________________
७५१
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[नवमे नियमारे अथापि कथञ्चिदन्यत्वम्, अन्यत् 'अन्यदेव' इति न वक्तव्यम्, अन्यत्वात् हस्ताद्यन्यानन्यदेवदत्तवत्, यावद् रूपादिक्षणान्तरान्यानन्यपरमाणुवत् ।।
अभावस्तहि ते, अग्न्यनग्नित्वव्यावृत्तः, खपुष्पवत् । ननु भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमपि न वचनीयम्। यदि [दाह्यदाहकत्वलक्षणनियमो न स्यात् ततोऽग्निरपि
5 अथापि कथञ्चिदित्यादि । पूर्ववदभ्युपेत्य त्वन्मत्या अन्यत् 'अन्यदेव' इति न वक्तव्यम्,
अन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवत्, हस्ता-ऽङ्गुलि-पर्व-त्वक्-स्कन्ध-परमाणु-रूप-रस-क्षणिकत्वा४८५-२ द्यन्यत्वेऽपि देवदत्त एवैकस्तथा तथा गृह्यते चक्षुरादिव्यपदेशविशिष्टरूपाद्यात्मकघटवत् सम्बन्ध्यन्त
रापेक्षविशिष्टपितृत्वादिव्यपदेशात्मकदेवदत्तवच्च स एवैकः, अन्यथा तदेकत्वाभावे तद्भेदाभावाद्
भेदास्त एव 'अन्ये' इति वक्तुमशक्याः, देवदत्तात्मकत्वाद् घटाद्यात्मकत्वाच्च, तत्प्रतिपादनोपाय10 प्रदर्शनो ग्रन्थः-यावद् रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति भावनोदाहरणं भावितार्थमेवमन्यत्रापि घटादौ भावयितव्यमिति ।
अत्राह-अभावस्तीत्यादि । ते अग्नीन्धने न स्तस्तहि, कस्मात् ? अग्न्यनग्नित्वव्यावृत्तेः, व्यावृत्ताग्न्यनग्नित्वादित्यतः एकत्वेऽग्निरेवेन्धनम् अन्यत्वेऽनग्निः । तथा 'इन्धनानिन्धनत्वव्यावृत्तेः'
इत्यपि भवति हेतुः तत्पर्यायार्थत्वात्, खपुष्पवत्, यथा खपुष्पं नाऽग्नि नग्निः तदेकत्वानेकत्व15 व्यावृत्तेरसच्च तथा अग्नीन्धने (न] स्याताम्, उभयमपि नेत्यर्थः ।
अत्र वयं ब्रूमः-नंनु भिन्नेत्यादि । एतदप्यनुभयत्वं न वचनीयम्, कस्मात् ? भिन्नव्यवस्थानलक्षणत्वात् । भिन्नं विविक्तमसङ्कीर्णं व्यवस्थानं 'काष्ठमेवेदं दाह्यशक्त्यादिलक्षणम्, अग्निरेवायमौष्ण्यदाहकादिलक्षणः' इति, तदेव व्यवस्थानं चिह्न लक्षणमस्य उभयस्य, तद्भावाद् भिन्नव्यवस्थानलक्षणत्वात् संवृतिसँद्घट-पटवद् नानुभयत्वम् । तस्माल्लक्षणसद्भावाद् 'नास्ति' इत्यप्य20 वचनीयमेव ।
स्यान्मतम्-दाह्यदहनादिलक्षणत्वासिद्धिः, तल्लक्ष्यधर्म्यसिद्धेरिति। एतच्च न, यस्मात् सिद्धं सत्त्वं धर्म-धर्मिणोरिति तत्प्रसाधनार्थमाह-यदि [दाह्यदाहकत्वेत्यादि। यदि 'दारु दाह्यमेव, दाहको
ऽग्निरेव' इति लक्षणनियमो न स्यात् तयोर्व्यवस्थितस्ततोऽग्निरपि दयेत काष्ठवत्, पच्येत ४८६-१ ओदनवत् पाचकत्वलक्षणाव्यवस्थानात् पाक्यत्वात्, ततो भुज्यत च ओदनवदेव पृथक, अनिष्टं 25 चैतत् । तस्माद् व्यवस्थितं पाचकदाहकत्वादिलक्षणमग्नेः । तथेन्धनमपि दाह्यपाक्यादिव्यवस्थितभिन्नलक्षणं यदि न स्यात् पृथगेव दहेद् विनापि अग्निना काष्ठतृणादि संहतम् पचेच्चोदनादिक
१ पृ० ७५९ पं० १॥ २ पृ० ७४६ पं०५ ।। ३ स्तथा मर्थ गाते य० ॥ ४ प०७५९५०३ ॥ ५ तेग्नी' य० । भेऽनी भा० ॥ ६ दित्यः भा० । अत्र दिभ्यः इति पाठोऽपि भवेत् ॥ ७ इन्धननिबन्धनत्व प्र०॥ ८ 'तथा अग्नीन्धने असती स्याताम्' इत्यर्थविवक्षायां [न]' इत्येतदनावश्यकम् ॥ ९ पृ०७५९ पं०४ ।। १० सन्घटप्र०॥ ११ पृ०७५९ पं०४॥ १२ हकश्वेत्यादि भा० ॥ १३ पाक्यदि भा० । पाकादि य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org