________________
७४८
अग्नीन्धनयोरन्यत्वनिराकरणम्]
द्वादशारं नयचक्रम् अनिन्धनत्वेऽरूपत्वात्, खपुष्पवत् ।
अथोच्यत-यदेतज्ज्वाला देशे। तद्वा कुतोऽनिन्धनम् ? यदि स्यादनिन्धनोऽग्निः सततमेव निरवशेषदग्धेन्धनोऽपि भवेत्, अग्नित्वात्, ज्वालावत् ।
अथोच्येत-यद्यप्यग्नेरिन्धनेन सहान्यत्वं नास्ति तथापि इन्धनस्य अग्निना सहान्यत्वमस्ति दृष्टत्वात् । दृष्टं हीन्धनमग्निविनाभूतमपि यथेन्धनमाहरति काष्ठमाहरतीति। 5
तद्विषय एवैष उपचारः। तदन्यत्वे स नैव स्यात् । अत एव तु इन्धनत्वं सिध्यत्यु
अत्रोच्यते-न मम किञ्चिदवक्तव्यवादिनः सामान्य-विशेषाधेकत्व-नानात्वाभ्यां व्यवस्थितमस्ति वस्तु किञ्चित्, कि तर्हि ? त्वन्मतानुवृत्त्या प्रतिपादनार्थं संवृत्या 'सामान्य-विशेषकत्वान्यत्वाभ्यां पृथिवीघटपटवत्' इत्युदाहियते, न मन्मतेन, मन्मतेन तु तावनवस्थिततत्त्वावेवेति तत् प्रदर्शयन्नुदाहरति-४८३-२ सामान्यविशेषेत्यादि, सामान्य-विशेषयोरेकत्वान्यत्वाभ्यामनवस्थितं तत्त्वं ययोस्ताविमौ घटपटौ 10 सामान्यविशेषकान्यत्वानवस्थिततत्त्वघटपटौ, तयोः संवृतिः उपचारः, अभ्युपगत्य परकल्पनेन उदाहरणम्, तया तुल्यं संवृतिवत, यथा संवृत्या घटपटाविष्टावपि असाधारणरूपौ निर्दिश्यते न तथाग्नीन्धने इत्यर्थः। तस्मादनिरूप्योऽनिरूप्य[माण]स्त्वसन्नापद्यत अग्निः, कस्मात् ? अनिन्धनत्वे सति अरूपत्वात् खपुष्पवत्, उपादानस्वरूपात् पृथनिरूपितात्मरूपत्वादित्यर्थः । घट-पटादिष्वप्येतत् साधनम्-अमृत्त्वे सति अरूपत्वाद् घटोऽसन् खपुष्पवत्, अतन्तुत्वे सति अरूपत्वात् पटोऽसन् खपुष्पवदि-15 त्यादि योज्यम् ।
अथोच्येत-यदेतज्ज्वाला देशे। अथाचक्षोथास्त्वम्-इन्धनात् पृथगग्नेरस्ति रूपम्, तद्यथाज्वाला गगनदेशे। तस्माद् मयाऽऽख्यातं ते पृथगिन्धनादग्निरूपम् । तस्मादरूपत्वासिद्धे सत्त्वमिति । अत्र ब्रूमः-तद्वा कुतोऽनिन्धनम् ? यत्तज्ज्वालारूपमग्नेर्गगनदेशे तदपीन्धनसहितमेव, अग्नित्वपरिणतेन्धनपुद्गलानामाकाशदेशेऽवस्थानाज्ज्वालाधृतेः । न ज्वाला अनिन्धना, अग्नित्वात्, अङ्गाराद्य- 20 ग्निवत् । वैद्युतस्यापि उदकेन्धनत्वान्नानैकान्तिकत्वम् । अतोऽग्निरिन्धनात् पृथग्भूतो नास्ति । यावच्चेन्धनं तावदेवाग्निः, निष्ठितेन्धनो विध्यात इत्युच्यते । तस्मान्नेन्धनात् पृथगग्निर्वक्तुं शक्यः। एवमनिच्छतो दोष उच्यते-यदि स्यादनिन्धनोऽग्निः सततमेव निरवशेषदग्धेन्धनोऽपि मुर्मुराद्यवस्थो-४८४-१ त्तरकालमपि भवेत्, अग्नित्वात्, ज्वालावत् । अनिष्टं चैतत् । एवं तावत् पूर्वोक्तैकत्ववदिन्धनेन सहाग्नेरन्यत्वं न वक्तव्यम् ।
25 ____ अथोच्यतेत्यादि विकल्पान्तरं पूर्ववत् । इन्धनस्यान्यत्वं हुतवहात्, दृष्टत्वात्, लोके हि दृष्टम्इन्धनमाहरति काष्ठमाहरतीति, न हि दृष्टाद् गरिष्ठं प्रमाणमस्ति। ग्रन्थश्च यद्यप्यग्नेरित्यादि यावदाहरतीति गतार्थः पूर्वपक्षः । अत्रोत्तरम्-तद्विषय एवष उपचारः, अग्नित्वपरिणतिकाल
१ षादेकत्व य० ॥ २१० ७५७ पं० १ ॥ ३ पृ०७५७ पं० ३, ४९५-१॥ ४ त्वसिद्ध प्र० ॥ ५ यत्वज्वाला भा०। यत्र ज्वाला य०॥ ६ पृ० ७५७ पं० ३ ॥ ७ दाहतीति भा० । दाहेतीतिय० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org