________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ नवमे नियमारे
त्वादन्धनत्वस्य इन्धनमग्नित्वपरिणतावेव । अदह्यमानमनिन्धनं भवति, कारकाणामेव कारकत्वात् । सूक्ष्मावस्थत्वेन च विशेषावस्था प्राप्तिः सा सामान्यविशेषकार्यकारणगुणप्रधानानामनन्यत्वे सिद्धे स्यात् ।
अत्रोच्येत - अग्नेरिन्धनेन सहैकत्वम् । यद्यप्यग्नेरिन्धनेन सहैकत्वादप्रवृत्तेरसत्त्वं सम्भा5 व्यते तथापि आदिवदिन्धनाग्न्येकत्वाद् न दोष:, दृष्टत्वात्, सहभावश्च द्विष्ठ इति ।
अथ भेदे प्रवृत्तिः कथम् ? कस्मान्नेन्धनमग्निः, दहनैकत्वात्, अन्तवत् ? अन्ते भावात् ञिइन्धी दीप्तौ [पा० धा० १४४९ ] इति स्मृतेविरोधित्वाच्चानिध्यमानस्यानिन्धनत्वम् । अ आह- (अं) दह्यमानमनिन्धनं भवत्यनिध्यमानम् । किं कारणम् ? कारकाणामेव कारकत्वात्, कर्तृ-कर्मादिशक्त्यावेशावस्थायामेव कर्तृकर्मादिकारकत्वं कारकाणामसङ्कीर्णात्मलाभं स्यात्, नान्यथा, 10 सर्वमृद्घटादित्वप्रसङ्गात् ।
र्यैदप्युक्तम् — सूक्ष्मावस्थाग्निरिन्धनरहित इति, तदपि नोपपद्यत इत्येतत्प्रदर्शनार्थमाह-सूक्ष्मावस्थत्वेन चेत्यादि । इन्धनाव्यतिरेकेण दीप्तिसामान्यावस्थस्याग्नेः सूक्ष्मातीन्द्रियेन्धननीला (लोना) - ४८२ -२ ग्निका दीप्तिविशेषावस्थाप्राप्तिर्या त्वयोच्यते एवं गुण्यंवस्थस्य गुणावस्थाप्राप्तिः कार्यावस्थस्य कारणावस्थाप्राप्तिश्च सा सामान्य- विशेष - कार्य-कारण- गुण प्रधानानामनन्यत्वे सिद्धे स्यात् तथा वक्तुं 15 युज्येत, तदपि तु चिन्त्यमेवैतेषामनन्यत्वं सामान्य - विशेषाद्यवस्थयोर्भेदासिद्धेः । सिद्धश्चेद् भेदः कथमग्नीन्धनयोरेकत्वमुच्यते ?
७४५
अथोच्येतेत्यादि । स्यान्मतं तव - नाहं ब्रवीमि अग्नेरिन्धनेन सहेकत्वम्, किन्तु इन्धनस्याग्निना सहेकत्वम् । तद्व्याख्या- यद्यप्यग्नेरित्यादि, सत्यं यथा 'अग्नेरिन्धनेन सहैकत्वेन कृतादेकत्वादप्रवृत्तिर्दग्धेन्धनवत् अनिन्धनस्य अप्रवृत्तेश्वासत्त्वं' सम्भाव्यते दोष: तैथैकत्वेऽसत्त्वदोषसम्भावनायां सत्यामपि 20 अदोषत्वेऽस्ति न्यायः । तद्यथा-- • आदिवदिन्धनाग्न्येकत्वात् इन्धनस्याग्निना सहैकत्वान्न भविष्यति दोषः । कस्मात् ? दृष्टत्वात् दृष्टा हीन्धनेऽनुपजाताग्नि के प्रागव्यक्तस्याग्नेः पश्चाद् व्यक्तिरुत्तराधरयोररण्योर्निर्मथनेन । किञ्च यस्मात् सहभावश्च द्विष्ठ "इति, इतिशब्दस्य हेत्वर्थत्वाद् यथा अग्निना सहेन्धनं भवत्येवमग्निरपीन्धनेन सह भवतीत्यतः प्रागग्न्युत्पत्तेः सत एवाग्नेर्व्यक्तिवदग्नावपीन्धेर्नैस्य सत्त्वमेव, अन्यथा सहभावानुपपत्तेरिति ।
अत्र ब्रूमः–एतदेव त्वं पृच्छयसे - अथ भेदे प्रवृत्तिः कथम् ? अग्नीन्धनयोरेकत्वे को विशेष -
25
२ दृश्यतां पृ० ४८२ -२ ।। ३ यामपि य० ।। ४ दृश्यतां सामान्य य० ।। ७ ( ' मन्य ? ? ? ) । तुलना -पृ० ४८७-२ ।।
१ "त्वशानिध्य य० । 'त्वा सान्निध्य' भा० ॥ पृ० ७४४ पं० ५ ।। ५ दृश्यतां पृ० ४८७ - २ ।। ६° श्च ८ स्थयो भेदा' य० ।। ९ पृ० ७४४ पं० २ ।। १० 'न्धयनेन' भा० । न्धयिनेन य० ।। ११ श्वसत्व प्र० ॥ १२ तथैवकत्वे भा० । १३ आदिधदि° प्र० । १४ सहाभावश्च प्र० । ( सहासह भावश्च ? ), दृश्यतां पृ० ४८४ - २, ४८५–१, ४९२ - १॥। १५ इति इति इतिशब्दस्य भा० ।। १६ नरस्य प्र० ।। १७ नुत्पत्ते' य० । १८ दृश्यतां पृ० ४८८-२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org