________________
भाव-विशेषयोरन्यत्वनिराकरणम्] द्वादशारं मयचक्रम्
७५८ त्वाच्च स्वात्मवद् नान्यत्वम् । भावादन्त्यविशेषस्तु नैव पृथग्भूतः, विशेषत्वात्, घटवत् । यदा चायं भावाव्यतिरिक्त एवोपलभ्यते तदा न कदाचिदप्यभावो भवति खपुष्पवत् ।
ननु यदैव सामान्यमविशेषं तदैवान्यत्वम्, न, अविशेषात् । सिद्धे ह्यन्यत्वे सहासहभवनं द्विष्ठत्वात् स्यात्, तत्तु न सिद्धम् ।
__किञ्चान्यत्, अत एव तत्सिद्धिः । अवश्यं चैतदेवम्-भावविषय एवैष भेदोपचारः, भेदोपचारा-5 देव भेदसिद्धिः, भावादेव वा भेदोपचारसिद्धिः । किं कारणम्? भिन्नसमानाधिकरणस्य मुख्यमूलत्वाद् गौणस्य, 'भिन्नो घटः' इति घटेन समानाधिकरणो भेदोपचारो गौणो मुख्यं भेदमनुप्रवृत्तिसहचरितमवस्थाविशेषं नव-तरुण-मध्य-जीर्णादिकं सर्पस्येव स्फटाटोप-कुटिलगति-कुण्डल-प्रसृत-दीर्घवृत्त्या (त्ता) द्यवस्थाविशेषं भावस्यापेक्ष्य विनष्टेऽपि 'भिन्नः' इत्युपचारः क्रियते, गौणस्य मुख्यमूलत्वात् । अभिन्न एव वा भावे कपालाद्यवस्थायां भेद उपचर्यते स्तिमितसरःसलिलवदनुत्पादव्ययत्वाद् भावस्य 10 पुरुष-कालादिकारणमात्रस्य ।
किञ्च, विशिष्यते विशेषः इति सतो विशेषत्वात् तदपेशत्वाच्च विशिष्यते स तस्मात् तेन वा ४९१-२ स इत्यादिना अविशे शिषन्नविशिष्यमाणो वा न विशेष एव कारकाणामेव कारकत्वात् [पृ० ७५३ ] इत्यादिग्रन्थेन पूर्वोक्ताच्चेत्यतिदिशति । किञ्च, तद्वत्तित्वाच्च 'पूर्वोक्ताच्च' इति वर्तते विशेषवृत्तित्वाद् भावस्य विशेषस्वात्मवद् न विशेषेभ्योऽन्यत्वम्, तथा च भाववृत्तित्वाद्वा भाववद् 15 विशेषस्य भावाद् नान्यत्वम्, तद्वृत्तित्वं चानयोरतीतन्यायेन सुभावितम्, घटपटादिभावानुवृत्तिरूपत्वेऽपि पृथगनिर्देश्यरूपत्वात् ।
स्यान्मतम्-अन्त्यविशेषस्तु परमाणुष्वन्यप्रत्ययहेतुत्वाद् व्यावृत्तिरूप एवेति चेत्, तन्न, यस्माद् भावार्दन्त्यविशेषस्तु नैव पृथग्भूतः, विशेषत्वात्, घटवत्, यथा घटो विशेषो भावात्मकस्तवृत्तित्वात् स्वात्मवद् भावादपृथग्भूतस्तथान्त्यविशेषोऽपि । तद् व्याचष्टे-यदा चायमित्या[दि], 20 न कदाचिदप्यभावो भवति, 'खपुष्पवत्' इति वैधर्म्यदृष्टान्तः। भावाव्यतिरिक्तविशेषोपलब्धे-.
र्भावा[द्] विशेषस्यान्यत्वं व्यावृत्तम्, अतोऽसिद्धमन्यत्वमित्युपनयः । ___अत्राह-ननु यदैव सामान्यमविशेषं तदैवान्यत्वम्, ननु भावोऽनुवृत्तिलक्षणो निराकृतसर्वघटपटादिविशेषो न क्वचित् कुतश्चिद् व्यावर्तते, अतो 'विशेषात् परस्परव्यावृत्तिलक्षणादन्यः' इति सिद्धमिति । एतच्च न अविशेषात्, उक्तं प्रागनेकधा निराकृतसर्वविशेषस्य भावस्यात्मलाभाभावाद- 25 भावत्वम्, अविशेषत्वाच्च खपुष्पवदसतः कुतोऽन्यत्वम् ?
किञ्च, यदपि च "भावो विशेषेण सह भवति न विशेषः, विशेषो भावेन सह न भावः, तौ च १ सर्पस्यैव प्र० ।। २ पृ० ७५३ पं० ५ ।। ३ पृ० ७४९ पं० २॥ ४ नानत्वं भा०। नानात्वं य० ॥ ५ °गनिर्देशारूप प्र०॥ ६ °दत्यन्तविशे' प्र०॥ ७ (तत्स्वात्मवद् ?) ॥ ८ व्यावृत्त्यम् भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org