________________
विशेषप्रधानस्य भावस्य निराकरणम् ] द्वादशारं नयचक्रम्
७४४ एवं हि भवति भवनमग्नीन्धनवत् । यथा नैकत्वम् [अग्नेरिन्धनेन सह इन्धनस्याग्निना वा सह] । यदि स्यादेकत्वमग्नेरिन्धनेन दग्धेन्धनवदग्निरिन्धनरहितत्वाद् न प्रवर्तेत, अनिन्धनस्याप्रवृत्तेश्चाभावतैवाग्नः स्यात् । न प्रवर्तेत, एकत्वात्, दग्धेन्धनवत् ।
यथेन्धनमग्निरहितमप्यनुपजाताग्निकं प्रवर्तते तथेन्धनरहितोऽप्यग्निः प्रवर्त्यति सूक्ष्मावस्थ इति चेत्, को वा ब्रवीति 'इन्धनमग्निरहितम्' इति । तदपेक्ष-5
एतस्यार्थस्य भावनार्थमुदाहरणम्--एवं हि भवति भवनमग्नीन्धनवदिति । तत्र तावदग्नीन्धनयोरेकत्वं नानात्वमुभयत्वमनुभयत्वमन्यतरप्रधानोपसर्जनता वा स्यात् ? इति विकल्प्य सर्वथाप्यवक्तव्यतैव इति वक्ष्यमाणो दृष्टान्तार्थः, तद्विकल्पानुपपत्तेः ।
तत्रैकत्वं तावन्न घटत इति ब्रूमः । कथम् ? यथा नैकत्वमित्यादि । तच्चैकत्वमग्नेरिन्धने [न] सह इन्धनस्याग्निना वा सह स्यात्, संयुक्तेऽप्रधाने 'तृतीया, इन्धनमेवाग्निरेव वा स्यात् । तन्न 10 तावदग्नेरिन्धनेन सहैकत्वं घटते,तेन सहैकत्वात् तत्प्राधान्याद् वक्ष्यते दोषोऽसत्त्वम्। यदि स्यादेकत्वमग्नरिन्धनेन दग्धेन्धनवदग्निरिन्धनरहितत्वाद् न प्रवर्तेत, यथा दग्धेन्धनोऽग्निर्न प्रवर्तते तथास्याप्रवृत्तिः। अनिन्धन[ स्याऽ]प्रवृत्तेश्चाभावतैवाग्नेः स्यात् अस्ति-भवति-विद्यति-पद्यति-वर्ततयः सन्निपातषष्ठाः सत्तार्थाः [ ] इति वचनात् प्रवृत्तिसत्तार्थत्वादप्रवृत्तेरसत्तापर्यायत्वात् । तदुपसंहृत्य साधनमाह-न प्रवर्तेत, एकत्वात, दग्धेन्धनवत् । यथा दग्धेन्धनोऽग्निरिन्धनेन सहैकत्वा-15 दिन्धनाव्यतिरेकेणाप्रवर्तमानत्वादेकत्वादप्रवृत्तेरसंस्तथाग्निरिति।
४८१-१ अत्राह-यथेन्धनमित्यादि यावत् सूक्ष्मावस्थ इति चेत् । यथेन्धनमग्निना सहैकत्वेऽप्यनुपजाताग्निकं प्रवर्तमानं दृष्टं तथाग्निरपीन्धनेन सहैकत्वे प्रवर्तितुमर्हति सूक्ष्मावस्थः कार्यानुमेयोऽप्रत्यक्ष इत्यर्थः । तस्मा[द]नकान्तिकत्वादहेतुस्तदेकत्वमिति चेन्मन्यसे, अत्र ब्रूम:--"को वा ब्रवीतीत्यादि। अग्निरहितावस्थायामिन्धनत्वस्यैवाभावाद् विपक्षाभावेऽनैकान्तिकाँभासता। तद्व्याचष्टे-तदपेक्षत्वा-20 दिन्धनत्वस्य दीपनोऽग्निरिन्धन-दीपन-दहन-भस्मीकरणार्थत्वात् तत्परिणतावेवेन्धनम् 'इयंते दह्यते दीप्यते' इति इन्धनमग्नित्वपरिणतावेव एकत्ववादिनो "विशेषेण अतत्परिणता वग्नित्वेन्धनत्वयोर
१ दृश्यतां पृ० ४९२-२ ।। २ व प्र० ।। ३ दृश्यतां पृ० ४८६-२ ।। ४ सहयुक्ते प्रधाने भा० । "५६५ सहयुक्तेऽप्रधाने २।३। १६। सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता। एवं साक-सार्ध-समयोगेऽपि ।"-पा० सिद्धान्तकौमुदी॥ ५ तृतीयेननमेवा य० । तृतीयेनमेवा भा० ॥ ६ त । अग्ने भा० । (तत्र न तावदग्ने ?) (न तावदग्ने ? ॥ ७ दृश्यतां पृ० ४८४-१-२ । तुलना पृ० ४८६-२॥ ८ दग्नत्वउवदग्नि भा० । दग्नेत्वनवदग्नि य० ॥ ९ दृश्यतां पृ० ४८१-२, ४८४-२ ।। १० दृश्यतां पृ० ३४ पं० २११० १९० पं० २३ प० १९९ पं० ७ पृ० ३२४ पं० २७ ।। ११ प्रवर्ततैकत्वात् प्र० । (प्रवर्तते एकत्वात् ?) ॥ १२ त्वादिन्धनात्यव्यति प्र० । त्वादिन्धनतो व्यति' इत्यपि पाठोऽत्र सम्भवेत् ।। १३ दृश्यतां पृ० ४८७-१ ।। १४ यथा प्र०॥ १५ तस्मान्नका य० ।। १६ दृश्यतां पृ० ४८७-१।। १७ कताभा य० ॥ १८ इष्यते य० ।। १९ विशेषणातत्परिणता भा० ॥
सम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org