________________
७४६
अग्नीन्धनयोरेकत्वनिराकरणम्
द्वादशारं नयचक्रम् वेन्धनत्वापत्तिरग्नेः, इन्धनकत्वात्, प्राग्वत् ।
विकल्पाच्चैकत्वव्याघातः। एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति । मथनक्रियाधारकरणाद्यनुपपत्तेश्च।
अथापि कथञ्चिदेकत्वं तथापि एकम् 'एकमेव' इति न वक्तव्यम्, एकत्वात्, एकदेवदत्तहस्ताद्यनेकत्ववत् । हस्तोऽप्येक एवेति न वक्तव्यः, अगुल्याद्यनेकत्वात्। अङ्गुलि-5 रपि पर्वादिबहुत्वात् । पर्वापि स्कन्धबहुत्वात् । स्कन्धोऽपि परमाणुबहुत्वात् । यावदणो रूपाद्यनेकत्वात् । रूपादेः प्रतिक्षणमन्यत्वात् । प्रतिक्षणैकस्यापि अत्यन्तानेकत्वात् ।
हेतुर्येन ‘सहभावस्य द्विष्ठत्वात्' इत्युच्यते त्वया ? अत्रानिष्टापादनसाधनमपि तद्यथा-कस्मान्नेन्धनमित्यादि । इतरेतरैकरूपापत्त्यभ्युपगमाद् व्यक्तेन्धनाग्नित्वाभ्यामरण्यवस्थायामिव ज्वालावस्थायामिव ४८२-१ च इन्धनमग्निर[ग्निर]पोन्धनमेव स्यात् । तत्र तावदिन्धनमग्निरेव स्यात्, दहनकत्वात्, अन्तवत् 10 अन्तकालवत् केवलाग्निकालवत् ज्वालाङ्गाराद्यवस्थावदित्यर्थः । अन्ते वेति तद्विपर्ययेण इन्धनत्वापत्तिरग्नेर्वालाद्यवस्थस्य इन्धनैकत्वात् प्राग्वत् अरण्यवस्थावत्, अनिष्टं चैतत् ते।
किञ्चान्यत्-विकल्पाच्चैकत्वव्याघातः। 'इन्धनेन सहाग्निरेकः, अग्निना सहेन्धनम्' इति विकल्पाभ्युपगमादेकत्वप्रतिज्ञाहानिः, भेदे हि सत्येतौ विकल्पौ युज्येते, तदेकत्वे विकल्पानुपपत्तेः। अतस्तद्दर्शयन्नाह-एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति विकल्पानुपपत्तिप्रदर्शनं गतार्थं 15 पुरुषाद्येककारणमात्राद्वैतवादिनामिवेति। किञ्चान्यत्, एकत्वे मथनक्रियाधारकरणाद्यनुपपत्तेश्च 'एकत्वव्याघातः' इति वर्तते, 'अधरारणिराधारो मथनक्रियायाम्, करणमुत्तरारणिः, अतः 'कर्म' इत्येवमादिकारकव्यापारादिभेदः सर्वो लोकप्रसिद्धो नोपपद्यते, अग्नीन्धनयोरेकत्वात्, आकाशमथनाद्यभाववत् । दृष्टश्चैष कारकव्यापारभेदव्यवहारः, तस्मादयुक्तमेकत्वम् ।
अथापि कथञ्चिदित्यादि। त्वन्मतानुवृत्त्याभ्युपगम्यापि अग्नीन्धनैकत्वं कथञ्चित् केन- 20 चिन्यायान्तरेण, द्रव्याथिकदिशेत्यभिप्रायः । तथापि यदेकमित्यभिमतं तदेकमिति न वक्तव्यं स्यात्, 'एकमेव' इति न वक्तव्यमित्यर्थः । कस्मात् ? एकत्वात्, यत्रैकत्वं तत्र ‘एकमेव' इत्यवक्तव्यं दृष्टम, एकदेवदत्तहस्ताद्यनेकत्ववत्, यथैक इत्यभिमतोऽपि देवदत्तो हस्तपादाद्यवयवबहुत्वात् 'एक एव' इति न वक्तव्य एवमग्नीन्धनयोरिति दार्टान्तिको वक्ष्यते । हस्तोऽप्येक एवेति न वक्तव्यः, ४८२-२ अगुल्याद्यनेकत्वात्, अङ्गुलि-प्रकोष्ठ-बहिरन्तस्तलादिबहुत्वात् । अगुलिरपि पर्वादिबहुत्वात्, 25
१ दृश्यतां पृ० ७५५ पं० ४ ॥ २ °मात्। व्यत्यक्तेन्धना' भा० । °मात् । व्यक्तत्वेन्धना य० । (°माद् व्यक्ताव्यक्तेन्धना ?) ॥ ३ °यामत्र च य० ॥ ४ दहनकस्यात् य० । दहननकस्यात् भा० ॥ ५ चैतत्व प्र० ॥ ६ दृश्यतां पृ० ७५६ पं० १॥ ७ सदेहं भा० । संदेहं य० । दृश्यतां पृ० ७५६ पं० १॥ ८ तस्मामयुक्त य० ।। ९ तुलना पृ०७५६ पं०३॥ १० नाया भा०। (नया) ॥ ११ तदेहमिति भा० । तदेहमि य० ॥ १२ 'नयोरपि य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org