________________
20
HesesyenewBENEFTEEV
FETV
में अर्ह सद्गरुभ्यो नमः
अथ नवमो नियमारः। यदि भेदप्रधानो भावः कथमसौ ? स भवितारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थोऽस्वतन्त्रत्वादसन् खपुष्पवत्। तदभावे भेदा एव विप्रकीर्णाः स्युः। ततश्च भेत्तव्याभावाद् भेदा अपि न भवितुमर्हन्तीति धर्मधर्मस्वरूपविरोधः। घटादिभेदाभावः, भेत्तव्याभावात्, गगनोदुम्बरकुसुमवत् । ततश्चात्यन्तनिरुपाख्यत्वात् स्ववचनाभ्युपगमानुमानप्रत्यक्षविरोधा अपि।
5 'पृथिवी घटो भवति' इत्यत्र यदि विशेष एव भवति तहि सामान्यस्याभावे विशेषोऽपि नास्त्येव। असति च विशेषे कुतः सामान्यस्यासत्प्रधानोपकारिता ?
विधि-नियमसर्वभङ्गवृत्त्यात्मकैकंतत्त्वाधिकारे वर्तमान उभयनियमभङ्गारदर्शनेऽप्यपरितुष्यत उत्तरन यस्य नियमभङ्गस्योत्थानम्। तस्मिस्तु दूषिते स्वमतप्रदर्शनं युक्तमिति तद्रूषणार्थमाह--यदि भेदप्रधानो भाव इत्यादि यावद् धर्म-मिस्वरूपविरोधः । यद् ‘भेदो भवति प्राधान्येन, अन्वयोऽ- 10 स्योपसर्जनम्' इत्युक्तं तत्र तमेवंविधं भावमवधारयामः-कथमसौ ? इति, स त्वयेष्टोऽन्वयो भावो ४७७-१ भवितुर्भेदस्य क्रिया भेदातिरेकेण भवितारं कर्तारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थो निश्चयो (ये?) । कस्मात् ? अस्वतन्त्रत्वादकर्तृत्वादभविता, अभवितृत्वादसन् खपुष्पवत् । तस्य अन्वयस्य भावस्य अभावे भेदा एव विप्रकीर्णा भेद्यवस्तुरहिताः स्युः। ततश्च भेत्तव्यस्यान्वयस्याभावाद् भेदा अपि न भवितुमर्हन्ति । 'भिद्यमानो हि भेदः, कुतो भिद्यतेऽसौ निर्भेद्यत्वात् खपुष्पवदिति भेदाभावाद् धर्म- 15 धर्मिणोः स्वरूपाभावे 'अन्वयोपसर्जनो भेदप्रधानः शब्दार्थः' इत्येतद् वाक्यं निराकृतधर्ममिस्वरूपकं संवृत्तम् । तदुपसंहृत्य साधनमाह-घटादिभेदाभावः, भेत्तव्याभावात, गगनोदम्बरकसमवदिति । उभयोभत्तभेत्तव्ययोरभावः, न गगनकुसुमादुम्बरकुसुम मदुम्बरकुसुमाद्वा गगनकुसुमं भेत्तु भेत्तव्यं वेति दृष्टान्तः, तथा उपसर्जनप्रधानयोः सामान्य-भेदयोरिति दार्शन्तिकोऽर्थः । ततश्चात्यन्तेत्यादि । इत्थं निरुपाख्यत्वाच्छून्यत्वापत्तौ स्ववचना-ऽभ्युपगमा-ऽनुमान-प्रत्यक्षविरोधा अपि प्राप्ताः, ते 20 चानिष्टा इति ।
किञ्चान्यत्, 'पृथिवी घटो भवति' इत्यत्र निर्धार्यम्-किं पृथिवी भवति न घटः, उत घटो भवति न पृथिवी, उभयं वा भवति, न भवति ? इति । तत्र यदि विशेष एवेत्यादि, सामान्यस्योपसर्जनस्याभावे विशेषोऽपि नास्त्येवेतीदानीमेवोक्तत्वादसति च घटे विशेषे कुतः सामान्यस्यासतोऽ
१ कतत्वाधि भा० । °कत्वाधि° य० ।। २ दृश्यतां पृ० ७३७ पं० २॥ ३ (ऽनिश्चयाय?) (निश्चयेन? ) (निश्चेयः ?) (निरुपाख्यः?)॥ ४ विद्यमानो प्र०॥ ५ निरूपणाख्य य० ॥ ६ विशेषणोवे नास्त्ये' य० ।। ७ पृ० ७३८ पं०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org