________________
अवक्तव्यत्वप्रतिपादनम् ]
द्वादशारं नयचक्रम्
७५२
दह्येत काष्ठवत्, पच्येत ओदनवत्, भुज्येत च पृथक्, तथेन्धनमपि पृथगेव दहेत् पचेच्चोद - नादिकमग्निवदित्यनुभयताप्यवक्तव्यैव । भिन्नव्यवस्थानवृत्तमुभयमस्ति ।
भिन्नव्यवस्थानवृत्तोभयत्वानभ्युपगमे तु सर्वात्मकै कभाव एवात्यन्ताभाव एव वोभ
यत्वं स्यात् ।
अनुभयप्रतिषेधादुभयत्वमिति चेत्, न, अन्यत्वावक्तव्यत्वात् । अन्यत्वप्रतिषेध एकत्वमिति चेत्, न, तस्याप्यवक्तव्यत्वात् । एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जन भावोऽपि प्रतिषिद्ध एव । तस्मात् सर्वथाप्यवक्तव्यतैव ।
मग्निवदग्नित्वादित्यतो दहनमन्तरेणैव पाकः स्यात्, न तु भवति । तदुपसंहरति- इत्यनुभयताप्यवक्तव्यैवेति । अनुभयं चेन्नास्ति उभयमस्ति तर्हि तच्चोभयं भिन्नव्यवस्थानवृत्तम् ।
अथैवं नाभ्युपगम्यते ततो भिन्नव्यवस्थानवृत्तोभयत्वा [न]भ्युपगमे तु प्राप्तं कीदृगुभयम् ? तद्यथा - सर्वात्मकै केत्यादि एकं सर्वात्मकं नित्यं सर्वगतमनुत्पादव्ययं काल-नियति-स्वभावप्रधान-पुरुषादीनामन्यतमद् भाव तत्त्वमर्सेदली कनिरुपाख्यमवस्तु अत्यन्तासत् खपुष्पादि वेत्येतदुभयं स्यात्, एकत्वान्यत्वानुभयत्वाभावे गत्यन्तराभावात् । तच्च न भवति, निष्ठितत्वादेषां पक्षाणाम् ।
5
अनुभयप्रतिषेधादुभयत्वमिति चेत् । स्यान्मतम् - अनुभयमुभयाभावोऽसत्त्वम् असत्त्वस्य प्रतिषिद्ध- 15 त्वादुभयं तत्प्रतिपक्षः सती एव द्वे वस्तुनी भवितुमर्हत इति । तदपि न, अन्यत्वावक्तव्यत्वात्, एतदुभयत्वमन्यत्वमेव परस्परभिन्नलक्षणे अग्नीन्धने अन्योन्यस्मादन्ये इति, तच्चान्यत्वं विचारिर्तम्‘असदेव' इति । तस्मादस्याप्यवक्तव्यत्वमसत्त्वात् । अवक्तव्यत्वान्नानुभयत्वप्रतिषेधादुभयत्वम् ।
अन्यत्वप्रतिषेध एकत्वमिति चेत् । स्यान्मतम् - अन्यत्वप्रतिषेधे तर्हि एकत्वमेव सिध्यतीति । ४८६-२ एतच्च न, तस्याप्यवक्तव्यत्वात्, एकत्वस्याप्यसत्त्वस्य उत्पततैव मयोक्तत्वादवक्तव्यतैव । इत्थमेक - 20 त्वान्यत्वोभयत्वानुभयत्वानि प्रतिषिद्धानि ।
10
स्यादाशङ्का–सामान्यविशेषयोरग्नीन्धनयोश्चैकत्वाद्यभावेऽपि अन्यतरप्रधानोपसर्जनतया प्रवृत्ते - तु वक्तव्यतैवेति । एतच्चायुक्तम्, एकत्वाद्ययुक्तिवत् तदयुक्तेरिति तदतिदिशन्नाह - एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जन भावोऽपि प्रतिषिद्ध एवेति । यस्मादेतयोः सामान्यविशेषयोरप्रवृत्तेरग्नीन्धनयोश्चासत्त्वमेवैकत्वान्यत्वपक्षयोरिति प्रतिपादितं तस्मादनयोरसतोः 25 का प्रधानोपसर्जनता खपुष्पवन्ध्यासुतयोरिव ? सा हि सतोरेव स्वामि भृत्ययोर्दृष्टेति । किञ्च, अन्यत्वपक्ष एवैषा प्रधानोपसर्जनता युज्यते स च निषिद्धः । अग्नीन्धनयोश्च प्रवृत्तेरेतावतां गतिः
१ 'उभयमस्तु' इत्यपि सम्यग् भाति । दृश्यतां पृ० ७५९ पं० ६ ।। २ पृ० ७६० पं० १ ।। ३ प्राप्त की प्र० ॥ ४ सदनीहनिरु प्र० ।। ५ पृ० ४९२ - २ ।। ६ 'ततम् प्र० ।। ७ स्वमसत्वमसत्वादव्यक्तव्यानुभयत्वप्रतिषेधावुभयत्वम् भा० । 'त्वमसत्वादव्यक्तव्यच्चानु भयत्वप्रतिषेधावुभयत्वम् य० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org