________________
७५७
[ नवमे नियमारे
साधारणम्, सामान्यविशेषैकान्यत्वानवस्थित तत्त्वसंवृतिघटपटवत् । अनिरूप्यमाणस्त्वसन्नापद्येत, अविशेषत्वेऽरूपत्वात्, खपुष्पवत् ।
न्यायागमानुसारिणीवृत्यलङ्कृतम्
अथोच्येत-रूपं पृथग् भावस्य विशेषाद् व्यावृत्तिरूपादनुप्रवृत्तौ । तद्वा कुतोऽविशेषम् ? यदि स्याद् भावो विशेषरहितस्ततो निरवशेषविशेषाभावेऽपि खपुष्पादावनुप्रवृत्तिरूपः 5 रयाद् भावत्वाद् घटादिवत् ।
यद्यपि सामान्यस्य विशेषेण सहान्यत्वं नास्ति तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात् । दृष्टो हि विशेषो भावविनाभूतोऽपि यथा भिन्नो घट इति ।
भावविषय एवैष भेदोपचारः । तदन्यत्वे स नैव स्यात्, अभावत्वात्, खपुष्पवत् । अत एव तत्सिद्धिः; भिन्नसमानाधिकरणस्य मुख्यमूलत्वाद् गौणस्य । पूर्वोक्ताच्च तद्वृत्ति10 रेणास्थानात् तदात्मत्वमनिच्छत एकान्तेनाविशेषत्वम्, अविशेषत्वे सत्यरूपत्वं भावस्य तदतिरेकेणानिरूप्यरूपत्वात् । तस्मादसत्त्वमापन्नं वस्तुनोऽन्यत्वे पृथग्रूपावश्यम्भावात् तदाख्यानाशक्यत्वे चासत्त्वम् । इत्युक्तेऽन्यत्ववादिना अथोच्येत - रूपं पृथग् भावस्य विशेषाद् व्यावृत्तिरूपादनुप्रवृत्तौ 'दृष्टम्' इति वाक्यशेषः । अत्र ब्रूमः - तद्वा कुतोऽविशेषम् ? यदेतद् घटाश्मादिषु पृथिवीत्वानुवृत्तिलक्षणं रूपं तद् विशेषेण विना नैवास्तीति तदवस्थं पृथग्रूपाख्यानाशक्यत्वम् । अभ्युपेत्यापि त्वदनु15 वृत्त्या निविशेषं भावमत्यन्तान्यत्ववादिनस्ते दोषं ब्रूमः- यदि स्याद् भावो विशेषरहितस्ततो निरवशेषविशेषाभावेऽपि खपुष्पादावनुप्रवृत्तिरूपैः स्याद् भावत्वाद् घटादाविव । अनिष्टं चैतत् ।
अथोच्येतेत्यादि । उक्तदोषभयात् 'सामान्यस्य विशेषेण सहान्यत्वम्' इत्येतद् विशेषप्रधान - मन्यत्वं मा भून्नाम तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात् दृष्टो हि विशेषो भावविना भूतोऽपि विशेष एव भावरहितः क्व दृष्ट इति तद्दर्शयति-यथा भिन्नो घट इति, भेदो 20 हि घटस्य प्रध्वंसाभावो विनाशपर्यायः, स च विशेषो भावादत्यन्तविलक्षणो दृष्टश्च अतोऽन्यत्वं विशेषस्य भावादिति ।
४९१-१
अत्रोच्यते - भावविषय एवैष भेदोपचारः । भिदिक्रियाविशेषण विशिष्टावस्थानुभाविनो भावस्यैव घटाख्यस्याव्यवच्छिन्नमृत्पिण्डशिवकादिभवनानुविद्धस्य उत्पन्न-नव-मध्यम- पुराण- विशरणावस्थाक्रमेणावयवसङ्घातजनितात्मलाभस्यायमपि कपालावस्थाविशेषः । तस्मादविनश्व राण्वादिपुद्गल25 सङ्घात-विसङ्घातविषयपरिणामत्वात् 'उत्पन्नो विनष्ट:' इत्याद्युपचारो भावस्यैव नाभावस्य खपुष्पादेः सम्भवति । यदि मन्येथा भावादभेदोपचार इति, स भावादन्यत्वे खपुष्पवद् नैव स्यात्, 'भिन्नः ' ‘उत्पन्नः' इति वीं नोपचर्येत घटः, अभावत्वाद् विशेषत्वात् खपुष्पवत् ।
१ रूपं भावस्य प्र० ।। २ वास प्र० ।। ३ तथा प्र० । पृ० ७४८ पं० १ ।। ४ °रूपस्या भावत्वाद् प्र० ।। ५ पृ० ७४८ पं० ४ ।। ६ पृ० ७४८ पं० ६ ।। ७ उपपन्नो प्र० ।। ८ भावाददोपचार भा० ।। ९ स्थान्न प्र० ।। १० धा तोपच य० ।। अभव' प्र० ।।
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org