________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ नवमे नियमारे
अथापि कथञ्चिदन्यत्वम्, अन्यत् 'अन्यदेव' इति न वक्तव्यम्, अन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवद् यावद् रूपादिक्षणान्तरान्यानन्यपरमाणुवत् ।
अत्यन्ताभावस्तहि तौ, विशेषाविशेषत्वाभावात्, खपुष्पवत् ।
७५९
ननु भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमप्यवचनीयम् । यदि ह्यनुवृत्ति-व्यावृत्ति5 लक्षणनियमो न स्यात् ततो रूपादिरपि विशेषः प्रवर्तेत भाववत् । भावोऽपि चानुवृत्तिरूपः व्यावर्तेत, खपुष्पवत् । भिन्नव्यवस्थानलक्षणमुभयत्वमस्तु ।
परस्परमसह' इति वृत्तिभेद उच्यते स चासिद्धः, तयोरन्यत्वस्यासिद्धत्वात् । 'सिद्धे ह्यन्यत्वे सहा४९२-१ सहभवनं द्विष्ठत्वात् स्यात्, तत्तु न सिद्धम् । तस्मादयुक्ता सहासहभवन कल्पनाऽन्यत्वं च तयोः । अभ्युपगम्यापि ब्रूमः - तँ (अ) थापि कथञ्चिदित्यादि यावत् परमाणुवदिति स एव तुल्यगमो 10 ग्रन्थोऽन्यत्वनिषेधार्थः अन्यत् 'अन्यदेव' इति न वक्तव्यमिति प्रतिज्ञाय अन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवद् यावद् रूपादिक्षणान्त रौन्यानन्यपरमाणुवविति सव्याख्यानोपायप्रदर्शनेन गतार्थः ।
एवमेकत्वान्यत्वयोर्निषिद्धयोराह परः - अत्यन्ताभावस्तर्हि तौ, विशेषाविशेषत्वाभावात्, खपुष्पवत् । भाव-विशेषयोरविशेष एकत्वम्, विशेषोऽन्यत्वम्, तयोः प्रतिषिद्धत्वाद् विशेषाविशेषत्वा15 भाव:, यस्य विशेषाविशेषत्वाभावस्तस्यासत्त्वम्, यथा खपुष्पस्येति ।
अत्रोच्यते - ननु भिन्नेत्यादि । अनुभयत्वमसत्त्वम्, तदपि अवचनीयम्, कस्मात् ? भिन्नव्यवस्थानलक्षणत्वात्, यथाग्नीन्धनयोर्दहन - दाह्यादिव्यवस्थाने भिन्ने लक्षणे स्त इत्यनुभयत्वं नास्तीत्युक्तं तथेह भाव- विशेषयोरपि अनुवृत्ति-व्यावृत्ती व्यवस्थाने भिन्ने लक्षणे स्त इत्यनुभयत्वमपि 'अवचनीयम् । पूर्ववच्च गमनीयमिति तत्प्रसाधनार्थमाह-यदि ह्यनुवृत्तीत्यादि । अनिष्टापादनोदा20 हरणे तु विशेष - ततो रूपादिरपीत्यादि, रूपं विशेषो रसोऽपि प्रवर्तेत पृथगेव भावात् स्वेनैव
रूपेण व्यावृत्तिरूपरहितत्वात् भाववत् । भावोऽपि चानुवृत्तिरूपः सन् रूपादेः पृथगेव व्यावर्तेत ४९२-२ अनुप्रवृत्तिरूपरहितत्वात् खपुष्पवत् । यद्यनुप्रवृत्ति-व्यावृत्ती सामान्य-विशेषयोभिन्नव्यवस्थाने न स्यातां स्यादेष प्रसङ्गः प्रस्तुते यस्माद् भावो रूप- रसादिष्वनुप्रवर्तमानो दृश्यते विशेषश्च रूप - रसादिभ्यः `परस्परं व्यावर्तमानः तस्मान्नानुभयत्वमप्यस्ति । किन्तु भिन्नव्यवस्थानलक्षणमुभयत्वमस्तु अन्यत्व25 मित्यर्थः । एतदनभ्युपगमे दोष उच्यते-- भिन्नव्यवस्थानेत्यादि यावदुभयत्वं स्यात् । सर्वात्मकैकभाव
१ पृ० ७५० पं० ५ ।। २पृ० ७५१ पं० १ ।। ३ हस्तादन्या य० । हस्ताद्वन्या० भा० । पृ० ७५१ पं० १ ।। ४ °रान्यान्यपर° य० । 'रान्यान्यन्यन्यावर' भा० ।। ५ ० ७५१ पं० ३ ।। ६ योरविशेष योरविशेष प्र० ॥ ७ पृ० ७५१ पं० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org