SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अग्नीन्धनादेरन्यत्वनिराकरणम् ] द्वादशारं नयचक्रम् ७५० कस्मान्नाग्निः काष्ठं काष्ठं वाग्निः प्राग्वत् पश्चाद्वद्वा [त ] दन्यत्वात् ? यदि काष्ठं कथमनग्नि ? का दीप्तौ [ पा० धा० ६४७, ११६२ ] इत्यशेषविरोधाः । दारुण्यपि शोधनावखण्डनार्थयोस्तावत् सिद्धमेव । दान रक्षणार्थयोरसम्भवात् तदर्थ - दारु त्वनुदाहरणम्, अनिन्धनत्वादाकाशवत् । सहासहभवनं द्विष्ठत्वात् सिद्धे ह्यन्यत्वे स्यात् । तत्तु न सिद्धम् । इति सा चाभेदवृत्तिरन्यत्वे न प्राप्नोति, अदीप्यमानाकाशेन्धनत्वाप्राप्तिवत् । कंस्मादित्यादि परस्पररूपापादनेनानिष्टापादनं यथासङ्ख्यं प्राग्वत् पश्चाद्वद्वा [त] दन्यत्वादिति गतार्थं साधनद्वयम् । किञ्चान्यत् -- यदि काष्ठं कंथमनग्निः ? काशनात् काष्ठमग्नित्वमेव काशनाद् दीपनादङ्गनात्, नान्यथा । तस्मात् 'काष्ठमनग्नि तत्' इति स्ववचनविरोधः । तथा 'इन्धनमनग्नि' इत्यपि ४८५-१ स्ववचनविरोधः, यस्मात् काष्ठं नियमादग्निः अग्निरपि नियमात् काष्ठमेवमिन्धनमग्निश्च ततः 10 स्ववचनविरोधः । तद्भावनार्थं तदर्थसंवादिनीं स्मृति ज्ञापिकामाह-- कीश दीप्तौ [ पा०धा० ६४७, ११६२] काशतेरौणादिके कर्तृवाचिनि क्थन्प्रत्यये 'काष्ठम्' इति रूपसिद्धेरित्यस्माद्धेतोरशेषविरोधाः । तथा दृष्टत्वात् प्रत्यक्षविरोधः। लोके रूढत्वाद् रूढिविरोधः । एवमनुमितत्वादनुमानविरोधः । तथाभ्युपगमादभ्युपगमविरोध इति । 5 किं दारुण्यपि शक्यमित्थं भावयितुम् ? वाव् दाने [ पा० धा० १०९१] देव् (ङ) रक्षणे 15 [ पा० धा० ९६२] दो अवखण्डने [पा० धा० ११४८ ] दैप् शोधने [ पा० धा० ९२४ ] इत्येतेषां चतुर्णामन्यतमस्य प्रत्ययान्तस्य 'दारु' इति रूपसिद्धेः । को हि नाम शक्यं न शक्नुयाद् वक्तुम् । शोधनावखण्डनार्थयोस्तावत् सिद्धमेव, दह भस्मीकरणे [ पा० धा० ९९१] एकार्थत्वात् तथापि दानरक्षणार्थयोरसम्भवात् तदर्थदारु त्वनुदाहरणम्, तन्नोदाहरणत्वेन विवक्ष्यते । कस्मात् ? अनि - न्धनत्वादाकाशवत् दीप्त्यर्थासम्भवाद् दारुशब्दस्याविवक्षितत्वाददोषोऽत्र गगनाविवक्षावत् । 20 किञ्चान्यत्, संहासहेत्यादि। सहभवन [म] सहभवनमित्येतद् द्वयमपि द्विष्ठम्, अतो यद्येकं काष्ठम[ग्निना]ग्निर्वा काष्ठेन अथ नाना सर्वथाप्यनयोरन्योन्याविनाभाविनोर्भवति तत्, तत्तु द्वयमेकमन्यदिति वा न शक्यते वक्तुम्, तस्मान्न तदन्यत् । १ कस्माद्वित्यादि प्र० ।। २ ( कथमनग्नि ? ) ।। ३ इन्धनमग्नीत्यपि य० । इन्धनग्नीत्यपि भा० ।। ४ ° श्चे प्र० ।। ५ ज्ञापका' भा० । ज्ञापक य० । ६ का प्र० ।। ७ यन्प्र० प्र० । हनि कुषि - नी-रमि- काशिभ्यः क्थन् [ पा० उणादि २२]। हधो विषण्णः । कुष्ठः । नीधो नेता । रथः । काष्ठम् । " - पा० सिद्धान्तकौमुदी ॥। ८ °रशेषः विरोधाः भा० । °रशेषः विरोधः य० ।। ९ लोकेन य० ।। १० कप्रत्य प्र० । “दा धेट् - सि-शद - सदो रुः । ३।२।१५९ । दारुः । धारुः । सेरुः । शद्रूः । सद्रूः । " - पा० सिद्धान्तकौमुदी ॥। ११ त्वमुदाहरणं तत्रोदारुणत्वेन प्र० । १२ पृ० ७९८ पं० ४ ।। १३ एततु । तत्तु प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy