________________
७३९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[नवमे नियमारे अथ पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति ततश्चोपसर्जनत्वं सामान्यस्य नास्ति । उभयस्मिस्त्वसति स यद्यभाव एव भेदः, 'तेनैव भेदेन न भूयेत अभावत्वात् खपुष्पवत् । न ह्यभावो भावो भवति । अथ भाव एव ततो भावाव्यतिरेकाद् भूतत्वादुभयथापि न पुनर्भूयेत, भूतघटादिवदाकाशादिवत् । न हि भूत एव भवति, तथाऽसत्त्वापत्तेः । यदि 5 भूतमेव भवेत् ततस्तदसत् स्यात्, उत्पद्यमानत्वात्, अजातघटादिवत् ।
___ भेदेषु भवनान्वय औपचारिकः [इति चेत् ], नन्वन्वयद्रव्यं स्वात्मन्येव तिष्ठति, ततश्च तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति । यथा 'अङ्गुलिर्वका भवति' इत्युक्ते वक्रता अङ्गुलेः भेदावस्थामात्रमित्यौ
सत्प्रधानोपकारिता ? इति। अथेत्यादि। अथ मा भूत् पृथिव्यादिसामान्योपसर्जनत्वे द्वयोरपि 10 सामान्य-विशेषयोरभावदोष इति पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति सत्त्वात्, ततश्चोपसर्जनत्वं ४७७-२ सामान्यस्य नास्ति स्वतत्त्वव्यापित्वात् भावत्वात् प्रवर्तमानत्वाद् भेदवत्, इत्थमप्युपसर्जनत्वनिवृत्तिः।
उभयस्मिस्त्विति सामान्ये पृथिव्यां भेदे च घटे द्वयेऽपि असति भावेऽन्वये भवितरि च विशेषे स यद्यभाव एव भेदो येन भूयते भेदेन स भेद इतीष्यते तेनैव भेदेन न भूयेत अभावत्वात,
अभावत्वमभवनक्रियात्मकत्वात्, खपुष्पवत्। न ह्यभावो भावो भवतीति दृष्टान्तार्थप्रदर्शनात् । 15 अथ भाव एव, मा भूदेष दोष इति अन्वयस्वभाव एवासौ भेदो भाव एवेष्यते ततो भावाव्यतिरेकाद भावात्मकत्वादन्वयात्मकत्वाद् भूतत्वादुभयथापि प्रधानोपसर्जनत्वाभ्यां पृथिवी-घटत्वाभ्यां न पुन येत, भूतत्वात्, भूतघटादिवत् आकाशादिवद् वैयर्थ्यात् । तद्दर्शयति-न हि भूत एव भवतीति। कस्मात् ? तथाऽसत्त्वापत्तेः। यदि भूतमेव भवेत् उत्पन्नमेवोत्पद्यते ततस्तदसत स्यात्, उत्पद्यमानत्वात्, अजातघटादिवदित्यसत्त्वापत्तिः, अनिष्टा च सेति न भावो भवति 20 नाभावो भवत्युभयं पृथिवी घटश्चेति ।
भेदेष्वित्यादि। स्यान्मतम्-भेदेषु घटादिष्वेव पृथक् सत्सु परमार्थतः योऽसौ 'भवति भवति' इति भवनान्वयः स औपचारिक इति । अत्रोच्यते-नन्वन्वयेत्यादि । ननु त्वयैव स्वद्रव्ये पृथिव्यादि
तिष्ठति स्वात्मन्येव ततश्च तस्य पृथिव्यादिँद्रव्यान्वय[स्या ]वस्थामात्रं घटादिभेदा इति 'घटादिभेदा ४७८.१ एवौपचारिकाः, पृथिव्यादिसामान्यमेव तत्त्वम्' इत्युक्तं भवति । किमिव? इत्यत आह-यथाङ्गलि
१'येन भयते भेदेन तेनैव न भूयेत' इत्यपि मूलमत्र स्यात् ।। २ व्यापितत्वात्प्र ० ॥३ भेदोप्यनभयते य० । भेदोत्यनभयते भा० ॥ ४ प्राधानो प्र० ।। ५ नाभावो भा० । न भावों य० । अत्रेदमवधेयम्-लेखकप्रमादात ति न भावो भवति न भावो भव' इति द्विर्भावोऽप्यत्र संभवति, तथाङ्गीकारे तु 'अनिष्टा च सेति न भावो भवत्यभयं पृथिवी घटश्चेति' इति पाठोऽप्यत्र सम्भवेत् ॥ ६ नन्वत्वयेत्यादि य० । नच्वयेत्यादि भा० । अत्रेदमवधेयम् अत्र यदि ननु त्वयेत्यादि इति प्रतीक : शुद्ध इत्यभ्युपगम्यते तदा 'नन त्वयैव तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति' इति मूलमत्र सम्भाब्यते ।। ७ स्वात्मनोव भा० । स्वात्मन्येन य० । (स्वात्मनैव ?) ॥८द्रव्यस्यावयवस्थामात्रं य० । अत्र द्रव्यस्यावस्थामात्रं इति पाठोऽपि सम्भवेत ।। ९ भवतीति य०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org