________________
७४३
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[नवमे नियमारे पत्तिः, अनियततथाप्रवृत्तेः। सत्यां च तथानियतप्रवृत्तौ 'पृथिवी घटः' इत्यन्वयप्राधान्यमेवैषितव्यम्, विशेषस्तु पृथिवीमनुवर्तते । लोके प्रधानं ह्यनुवृत्यते, न गुणः।।
सदापि विशेषानुवृत्तेरुक्तवद् नेति चेत्, एतद्वद् विशेषाभावात् ।
अतस्त्यक्त्वेमौ सामान्यविशेषकान्तपक्षौ अवचनीयं वस्तु प्रतिपत्तव्यम् । नाप्यभावं 5 न तदुपसर्जनं न भाव एव नाविशेषं न विशेषोपसर्जनं न विशेष एव नोभयोपसर्जनं नोभयप्रधानं वस्तु। अवचनीयभावविशेषकारणकार्येकानेकप्रधानोपसर्जनं वस्तु।
स्तत्प्राप्यमोक्षानुपपत्तिरपि, ततः शास्त्राभ्यासादिपुरुषकारानुपपत्तिः, अनियततथाप्रवृत्तेः। अथ मा ४८०-१ भूवन्नेते दोषा इति तथानियतप्रवृत्तिरिष्यते ततः सत्यां च तथानियतप्रवृत्तौ जीवकर्मसम्बन्धसंसार
मोक्षादिकायां 'जीवो नारकः संसारी मुक्तः' इत्यादिवत् 'पृथिवी घटः' इत्यन्वयप्राधान्यमेवैषितव्यम्, 10 विशेषस्तु घटः पृथिवीमनुवर्तते जीवत्वं नारकत्वादिः । कस्मात् ? यस्माद् लोके प्रधानं ह्यनुवृत्यते न गुणः, गुणस्त्वनुवर्तते न प्रधानं नीलोत्पलवदिति । सदापि विशेषानुवृत्तेरुक्तवद् नेति चेत्, । स्यान्मतम्-ननूक्तम्
अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते ।
तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥ 15 इत्यादिप्रपञ्चेन विशेष एव सामान्येनाऽनुवृत्यते न विशेषेण सामान्यमिति। [एतच्च न,] एतद्वद् विशेषाभावात्, स एव हि विशेषो नैवास्तीति पूर्वनयेषु बहुधा भावितम् । तस्मान्न विशेषकान्तपक्षः सामान्यं शक्नोत्यत्यन्तं निवर्तयितुं नापि सामान्यकान्तपक्षो विशेषपक्षम्।
अतस्त्यक्त्वेमौ सामान्य-विशेषकान्तपक्षौ वक्ष्यमाणमनन्तरं वस्तु प्रतिपत्तव्यम् । अवचनीयं 'भवनविशेषाभ्यां कारणकार्यत्वाभ्यामेकानेकत्वाभ्यां प्रधानोपसर्जनत्वाभ्याम्' इत्यादिभिर्विकल्पै20 विकल्प्यमानमवक्तव्यतत्त्वं वस्तु भवति । नाप्यभावं निरन्वयम् न तदुपसर्जनं भावोपसर्जन विशेषप्रधानं 'वस्तु' इत्यभिसंबध्यते, न भाव एव निराकृतविशेषः, तथा नाविशेष विशेषशून्यम्,
न विशेषोपसर्जनं सामान्यप्रधानमिति, न विशेष एवाऽत्यन्ततिरस्कृतसामान्यः, नोभयोपसर्जनं ४८०-२ वस्तु अत्यन्तनिराकृतस्वातन्त्र्यसामान्यविशेषम्, नोभयप्रधानमत्यन्तस्वतन्त्रतुल्यकक्षसामान्यविशेषम्,
सर्वविकल्पेष्वेष्वभावापत्तिदोषदर्शनात्। कीदृक् तहि वस्तु भवति ? इत्यत आह-अवचनीयभाव25 विशेषेत्यादिः समासदण्डको गतार्थ उक्तपर्यायविकल्पयुगैलकैः ।
१ नरक प्र० ॥ २ नुवृत्त्यते य० । नुवृर्त्यते भा० ॥ ३ अर्थशब्दावि प्र० । दृश्यतां पृ० ६१६ पं० ३।। ४ एतद्वद्विशेषाभावात् प्र० । अत्र 'एतन्न विशेषाभावात्' इत्यपि पाठश्चिन्त्यः ।। ५ स्त्यक्षेमौ भा० । स्तत्क्षेमौ य० ॥ ६ न्याय्यभावं प्र० ॥ ७ त तदुप भा० । तत्तदुपय० ॥ ८ तविशेषं प्र० ।। ९ सामान्यं प्रधान प्र०॥ १० कल्पोष्वष्वभावा भा०। ल्पोष्वणुभावा' य० । ल्पेष्वभावा इत्यपि पाठोऽत्र स्यात् ।। ११ °लकेः भा०। 'लके य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org