________________
७४७
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् । [नवमे नियमारे अथ मा भूवन्नमी दोषा इत्यग्नीन्धनयोरन्यत्वमभ्युपगम्यते तेन त_दमापतितम्तस्येन्धनात् पृथग्भूतं रूपमाख्येयं यथान्येषां घटादीनां पटादिभ्यः पृथग्भूतं रूपमाख्यायते। रूपाख्यानमशक्यं कर्तुम्, न ह्यन्यदन्यसाधारणम्, अग्नेरिन्धनं पृथग् निर्देष्टुं न शक्यते सामान्यविशेषकान्यत्वानवस्थिततत्त्वघटपटसंवृतिवत्, अनिरूप्य[माण]स्त्वसन्नापद्येताग्निः,
5 पर्वापि त्वगादिपर्वावयवस्कन्धबहुत्वात्, स्कन्धोऽपि परमाणुबहुत्वात् 'एकमेव इति न वक्तव्यम्' इति वर्तते, यावदणोरिति, मूर्तद्रव्यमेव पर्यन्तावधित्वात् किमणुरेक इति वक्तव्यः ? नेत्युच्यते, अणो रूपाद्यनेकत्वात्, रूप-रस-गन्ध-स्पर्शबहुत्वाद् रूपाद्यात्मकत्वात् । रूपं रसो गन्धः स्पर्शो वा 'एकः' इति वक्तव्यः? नेत्युच्यते, रूपादेः प्रतिक्षणमन्यत्वात्, रूपमपि क्षणे क्षणेऽन्यदन्यदुत्पद्यते विनश्यति
चेत्यन्यत्वादनेकमेकत्वाद् रूपमिति न वक्तव्यम् । एवं रसो गन्धः स्पर्शश्च वाच्य इति । स्यान्मतम्10 देशभिन्नेषु अगुलि-पर्व-त्वग्रूपादीनामनेकत्वात् 'एकम्' इत्यवक्तव्यं स्यात्, कालभिन्नस्तु क्षणिक एक . एव रूपाद्यन्यतमोऽसाधारणोऽर्थः किमिति ‘एक:' इति नोच्यते इति । अत्रोच्यते-प्रतिक्षणैकस्यापि
अत्यन्तानेकत्वात्, क्षणे क्षणे ह्येकः प्रतिक्षणकः, क्षणं क्षणं प्रति वर्तत इति वीप्सार्थकर्मप्रवचनीयत्वात् प्रतेः, सोऽप्यनेकः परस्परासङ्कीर्णरूपः केनचित् कदाचिदसम्बध्यमानत्वादसमानोऽसाधारणः,
असमानश्चानेकः, समानत्वे ह्येकत्वं स्यात् । तस्मादसम्बन्धादसमानत्वादनेकत्वेऽप्यवक्तव्य एव, सम्बद्धो 15 ह्यर्थः सामान्येनोच्येत 'अयं सः' इति 'इत्थमयम्' इति वा । तत्तु नास्ति सामान्यमित्यवक्तव्यः । एवं
तावदेकत्वेऽग्नीन्धनयोरवाच्यत्वमुक्तम् । ४८३-१ अथ मा भूवन्नित्यादि। एतत्पक्षत्यागेन पक्षान्तरपरिग्रहे कारणमाचक्षाणः पक्षान्तरं ग्राहयति
अग्नीन्धनयोरन्यत्वपक्षो निर्दोष इति मन्यमानेनाभ्युपगम्यते चेत् त्वया सोऽपि निर्दोष इति मा मंस्थाः, तेन तीत्यादि, तेन अग्नीन्धनयोरन्यत्वाभ्युपगमेन कारणेन इदमापतितम्-तस्याग्नेरिन्धनात् 20 पृथग्भूतं रूपमाख्येयं घटादेरिवाकाशस्य सौषिर्यम् । निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिध्येच्छक्यं च
प्रतिपत्तुम्--अयमस्मादन्य इति । किमिव ? यथान्येषामित्यादि, अन्येषां घटादीनामैग्नीन्धनादीनामन्येभ्यः पटादिभ्यश्चान्येषाम् । तत्तु त्वया [न] शक्यतेऽग्नेरिन्धनात् पृथग्भूतं तत्त्वं दर्शयितुम् । यस्माद् न हि अन्यदन्यसाधारणम्, हिशब्दो यस्मादर्थे, यस्माद् घटादि पटाद्यन्यसाधारणरूपं न भवति तन्त्वादीनां तस्माच्छक्यते ततः पृथग्भूतेन तत्त्वेन निर्देष्टुम्, न तथेन्धनात् पृथग्भूतमसाधारण25 मॅग्नेस्तत्त्वं घटस्येव जलाहरणादि पटादिविलक्षणं शक्यं वक्तुम् ।
स्यान्मतम्-कथं त्वयाधुना 'घटात् पटोऽन्यः' इति विशेषेण नानात्वेन 'पृथिवी घटः' इति च सामान्यकृतैक्येन निर्दिष्टं रूपम् ? तथाग्नीन्धनयोरपि शक्यत एव वक्ष्यमाणं दाह्यदाहकत्वादीति ।
१ मूर्ति भा० ॥ २ चेत्यन्यन्यत्वा भा० ॥ ३ पृ० ७४६ पं० ४ ॥ ४ पृ० ७५६ ५० ५ ॥ ५ मन्यमानोभ्युप य० ॥ ६ सोऽपि र्दोष भा०। सोऽपि दोष य० ॥ ७ पृ० ७५६ पं० ६, पृ. ४९५-१ ।। ८ पत्तुमदस्माद प्र०॥ ९ (°मग्नीन्धनादिभ्यः पटादिभ्यश्चान्येषाम् । न तु त्वया शक्यते ? ) ॥ १० °मग्नस्तत्रं भा० । °मग्नः सूत्रं य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org