________________
७४१
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[नवमे नियमारे खपुष्पवदेवाविशेष इति पूर्वोक्तवदाविर्भावादिभेदानुपपत्तिविरोधाः।।
ननु विशेषः प्रत्यक्षत एवोपलभ्यते। दृश्यमानत्वेऽपि तथा तस्याभवनादसत्त्वं दृष्टम्, यथा मृगतृष्णिकागन्धर्वनगरयोः। मृगतृष्णिकागन्धर्वनगरयोहि प्रत्यक्षत्वेऽपि शीतादिविशेषासत्त्वादसत्त्वं दृष्टं तथा विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वम् । 5 अथोच्येत-शीतादिर्जीवाजीवादिश्च विशेषो मृगतृष्णिकासलिले गन्धर्वनगरे च नास्तीति विशेषासत्त्वात् स्यादसत्त्वम्, नावश्यं विशेष विशेषैर्भाव्यं यतो विशेषासत्त्वादसत्त्वं कल्प्येत । यदि स्युविशेषे विशेषा अविशेष एव स्यात्, विशेषवत्त्वात्, सद्रव्यपृथिव्यादिसामान्यवत् ।
अपि च वयमप्येतदेव ब्रूमः-अन्वय एव स्यादिति । स च नास्ति खपुष्पवत् ।
10 घटादिविशेषजातमपि । तत्प्राधान्याद् विशेषस्य भावानुरोधात् सामान्योपसर्जनविशेषप्रधानप्रति[ज्ञा]हानिः । एवं तावद् घटो भाव इत्ययुक्तम् ।
स्यान्मतम्-घटस्य भावो विशेषस्य सम्बन्धिनः सम्बन्धषष्ठया। यथा घटस्य विनष्टस्य कपालान्यभावस्य भावहेतुत्वान्निरुद्धस्य, कपालानि हि घटनिरोधहेतुकानि उत्पद्यन्ते तदुपकारित्वात् । किमिव ?
यथाङ्कुरस्य बीजं निवर्तमानमुपकारीति । एतच्च नाप्यस्य भावः । कस्मात्? ततश्चासत्वाविशेषात 15 खपुष्पवदेवाविशेष इति पूर्वोक्तवदाविर्भावादिभेदानुपपत्तिविरोधा इत्यनेनातीतं ग्रन्थमतिदिशति यदेतदसत्त्वं नाम त्वया क्वचिद् मन्यते ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात, घटपटवत् । विकल्पासामर्थ्य चासत्कार्ययोरित्यादि यावत् स्ववचनादिविरोधोपसंहारेण विशेषविरोधोऽप्रयोग
प्रसङ्गात् स्वरूपविरोध इति । ४७१-१ आह-ननु विशेष इत्यादि । सामान्योपसर्जनो विशेषः प्रत्यक्षत एवोपलभ्यते । तस्माद् दृष्ट20 विरुद्धेयं कल्पनेति । अत्रोच्यते-दृश्यमानत्वेऽपि प्रत्यक्षव्यभिचारप्रदर्शनसाधनम् । यथा दृश्यते तथा
तस्याभवनादसत्त्वं दृष्टम्। यथा मृगतृष्णकेत्यादि दृष्टान्तः । तद्वयाख्या-मृगतृष्णिका-गन्धर्वनगरयो_त्यादि, भवनस्य पृथग्भावेन भवनात् परमार्थसत्त्वात् सलिल-नगरयोरसत्त्वं दृष्टं यथा तथा सामान्योपसर्जनतायां विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वमिति ।
___ अथोच्येत त्वया शीतादिरित्यादि । मृगतृष्णकासलिले शीत-मृदु-द्रवतादिविशेषाभावात् गन्धर्व25 नगरे दृश्यमानजीवाजीवत्रिशेषधर्माभावात् स्यादसत्त्वम् । नाऽवश्यं विशेषे घटादौ पृथिवी[वि ]शेषाणा
मश्मसिकतादिभदैर्भाव्यं यतो विशेषासत्त्वं कल्प्येत । यदि स्युविशेषे विशेषा अविशेष एव स्यात्, सामान्यमेव अन्वय एव स्याद् विशेषो विशेषवत्त्वात्, सैद्रव्यपृथिव्यादिसामान्यवत् ।
अत्राचार्य आह-अपि च वयमप्यतदेव ब्रूमः-अन्वय एव अविशेषं सामान्यमेव स्यादिति । १ इत्यतयुक्तम् प्र० । (इति न युक्तम् ? ) ॥ २ द्धस्था प्र० ॥ ३ धादित्यने य० ॥ ४ दृश्यतां पृ० १६० पं० ४-१० १६१ पं० १। तुलना-पृ० ४३० पं० १ ।। ५ पृ० १७१ पं० ३ ।। ६ पृ० १७२ पं०३ ।। ७ (परमार्थतोऽसत्त्वात् ? ?) ॥ ८°नगरसत्त्वं भा० ॥ ९स्य च प्रत्य भा० ॥१० क्षत्वेव्यस प्र० ॥ ११ घटाघटादौ प्र० । 'घटपटादौं' इत्यपि भवेदत्र पाठः ।। १२ सद्रव्यपृथि भा। सद्रव्यत्वपृथि य० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org