवति ? 10 उच्यते-अनुत्पन्नत्वात् खपुष्पवत् । एवं तावदयुगपद्भाविकालभिन्नाभिमतपर्यायेषु द्रव्यमानत्वमुक्तम् । युगपद्भाविदेशभिन्नाभिमतपर्यायेष्वपि भेदत्वाच्च रूपवत् 'तदवस्थामात्रम्' इति वर्तते । यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वात् 'रूपं रसो गन्धः' इत्यादिभेदेनोच्यतेऽङ्गुलिा, विज्ञानमात्रस्य तत्र भेदत्वाद् वस्तुनो घटस्याभिन्नत्वात्, एवं पृथिव्यादिसामान्यभेदा घटादयोऽश्म-सिकतादय[श्च] विज्ञानमात्रेणेति ।
15 __ किञ्चान्यत्, अत उक्तन्यायादित्यादि । अतीतविध्यादिद्रव्याथिकनयेषु एक-सर्वगत-नित्यकारणवस्तुमात्रविजृम्भितं स्तिमितसरस्तरङ्गादिव[त्] त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव, द्रव्याश्रितत्वाद् भेदानामवस्थादिसंज्ञानां पुरुषादिवादेषु प्रतिपादितत्वात् द्रव्यस्य पर्यायानाश्रितत्वाच्च । पर्यायप्रवृत्तेरित्यादि, इति सर्वथैव भवनविध्यनुपपत्तिरेवं पूर्वातीतद्रव्यनयदर्शनेन ।
विशेषस्वरूपेत्यादि । तस्यापि च विशेषस्य स्वरूपं प्रत्यपेक्ष्यमाणमन्वयसामर्थ्यादृते न लभ्यते, 20 तद्यथा-पूरयति पालयति कार्यस्यात्मनोऽवस्थादेः स्वरूपमिति कारणं भवनमन्वयः स्वेनैव महिम्ना ४७८-२ पृथग् वर्तते भेदादृतेऽपि यथोपवर्णितमनेकधाऽतीतनयेषु । तद् यदि पूर्वं भवनमस्वतन्त्रं "पृथक चावृत्ति यथा त्वयेष्टं स्यात् ततः किम् ? ततो निर्मूलत्वादित्यादि, निर्मूलत्वादसन् घटः खपुष्पवत । स्यान्मतम्-किं घटस्य मूलेन भवनेन ? किं ने स स्वयमेव भवति ? इति, एतच्च नापि स घट: स्वयमेव भावः, कस्मात् ? विशेषप्रधानपक्षहानेः। यदि विशेष एव भावस्ततो घट एव विशेषः, स 25 एव भावो भवनम्, तेन भूयतेऽन्वयेन भावेनेत्यतस्तथाभावत्वाद् घटस्यापि भावमात्रं सामान्यमर्थं (र्थः?)
१ 'अगुलिवक्रीभवति' इत्यपि पाठोऽत्र स्यात्, दृश्यतां पं० १०॥ २ भेदवस्था प्र० । 'तदवस्था" इत्यपि पाठोऽत्र सम्भवेत् दृश्यतां पं० १२ ॥ ३ भवतीति भा० ॥ ४ त्वयुक्तम् प्र० ।। ५ दृश्यतां पं० ८, पृ० ७३९ पं० २३ ।। ६ (पर्यायाप्रवृत्तेः ? ? ) ।। ७ `त्यादिः । अथ सर्वथैव भा० ॥ ८ (प्रत्यवेक्ष्यमाण° ? ) ॥ ९ लभ्येतो भा० । लभ्यते य० ॥ १० पृथक्त्वावृत्ति यथा त्वयेष्टं भा०। पृथक्त्वावृत्ति (त्ते?)र्यथात्वयवेष्टं य०॥ ११ त्वादि निर्मूल य० ॥ १२ न स्वयमेव य० ।। १३ सामान्यामर्थ भा० । सामान्यमर्थ य० । 'सामान्यमेवं' इत्यपि पाठोऽत्र स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org