________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ नवमे नियमारे
एवं यद्येकत्वं विशेषस्य भावेन नान्यता, ततोऽनात्मनो भावस्य खरविषाणवदप्रवृत्तेरभावतैव स्यात् । न प्रवृत्तिः, अनात्मत्वात्, खरविषाणवत् ।
७५३
ननु यथा विशेष एकोऽपि रूपरसादिर्घटपटादिर्वा भावरहितः प्रवर्तते तथा सूक्ष्मावस्थ एकको भावः प्रवर्त्स्यतीति चेत्, को वा ब्रवीति विशेषो भावरहित इति ? 5 विशिष्यते विशेष इति सत एव विशेषत्वात् तदपेक्षत्वाच्च विशिष्यते स तस्मात् तेन वा स इत्यादिना । अविशिष्यमाणोऽविशिषन् वा न विशेषो भवति, कारकाणामेव कारकत्वात् । को वाऽश्वासो विशेष एकैक एव प्रवर्तते इति संवृतिसद्घटपटवत् ?
10
स्याद् यदुत एकत्वं नानात्वमुभयत्वमनुभयत्वमग्न्युपसर्जनमिन्धनप्रधानत्वमिन्धनोपसर्जनमग्निप्रधानत्वमिति, सर्वथापि न घटते, तस्मात् सर्वथाप्यवक्तव्यतैवेति दृष्टान्तवर्णनमिदं कृतम् ।
एवमित्यादि प्रस्तुतसामान्यविशेषादिदान्तिक वर्णनार्थ उत्तरो ग्रन्थः । सामान्यविशेषयोस्तावत् तद्यथा-येद्येकत्वं विशेषस्य घटादेर्भावेन अन्वयेन पृथिव्यादिना, किमुक्तं भवति ? सामान्यमेव निर्विशेषं भवत्येकैमित्यतस्तत्प्रदर्शनार्थमाह - नान्यतेति । ततः किम् ? ततोऽनात्मनो ४८७-१ भावस्य अश्मसिकतामृल्लोष्टवज्रादिघटादिविशेषात्मक लाभ रहितस्यानात्मत्वं पृथिव्यादेः सामान्यस्य, अनात्मत्वाच्च खरविषाणवदप्रवृत्तिः, अप्रवृत्तेरभावतैव स्यात् खरविषाणवदेव । तत् 15 दर्शयति-न प्रवृत्तिरिति गतार्थम् ।
ननु यथेन्धनेत्यादि स एव ननु यथा विशेष एकोऽपि इत्यादिः पूर्वपक्ष: । किन्तु रूपादियुगपद्भाविपर्यायं विशेषवादिनं प्रति सिद्धमुदाहृत्य भाववादी 'त्वन्मते तत्प्रवृत्तिवद् मन्मते 'सूक्ष्मा - वस्थ एकको भावः प्रवर्त्स्यति' इति ब्रूयात् । अत्रावक्तव्यवादी स्वमतेनोत्तरं ब्रूते - को वा ब्रवीतीत्यादि निःसामान्यविशेषप्रवृत्त्यभावापादनेन दृष्टान्तासिद्धि वर्णयति । संत एव विशेषत्वात्, सन्नेव 20 विशेषीभवति सामान्यमेव नासत् खपुष्पादीत्यर्थः । तदपेक्षत्वाच्चेति, रूपं रसाद् विशिष्यमाणं संम्बन्धिरसमपेक्ष्य विशेषो भवति, तथा रसोऽपि रूपम्, "घट- पटौं चाऽन्योन्यम्, नोत्यन्तासत् खपुष्पममपेक्ष्येति। तद्दर्शयति कारकव्याख्यया विशिष्यते स तस्मात् तेन वा स इत्यादिना । कारकत्रये दर्शिते सम्भवीन्यन्यान्यपि कारकाण्यू ह्यानीत्यादिग्रहणम् । अविशिष्यमाणे (ण इ) त्यादि, यदि
१ भयत्वअनु य० । 'भयत्वाअनु° भा० ।। २ पृ० ७६० पं० १७ ।। ३ 'कमित्येत' प्र० । ४ पृ० ७४४ पं० ५ ।। ५ एकोकोपि इत्यादि य० । ( एककोऽपि ? एकैकोऽपि ? ) ॥। ६ इत्यादि य० ।। ७ प्रतिषिद्ध प्र० ।। ८ भावोपपादन य० ।। ९ अत प्र० । पृ० ७५८ पं० १२ ।। १० सम्बन्धरस प्र० ।। ११ घटपटो वा भा० । रसघटो वा य० ।। १२ नासत् प्र० ।। १३ व्याख्याया प्र० ।
१४ पृ० ७५८ पं० १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org