________________
भाव- विशेषयोरेकत्वनिराकरणम् ]
द्वादशारं नयचक्रम्
७५४
सूक्ष्मावस्था प्राप्तिरपि अवयवावयविसामान्यविशेषकार्यकारणानां भेदे सिद्धे स्यात् । तथा च तदनुपपत्तिः, अभावत्वापत्त्यभ्युपगमात् । प्रागभाव - प्रध्वंसाभावात्मकत्वादवस्थयोः सूक्ष्मस्थूलयोः ।
अथा मावत्वमेव भावस्य ततश्च चक्षुरादिलक्षणरूपादीनामाकाशादीनां चोत्पत्तिरसती ।
भावेन रहितो विशेषस्ततो विशेषः' इति निर्देशमेव नार्हेतु, विशिषन्नन्यमन्येन च विशिष्यमाणो विशेषो भवति व्यापारावेशादेव कारकाणां कर्त्रादीनां कारकत्वात्, विशेषण क्रियावेशाभावे ह्यविशेष एव स्यादिति । तस्मात् स्थितमिदम् - सामान्यमेव विशेषः सामान्यापेक्ष ऐव वेति । तथा च कुत: पृथक् प्रवृत्तिविशेषस्य सामान्याविनाभावात् ? को वाऽऽश्वास: ? न मनोरथोऽपि करणीयः - रूपं रसो ४८७-२ ar घटपटादिर्वा विशेष एकैक एव प्रवर्तत इति, त्वेन्मनोरथानुवृत्त्या संवृतिसत्त्वेनाऽभ्युपगतयो - 10 र्घटपटयोरिवान्यत्वप्रतिपत्तेर्निमित्तभूतमिति स्वप्नेऽप्येवं मा संस्था इत्यभिप्रायः ।
सूक्ष्मावस्थेत्यादि । यापि प्राप्तिदिक् का चिन् त्वयोन्नीयते केनचिन्नयान्तरेण 'सूक्ष्मावस्थो भावो विशेषरहित स्तिष्ठति' इति साप्यवयवानामवयविनो विशेषाणां सामान्यात् कारणात् कार्याणां भेदे सिद्धे स्यादिति सम्भाव्येत, नान्यथा । प्रधानावस्था हि सूक्ष्मा सत्त्वरजस्तमसां समता, सा महदादिविषयस्थूला वस्थापेक्षैव, त एव हि गुणाः सूक्ष्माः स्थूलाश्च ते चावस्थे परस्परापेक्षे, सर्पस्फटा - 15 टोपकुटिलगतिस्थितिकुण्डलकीभवनादिवत् सर्पमन्तरेण न ते विशेषा भावं न तानन्तरेण स इति एवं च सूक्ष्मावस्थोक्त्येव त्वयाभ्युपगतं भवति, स च सूक्ष्मतां यान् भावो बाल-युव-मध्यम- स्थविरोद्यवस्थाविशेष एव भवति तद्व्यतिरेकेणानवस्थानात् । तथा च तदनुपपत्तिः, एवं च सति भावस्यान्वयाख्यस्य भावत्वानुपपत्तिः, अभावत्वापत्त्यभ्युपगमात् । कस्मात् ? प्रागभाव - प्रध्वंसाभावात्मकत्वादवस्थयोः सूक्ष्म-स्थूलयोः, यथा घटः प्रागभूत्वा भवति भूत्वा च न भवतीत्यभावात्मकत्वाद- 20 सन्नेव प्राक् पश्चाच्च । एवमसूक्ष्मः सूक्ष्मो भवति पुनश्च न भवति, तथा स्थूलोऽपीत्यभाववादित्वमापन्नं भाववादिनस्तेऽभ्युपगमहानिश्च ।
5
अथ मा भूदभ्युपेतहानिरित्यभावत्वमेव भावस्याभ्युपगच्छसि ततश्च चक्षुरादिलक्षणेत्यादि । यद्यसत्त्वं सामान्यस्येष्टं तस्माच्चासतः सामान्याच्चक्षुरादि [लक्षण] रूपादीनामाकाश। दीनां ४८८ - १ चावस्थाख्यानां विशेषाणां निर्बीजानामुत्पत्तिरसती, रूपस्य चक्षुर्लक्षणम्, आदिग्रहणाच्छ्रोत- त्वग - 25 जिह्वा प्राणानि शब्द - स्पर्श-रस गन्धानां लक्षणानि, लक्ष्या रूपादयः शब्दाद्यात्मकानि चाकाशादीनि भूतानीत्यादिसर्वशास्त्र -लोकगतव्यवहाराभावप्रसङ्गाद् भावस्याभावत्वमपि नाभ्युपगन्तव्यमिति ।
१ एवेति प्र० ।। २ त्वन्मतोरनुवृत्त्या संवृतिसत्येना प्र० ।। ३ पृ० ७४५ पं० २ ।। ४ तावनंतरेण प्र० ॥ ५ ३ 'राव्यव' प्र० ।। ६ गच्छमि भा० । गच्छति य० ।। ७ ततचक्षुश्चरादि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org