________________
७४२
सामान्योपसर्जनस्य विशेषस्य निराकरणम्] द्वादशारं नयचक्रम् आकृतिविशेषनिवृत्तौ निर्वृत्तिघटादीनां रूपादीनां च ।
मृगतृष्णिका त्वाकृतजलविशेषापि किं शीतादिभेदा न भवति? भावाभावादेव । यथा चासौ तथा घटादिविशेषोऽन्वयभावाभावान्नास्ति । यदि विशेष एव प्रधानं स्यात् सलिलभावानन्वितं मृगतृष्णिकादिवद् घटाद्यप्यसत् स्यात्, निरुपाख्यत्वात् 'इदं तत्' इति नोपाख्यायेत। ततो न किञ्चित् स्यात् पृथिव्यादिसामान्येनानुपष्टब्धत्वात् 5 खपुष्पवत्।
तथा कस्मादुदकादिना न व्यज्यते पृथिवी विभिन्नेन? अत्यन्तवैलक्षण्याद्वा कश्चिदेवावाच्योऽर्थः कस्मान्न स्यात्, अन्वयरहितत्वात ?
अत एव च जीवकर्मसम्बन्धसन्तत्याख्यान्वयाभावात् संसारमोक्षाद्यनुपयदि तथा भवनेन विशेषेणाऽऽकृत्याख्येन विना भवेदन्वयो विशेष एव निःसामान्यः, स च नास्ति खपुष्प- 10 वत् । नापि सामान्यमेव निर्विशेषं '*घटादि, किं तहि? आकृतिविशेषनिर्वृत्तौ निर्वृत्तिघटादीनां सामान्यभवनस्य विशेषात्माभिव्यक्तेः, तथा रूपादीनां रूप-रस-गन्धादिविशेष घटावस्थानात् आक्रियमाणविशेषस्य तथा तथा वस्तुनो भवनात् ।
तद्वैधयं मृगतृष्णिकायामित्यत आह-मृगतष्णिका त्वाकृतजलविशेषापि किं शीतादिभेदा न भवति ? इति कारणनिर्णयार्थ प्रश्नः । व्याकरणं चास्य भावाभावादेव। यथा चासाविति यथा 15 मृगतृष्णिकादिर्भावाभावान्नास्ति तथा घटादिविशेषोऽन्वयभावाभावान्नास्ति। परस्य तु दोषः-यदि ४७९-२ विशेष एव प्रधानं स्यात् सलिलभावेत्यादि सलिलभवनेनानन्वितं घटाद्यपि मृगतृष्णिकाकल्पमसत् स्यात् निरुपाख्यत्वात्, उपाख्या हि भवनप्राणिका, किमित्युपाख्यायेतेत्यत आह-इदं तदिति नोपाख्यायेत 'पृथिवी' इति 'द्रव्यं सद् घटः' इति वा । ततः किम्? न किञ्चित् स्यात्, कस्मात्? पृथिव्यादिसामान्येनानुपष्टब्धत्वात् खपुष्पवत् ।।
किञ्चान्यत् तथा कस्मादित्यादि । यदि विशेषः सामान्यनिरपेक्षः स्यात् ततो यथा 'घट:' 'पट:' इति वा विशिष्टया वृत्त्या पृथिव्यादि व्यज्यते तथोदकज्वलनानिलाकाशादिना कस्मान्न व्यज्यते पृथिवी विभिन्नेन अत्यन्तमन्यस्य पृथिवीद्रव्यस्य वैलक्षण्याद्वा सर्वस्य द्रव्यगणस्य व्यतिरेकेण निरन्वयो निरुपाख्यः कश्चिदेवावाच्योऽवेद्यरूपोऽर्थः कस्मान्न स्यात्, अन्वयरहितत्वात् ?
अत एव चेत्यादि । यस्मादन्वयरहितस्य निरुपाख्यस्याभावस्तस्माद् मिथ्यादर्शनादिप्रत्ययजीव- 25 कर्मसम्बन्धसन्तत्याख्यान्वयाभावाद् नरकादिगतिविशेषसुखदुःखफलाख्यसंसारविशेषार्थप्रवृत्तयोः पुण्यपापकर्मणोरनुपपत्तिः, तदनुपपत्तेः संसारानुपपत्तिस्तत्प्रतिपक्षसम्यग्दर्शनादिपरिणामविशेषानुपपत्तिः, तत
१ * * एतच्चिह्नान्तर्गतो घटादि इत्यत आरभ्य विशेष इत्यन्तः पाठो य० प्रतौ नास्ति ।। २ षनिवृत्तौ भा० ।। ३ अक्रिय प्र०॥ ४ षणस्य य० ॥ ५ वासौ प्र० ।। ६ प्राधान्यं भा० । 'विशेषे एव प्राधान्यं स्यात्' इति यद्यर्थस्तदा भा० प्रतिपाठोऽपि सङ्गच्छते ।। ७°ख्यायेत्यय प्र० ॥ ८ नोपाख्यायन भा० । नोपाख्येयेन य० ॥ ९ पथिवीविभिन्नेन' इत्यपि योजना भवेत् ॥ १० मन्यस्था प्र० । "मन्यस्मात्' इति पाठोऽत्र समीचीनः सम्भाव्यते ।।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org