________________
७४९
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[नवमे नियमारे पचारतः, गौणस्य मुख्यमूलत्वात् । निइन्धी दीप्तौ [पा० धा० १४४९] इति दीप्तिस्वभावोऽग्निरेवेन्धनम् । पूर्वोक्ताच्च तवृत्तित्वात् स्वात्मवद् नान्यत्वम्।
काष्ठशब्दव्यवहारेऽपि अग्निकाष्ठयोरन्यत्वव्याघातः। यदायं तदा ततोऽन्यो नास्ति । ननु यदैव काष्ठमनग्निकं दृष्टं तदैवान्यत्वम् । अथाभेदवृत्तिरन्यत्वे न प्राप्नोति ।
5 सिद्धयथार्थन्धनत्वं मुख्यमपेक्ष्य तद्विषयमग्न्यपरिणतेऽपि दारुणि इन्धनत्वमुपचाराद् भवति । तदन्यत्वे अग्नीन्धनान्यत्वे स उपचारो नैव स्यात्, मुख्येन्धनाभावात्, खरविषाणतीक्ष्णकुण्ठादिसाधाभावे तदुपचाराभावात्।
___ अत एव त्वित्यादि । अग्निपरिणतदारुमुख्येन्धनत्वादेव तदपरिणतावपि इन्धनत्वं सिंध्यत्यपचारतः, कस्मात् ? गौणस्य मुख्यमूलत्वात्, सिद्धे हि मुख्ये सिंहे शौर्य-क्रौर्यादितत्साधाद् माणवकः 10 सिंह उच्यते नासति मुख्य सिंहे । चित्रकरादिवद्वा, चित्रालेखनादिक्रियापरिणत्यवस्थालब्धचित्रकरत्वव्यपदेशो नासति तत्क्रियापरिणामे। तस्याग्नित्वपरिणतावेवेन्धनत्वसंवादिनीं स्मृति ज्ञापिकामाह-जिइन्धी दीप्तौं [पा० धा० १४४९] इति, ननु स्मरन्त्यभियुक्ताः वैयाकरणाः शब्दार्थसम्बन्धज्ञा दीपन
इत्यग्निम्, दीप्तिस्वभावोऽग्निरेवेन्धनं दीप्त्यर्थत्वादिन्धेः । ४८४-२
___किञ्चान्यत्, पूर्वोक्ताच्च तेवृत्तित्वात् स्वात्मवद् नान्यत्वम् । यथा प्रागेकत्वे यद्यग्नि15 रिन्धनेन सहकः स्यात् ततो दग्धेन्धनवदेकस्याप्रवृत्तेरभावतैव स्यादित्यादि ग्रन्थोक्तेन न्यायेनकत्वं निषिद्धं यावत् संहासहत्वद्विष्ठत्वादिति, तथा अन्यत्वे दग्धेन्धनवदन्यस्याप्रवृत्तेरभावतैव स्थादित्यादिस्तल्यार्थगमविशेषेण ग्रन्थो योज्यः, अन्यत्वेऽप्यभावापत्तिसाम्यात् । स्वात्मवद् नान्यत्वमिति, अग्निस्वात्माऽग्नेर्यथान्यो न भवति तथा तदिन्धनमपि, तद्वत्तित्वात, तस्य वृत्तिस्तवृत्तिः, सैव
वा वृत्तिस्तद्वृत्तिः, तद्वृत्तिरेव वृत्तिरस्य तद्वृत्तिरग्निः, दीप्तिरेवेन्धनत्ववृत्तिः, दीप्तिरूपवृत्तित्वादग्नि20 रेवेन्धनमग्न्यात्मवत् । अदह्यमानं हीन्धनमेव न भवति कारकाणामेव कारकत्वादित्यादि व्याख्यातत्वात् । एवं तावदिन्धनोदाहरणेऽग्न्यन्यत्वव्याघात उक्तः ।
काष्ठोदाहरणेऽपि तद्यथा-काष्ठशब्देत्यादि। काष्ठशब्दव्यवहारेऽपि अग्निकाष्ठयोरन्यत्वं व्याहन्यते, तद्यथा-यदायमित्यादि, काष्ठेन्धनोऽग्निस्ततोऽन्यो नास्ति स्वेन्धनात् । वैद्युतोऽप्युदकेन्धन
पृथग्भूतो नास्ति। अत्राशङ्का--ननु यदैव काष्ठमनग्निकं दृष्टं तदा तेना[ग्निना]विना दृष्टत्वा25 दन्यत्वसिद्धिरिति। अत्र वयं ब्रूमः-अथाभेदवृत्तिः दृष्टा हीयमभेदवृत्तिः 'दीप्यमानं काष्ठमिन्धनम्'
१°भाववत् इति पाठोऽत्र समीचीनो भाति ।। २ सिध्यन्नुपचारः य० ॥ ३ सौकर्यादि य० ॥ ४ दिन्धः प्र० ॥ ५ तद्वत्तित्स्वात्मवद् प्र०॥ ६ पृ० ७४४ पं० २ ॥ ७ पृ० ७४५ पं० ५॥ ८ स्तुत्योर्धगम भा० ॥ ९ वृत्तितस्य भा०॥ १०वृत्ति दीप्ति प्र०॥ ११ पृ०७४५ पं० १॥ १२ पृ० ७५८ पं० २ ॥ १३ मनग्नित्वं दृष्टं प्र० ॥ १४ 'तेन विना' इत्यपि शोभनः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org