SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ७५५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे .. अथोच्येत-विशेषस्य भावेन सहकत्वम् । यदि भावः विशेषान् व्याप्नोति न तु विशेषो भावं तस्माद् विशेषेण सह भावस्यैकत्वं नास्ति, विशेषस्य त्वस्ति भावेन सह भावोपग्रहान्तर्भावितवृत्तेविशेषत्वात् । ___ अथ भेदवृत्तिः कथम् ? कस्मान्न समानभूतः सन्नविशेषरूप एव संवृत्तो भाववत् ? 5 भावो वा विशिष्टत्वाद् विशेषरूपः, तदेकत्वात्, विशेषवत् ? ... अथोच्यतेत्यादि । प्रागग्नीन्धनकत्वे-अग्नेरिन्धनेन सहकत्वे दोषादिन्धनस्याग्निना सहकत्वे दोषाभावं मन्यमानेन यथा परिहारः परेणोच्यते तथेह भावस्य विशेषेण सहैकत्वे दोषाद् विशेषस्य भावेन सहकत्वे दोषाभावं मन्यमानः परिहारमाह-तद्यथा-यदि भावः सामान्यं पृथिवीत्वादि घटपटा दीनश्म-सिकतादींश्च विशेषान् व्याप्नोति, न तु विशेषोऽश्म-घटादिर्भावं पृथिवीत्वं व्याप्नोति एकदेश10 वृत्तित्वात् । तस्माद् विशेषेण सह घटेन पटेन वा पृथिव्या एकत्वं नास्ति, घटस्य त्वस्ति विशेषस्य सामान्येन पृथिव्यादिना भावेन सह । कस्मात् ? भावोपग्रहान्तर्भावितवृत्तेविशेषत्वात्, भावस्य सामान्यस्य उपग्रहेण तेनोपगृहीतत्वात् तस्मिन्नन्तर्भाविता वृत्तिः वर्तनमस्तित्वं विशेषस्य भावात्म रूपापन्नत्वात् कारणाद् विशेषस्य विशेषत्वम् नान्यथा। तस्माद् भावोपग्रहान्तर्भावितवृत्तेविशेषत्वाद् ४४४२ विशेषस्य सामान्येन सहकत्वमस्तु भावाव्यतिरिक्तात्मत्वात्, को दोष इति । 15 एतावत् पृच्छ्यते सामान्यविशेषकत्ववादी समानोपालम्भानिवृत्तेः-अंथ भेदवृत्तिः कथम्? इति । पूर्ववदेव दृष्टा भेदेन वृत्ति के[5]नयोः। तद्यथा-'पृथिवी' इत्यविशेषेण घट-पटादिष्वभिन्ना भावस्य, 'घट पटो न भवति' इति घटा-पटादेभिन्ना विशेषस्य, ते च वृत्ती परस्परविभिन्ने, तयोः कोपपत्तिरेकत्वे परस्पररूपानापत्तौ नानात्वकृतायाम्? इति तद्दर्शयति अनिष्टापादनद्वारेण-कस्मान समान भूतः सन्नविशेषरूप एव संवत्तः? योऽयं घटो रूपादिर्वा विशेषः पटादिभ्यो रसादिभ्यो वा 20 व्यावृत्तोऽपि 'मृद् मृदेव' इत्यव्यावृत्तः समानभूतः स 'सन् सन्, भवति भवति, पृथिवी पृथिवी' इत्येव वा निविशेषः कस्मान्न भाववद् भवति, प्रतिषेधद्वयस्याविशेषानिष्टापादनात्? दृष्टं विशेष समर्थयतिभावो वा विशिष्टत्वाद् विशेषरूपः 'कस्मान्न संवृत्तः' इति वर्तते, तदेकत्वाद् विशेषवत्, मृद्भवनपृथिवीत्वत्यक्तरूपो रूपरसादिविशेष एव कस्मान्न भवति? उभयत्र 'तदेकत्वात्' इति हेतुः । इतरेतरस्वरूपे दृष्टान्तौ । दृष्टा चेयं सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां भेदवृत्तिः । अनिष्टापादन25 साधनं च-भावो विशेष एव स्यात् तदेकत्वात् तत्स्वात्मवत्, विशेषो वा भाव एव स्यात् तदेकत्वात् तत्स्वात्मवत्, मृत् स्याद् घट एव तदेकत्वात् घटस्वात्मवत्, घटो वा मृदेव स्यात् तदेकत्वात् तत्स्वात्मवत् ।। ... १ पृ० ७४५ पं० ६ ॥ २ तेन वृत्ती य० ॥ ३ वृत्ताः भा० । वृत्त्यः य० ॥ ४ सत् प्र० ॥ ५ 'त्वात् स्वात्म य०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy