________________
भाव-विशेषयोरेकत्वनिराकरणम्] द्वादशारं नयचक्रम् ।।
७५६ विकल्पाच्चैकत्वव्याघातः। कुतोऽयं विशेषः- इदं सहेदं न सहेति, द्विष्ठत्वात् सहासहभावस्य, विशेषणक्रियाधारकरणाद्यनुपपत्तेश्च ।
अथापि कथञ्चिदेकत्वं तथाप्येकम् 'एकमेव' इति न वक्तव्यमित्यादि पूर्ववद् यावत् परमाणुवदिति।
अथ मा भूवन्नमी दोषा इत्यन्यत्वं भावविशेषयोः । तत्र यदि भावस्य विशेषेण 5 सहान्यत्वमभ्युपगम्यते तत इदमापतितं तेन तर्हि तस्य विशेषपृथग्भूतं रूपमाख्येयं यथान्येषां घटादोनां पटादिस्यग्भूतं रूपमाख्यायते । रूपाख्यानमराश्यं कर्तुम्, न ह्यन्यदन्य
किञ्चान्यत्-विकल्पाच्चकत्वव्याघातः। एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति ? . 'भावो विशेषेण सहैको न विशेषो भावेन, विशेषो भावेन सहैको न भावो विशेषेण' इत्येतौ विकल्पो - नैकत्वे घटेते, विशेषहेत्वभावात्, अन्यत्व एव च घटेते, द्विष्ठत्वात् सहासहभावस्येति । इतश्च 10 नोपपन्नमेकत्वं भावेन सह विशेषस्य विशेषणक्रियाधारकरणाद्यनुपपत्तेश्च, विशेषणक्रिया कर्तरि विशिषति समवेता विशेष्ये वा कर्मणि पृथिवी-घटादौ, तौ तस्या यथाविवक्षमाधारौ, येन पटादिना विपक्षभूतेन विशिष्यते तत् करणम्, भावस्यैव वा विशेषः यतो विशिष्यते 'घटोऽयं पटादिर्न भवति' इति सोऽर्थोआदानम्, यस्मै विशिष्यते प्रतिपाद्यते स सम्प्रदानं श्रोता इत्येषां कारकाणां क्रियायाश्च विपूर्वशिषिधातुवाच्या या भिन्नार्थनिबन्धनत्वादेकत्वे सत्यनुपात्तिः । दृष्टश्वायं कारकव्यवहारो भेद-15 निबन्धनः । तस्माद् दृष्टत्वादयुक्तमेकत्वम् । ___ अभ्युपेत्याप्येकत्वं न युक्तमेवेति ब्रूमः-अथापि कथञ्चिदित्यादि पूर्ववदेकत्वप्रतिषेधेनावक्तव्यप्रसाधनं तमेव ग्रन्थमतिदिशति पूर्ववद् यावत् परमाणुवदिति सावधिकं सहेतुदृष्टान्तापाद्यावक्तव्यत्वनिष्ठं तुल्यगमकत्वाद् व्याख्यातार्थमेवेति । एवं सामान्यविशेषयोरेकत्वे दोषा उक्ताः ।
एतद्दोषभयात् पक्षान्तरं निर्दोषं मन्यमानश्चेत् परो गृह्णीयात्-अथ मा भूवन्नमी दोषा इति, 20 किं तत् पक्षान्तरम्? अन्यत्वं भाव-विशेषयोः। तत्राप्येकत्ववद् द्वयी गतिः-मावस्य विशेषेण सहान्यत्वं विशेषस्य वा भावेनति । तत्र तावद् यदि भावस्य विशेषेण सहान्यत्वमभ्युपगम्यते तत इदमापतितं दोषजातम्- तेन तर्होत्यादि यावत् संवृतिघट-पटव । दिति तुल्यगमं पूर्ववत् । तस्य भावस्य विशेषपृथग्भूतमितीह सामान्यविशेषप्रस्तुतेविशेष्यते । शेषं तथैव गमनीयं रूपाख्या-४८९-२ नमशक्यं कर्तुमित्यादि । उपसंहारसाधनम्-अनिरूप्यमाणस्त्वसन्नापद्येत, अविशेषत्वेऽरूपत्वात्, 25 खपुष्पवत, [अ]विशेषत्वं भावस्य विशेषादत्यन्तमन्यत्वात् पृथिव्या अश्मसिकताद्यवस्थाविशेषमन्त. १ पृ. ७४६ पं० २ ॥ २ पृ० ४९६-१॥ ३ 'त्याप्येकत्वन्न युक्त' भा० । 'त्याप्येकत्वान्न युक्त य० ॥ ४ पृ०७४६ पं० ४ ॥ ५ त्वनिष्टं प्र०॥ ६ नस्यं भा० । नश्यं य० । पृ० ७४७ पं० १॥ ७ पृ. ७४७ पं०१॥ ८1 एतदन्तर्गतः पाठो य० प्रती नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.